अनिष्टाधिकारिणामपि च श्रुतम् ।
“ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति”(कौ.१.२) इति कौषीतकिनां समाम्नानात् , देहारम्भस्य च चन्द्रलोकगमनमन्तरेणानुपपत्तेः पञ्चम्यामाहुतावित्याहुतिसङ्ख्यानियमात् । तथाहि द्युसोमवृष्ट्यन्नरेतःपरिणामक्रमेण ता एवापो योषिदग्नौ हुताः पुरुषवचसो भवन्तीत्यविशेषेण श्रुतम् । न चैतन्मनुष्याभिप्रायं, कपूयचरणाः स्वयोनिमित्यमनुष्यस्यापि श्रवणात् । गमनागमनाय च देवयानपितृयाणयोरेव मार्गयोराम्नानात् , पथ्यन्तरस्याश्रुतेः, “जायस्व म्रियस्वेति तृतीयं स्थानम्”(छा.उ. ५.१०.८) इति च स्थानत्वमात्रेणावगमात्पथित्वेनाप्रतीतेश्चन्द्रलोकादवतीर्णानामपि च तत्स्थानत्वसम्भवादसम्पूरणेन प्रतिवचनोपपत्तेः, अनन्यमार्गतया च तद्भोगविरहिणामपि ग्रामं गच्छन् वृक्षमूलान्युपसर्पतीतिवत्संयमनादिषु यमवश्यतायै चन्द्रलोकगमनोपपत्तेः, “न कतरेणचन”(छा. उ. ५ । १० । ८) इत्यस्यासम्पूरणप्रतिपादनपरतया मार्गद्वयनिषेधपरत्वाभावात् , अनिष्टादिकारिणामपि चन्द्रलोकगमने प्राप्तेऽभिधीयतेसत्यं स्थानतयावगतस्य न मार्गत्वं तथापि वेत्थ यथासौ मार्गो न सम्पूर्यते इत्यस्य प्रतिवचनावसरे मार्गद्वयनिषेधपूर्वं तृतीयं स्थानमभिवदन्नसम्पूरणाय तत्प्रतिपक्षमाचक्षीत । यदि पुनस्तेनैव मार्गेणागत्य जन्ममरणप्रबन्धवत्स्थानमध्यासीत नैतत्तृतीयं स्थानं भवेत् । नहीष्टादिकारिणश्चन्द्रमण्डलादवरुह्य रमणीयां निन्दितां वा योनिं प्रतिपद्यमानास्तृतीयं स्थानं प्रतिपद्यन्ते । तत्कस्य हेतोः । पितृयाणेन पथावरोहात् । तद्यदि क्षुद्रजन्तवोऽप्यनेनैव पथावरोहेयुः, नैतदेषां जन्ममरणप्रबन्धवत्तृतीयं स्थानं भवेत् । ततोऽवगच्छामः संयमनं सप्त च यातनाभूमीर्यमवशतया प्रतिपद्यमाना अनिष्टाधिकारिणो न चन्द्रमण्डलादवरोहन्तीति । तस्मात् “ये वै के च”(कौ. उ. १ । २) इतीष्टादिकारिविषयं न सर्वविषयम् । पञ्चम्यामाहुताविति च स्वार्थविधानपरं न पुनरपञ्चम्याहुतिप्रतिषेधपरमपि, वाक्यभेदप्रसङ्गात् । संयमने त्वनुभूयेति सूत्रेणावरोहापादानतया संयमनस्योपादानाच्चन्द्रमण्डलापादाननिषेध आञ्जसः । तथाच सिद्धान्तसूत्रमेव । पूर्वपक्षसूत्रत्वे तु शङ्कान्तराध्याहारेण कथञ्चिद्गमयितव्यम् । जीवजञ्जरायुजम् । संशोकजं संस्वेदजम् ॥ १२ ॥
संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ १३ ॥
स्मरन्ति च ॥ १४ ॥
अपि च सप्त ॥ १५ ॥
तत्रापि च तद्व्यापारादविरोधः ॥ १६ ॥
विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ १७ ॥
न तृतीये तथोपलब्धेः ॥ १८ ॥
स्मर्यतेऽपि च लोके ॥ १९ ॥
दर्शनाच्च ॥ २० ॥
तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥
अनिष्टादिकारिणामपि च श्रुतम् ॥१२॥ इष्टादिकारिणां प्रतीतेरित्युक्तम् । तत्रेष्टादिकारित्वविशेषणवैयर्थ्यामाशङ्क्य परिह्रियते । प्रयोजनं त्वनिष्टादिकारिणां शुभमार्गेण गमनमात्रमपि नास्तीति प्रतिपादनेन वैराग्यजननम् ।
यत्किंचिद्यावच्छब्दयोश्चिरभुक्तादिकर्मविषयत्वादस्तु सङ्कोचः , ये के च सर्वशब्दानामर्थसङ्कोचे नास्ति हेतुरिति पूर्वपक्षमाह –
ये के चेति ।
हेतूनामेषामनिष्टादिकारिणामपि चन्द्रलोकगमने प्राप्त इति वक्ष्यमाणप्रतिज्ञया संबन्धः ।
न केवलं समाम्नानम् , उपपत्तिरप्यस्तीत्याह –
देहारम्भस्य चेति ।
कुतोऽनुपपत्तिरत आह –
पञ्चम्यामिति ।
नन्वाहुतिसंख्यानियम इष्टादिकारिविषय एवास्तु , नेत्याह –
तथा हीति ।
द्युशब्देन दिवि हुता श्रद्धा लक्ष्यते । श्रद्धा सोमेत्यर्थः ।
पुरुषवचसो भवन्तीति ।
साधारणपुरुषश्रुतिर्न सङ्कोचमर्हतीत्यर्थः ।
तर्हि यथोपात्तमनुष्येष्वेव सङ्कोच्यतां मनुष्यत्वं चेष्टादिकारिणामेवेति भ्रममपोहति –
न चैतदिति ।
दक्षिणोत्तरमार्गयोरेव श्रुताववगमादुत्तरस्य च ज्ञानिभिरेवावरुद्धत्वादनिष्टादिकारिणां चन्द्रप्राप्तिरेवेत्याह –
गमनागमनाय चेति ।
द्वयोरेव मार्गयोराम्नानादित्यस्यासिद्धिमाशङ्क्याह –
जायस्वेति ।
स्थानत्वं भोगायतनत्वम् । ननु ‘‘वेत्थ यथाऽसौ लोको न संपूर्यते’’ इत्यस्य प्रश्नस्य ‘‘ जायस्व म्रियस्वे’’ त्येतत्प्रतिवचनम् ।
अस्मिंचन्द्रलोकासंपूरणहेतुत्वेनोक्तस्थानस्य मार्गान्तरत्वं प्रतीयते , एकमार्गत्वे हि सर्वकर्मिणां चन्द्रलोको निबिडः स्यादित्यत आह –
चन्द्रलोकादिति ।
असंपूरणेन हि प्रतिवचनोपपत्तिः सा चन्द्रलोकादागत्येह श्वादिजन्मप्राप्त्यापि स्यादित्यर्थः ।
ननु पापिनां चन्द्रलोकगमनेन तत्र भोगः स्यात्ततश्चाकृताभ्यागमप्रसञ्जनमाशङ्क्याह –
अनन्यमार्गतयेति ।
पूर्वं तृतीयस्थानशब्दस्य मार्गपरत्वाभावः प्रतिपादितः ।
इदानीं न कतरेण च नेत्यस्य तृतीयस्थानसूचकत्वं निराकरोति –
न कतरेण च नेतीति ।
एतयोर्देवयानपितृयाणयोः कतरेण च न एकतरेणापि ये न गच्छन्ति तानि क्षुद्रभूतानि भवन्तीति निर्देशात् कीटादिप्राप्तिमार्गद्वयमुत्थितानामित्येतन्न मन्तव्यम् , वाक्यस्य चन्द्रलोकासंपूरणपरत्वादसंपूरणस्य च चन्द्रलोकादागतानां कीटादिप्राप्त्याप्युपपत्तेः कतरेणापि नेति निषेधो निन्दार्थ इत्यर्थः ।
तृतीयं स्थानमित्यत्र स्थानशब्दो यद्यपि शरीरे व्युत्पन्नत्वान्न मार्गमाह ; तथापि मार्गमुपक्रम्य तृतीयत्वेन निर्दिश्यमानस्य स्वार्थस्य मार्गत्वं गमयत्यवान्तरसंख्यानिवेशस्य साजात्यापेक्षत्वादिति सिद्धान्तयति –
सत्यमित्यादिना ।
असौ लोको न संपूर्यते इत्युदाहर्तव्ये न्यायसाम्यादसौ मार्ग इत्युक्तम् । तत्प्रतिपक्षं तस्य मार्गद्वयस्य प्रतिद्वन्दीभूतं मार्गमेवाचक्षीत न शरीरमित्यर्थः । यदि पितृयाणेनैवगत्वा आगत्य च प्राप्तस्य क्षुद्रजन्तुदेहग्रहणस्य तृतीयस्थानत्वं निर्दिश्येत , न तु मार्गान्तरस्य , तर्हि ‘‘तद्य इह रमणीयचरणा’’ इत्यत्रापि प्राप्यमाणशुभाशुभशरीरस्य तृतीयत्वनिर्देशः स्यान्न चास्ति ।
तस्मात्तृतीयस्थानशब्दो मार्गवाचीत्याह –
न हीष्टादिकारिण इत्यादिना ।
ननु ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव सर्वे गच्छन्तीति सर्वेषां चन्द्रगमनभुक्तमिति , सत्यम् ; तत्सामान्यवचनं तृतीयमार्गविषयविशेषवचनेन सङ्कोचनीयमित्याह –
तस्माद्ये वै के चेति ।
यदुक्तमाहुतावाप इत्याहुतिसंख्यानियमात् सर्वेषां स्वर्गगमनमिति , तत्राह –
स्वार्थविधानपरमिति ।
भास्करेण सुकृतिना दुष्कृतिभिः समानफलभाक्त्वमयुक्तमित्याशङ्क्यायां तन्निरसनेन पूर्वपक्षोपपादकतया सयमने त्वित्यादिसूत्राणि नीतानि । न भोगश्चन्द्रलोके दुष्कृतिनां , किंतु तद्द्वारा नरकं प्राप्यावरोहादिति विद्याकर्मणोरिति सूत्रादारभ्य सिद्धान्तो दर्शितः ।
तद्दूषयति –
अवरोहापादनतयेति ।
संयमने त्वनुभूयावरोह इत्युक्ते संयमनस्य श्रुतस्यावरोहापादानता शीघ्रमवगम्यते । तुशब्देन च चन्द्रापादानता वार्यते । परस्य तु भोगवैषम्यमर्थाद्गम्येत , चन्द्रमण्डलादवरोह इति चाध्याहारापेक्षा स्यादित्यर्थः ॥१२॥१३॥१४॥१५॥१६॥१७॥१८॥१९॥२०॥२१॥
न सांपराय इति ।
सम्यगवश्यम्भावेन परा परस्ताद्देहपाताद् ईयते गम्यत इति संपरायः परलोकस्तत्प्राप्त्यर्थः साधनविशेषः सांपरायः । तं बालमविवेकिनं विशेषतो वित्तनिमित्तेन मोहेन मूढं छन्नदृष्टिमत एव प्रमादं कुर्वन्तं प्रति न भाति ; स न केवलमज्ञ एव , किं तु विपरीतदर्श्यपि , यतोऽयमेव लोकः स्त्र्यन्नपानादिरस्ति न पर इति मानीमननशीलः । अतस्तदनुरूपमाचरन्पुनःपुनर्जननमरणप्राप्त्यामेव समापद्यत इति मृत्योर्नचिकेतसं प्रति वचनम् । वैवस्वतं जनाना परलोकगताना संगमनं संगम्यं हविषा प्रीणयतेति । जीवजं जरायुजम् । अण्डजं हि किंचिद्वृश्चिकादि मातुरुदरं निर्भिद्य मृताज्जायते । उद्भिज्जं च किंचिद्वृक्षाद्यचेतनं पृथिव्याद्युद्भिद्य जायते । जरायुजं तु जीवतो जायत इति ॥