भामतीव्याख्या
वेदान्तकल्पतरुः
 

साभाव्यापत्तिरुपपत्तेः ।

यद्यपि यथेतमाकाशमाकाशाद्वायुमित्यतो न तादात्म्यं स्फुटमवगम्यते तथापि वायुर्भूत्वेत्यादेः स्फुटतरं तादात्म्यावगमाद्यथेतमाकाशमित्येतदपि तादात्म्य एवावतिष्ठते । न चान्यस्यान्यभावानुपपत्तिः । मनुष्यशरीरस्य नन्दिकेश्वरस्य देवदेहरूपपरिणामस्मरणाद्देवदेहस्य च नहुषस्य तिर्यक्त्वस्मरणात् । तस्मान्मुख्यार्थपरित्यागेन न गौणी वृत्तिराश्रयणीया । गौण्यां च वृत्तौ लक्षणाशब्दः प्रयुक्तो गुणे लक्षणायाः सम्भवात् । यथाहुः “लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणत” इति ।

एवं प्राप्ते ब्रूमः –

साभाव्यापत्तिः ।

समानो भावो रूपं येषां ते सभावास्तेषां भावः साभाव्यं सारूप्यं सादृश्यमिति यावत् । कुत उपपत्तेः ।

एतदेव व्यतिरेकमुखेन व्याचष्टे –

नह्यन्यस्यान्यभावो मुख्य उपपद्यते ।

युक्तमेतद्यद्देवशरीरमजगरभावेन परिणमते, देवदेहसमयेऽजगरशरीरस्याभावात् । यदि तु देवाजगरशरीरे समसमये स्यातां न देवशरीरमजगरशरीरं शिल्पिशतेनापि क्रियते । नहि दधिपयसी समसमये परस्परात्मनी शक्ये सम्पादयितुं, तथेहापि सूक्ष्मशरीराकाशयोर्युगपद्भावान्न परस्परात्मत्वं भवितुमर्हति । एवं वाय्वादिष्वपि योज्यम् । तथाच तद्भावस्तत्सादृश्येनौपचारिको व्याख्येयः ।

नन्वाकाशभावेन संयोगमात्रं लक्ष्यतां किं सादृश्येनेत्यत आह –

विभुत्वाच्चाकाशेनेति ॥ २२ ॥

साभाव्यापत्तिरुपपत्तेः ॥२२॥

अत्राकाशं वायुमिति कर्मत्वनिर्देशाद्धूमो भवतीत्यादि भवति श्रुतेश्च संशयः , तदाह –

यद्यपीति ।

युक्तं मार्ग प्रक्रम्य तृतीयत्वनिर्देशात्स्थानशब्दस्य मार्गलक्षणार्थत्वम् ; न तु भवतिश्रुतेः सादृश्यलक्षणार्थत्वेऽस्ति निमित्तमिति संगतिः ।

वायुमिति कर्मत्वेन निर्दिष्टस्य वायुर्भूत्वेति तादात्म्यवत्त्वेन परामर्शकवाक्यशेषान्निर्णयेन पूर्वपक्षमाह –

वायुर्भूत्वेत्यादेरिति ।

वाक्यशेषस्यासंभवदर्थत्वमाशङ्क्याह –

न चान्यस्येति ।

नन्दिकेश्वरो हि रुद्रमाराध्य मानुषशरीरेणैव देवदेहत्वेन परिणनाम । नहुषोऽपीन्द्रत्वं गतोऽगस्त्यशापादजगरत्वं जगाम । एवं हि श्रुतिर्भवति । इतरथा लक्षणा स्यादिति भाष्यं तदनुपपन्नं भवति ।

श्रुतेर्हि सादृश्यालम्बनत्वे माणवके इव वह्निश्रुतेः गौणतास्यान्न लक्षणेत्याशङ्क्याह –

गौण्यामिति ।

गौण्यामपि गुणस्य लक्षणाऽस्ति , लक्षणायां त्वभिधेयसंबन्धात् प्रवर्तमानायां संबन्धिवस्त्वन्तरपरत्वम् , न संबन्धपरत्वम् , गुणात् प्रवर्तमानायां तु गौण्यां वृत्तौ गुणपरत्वं न गुणयुक्तवस्तुपरत्वमिति विवेकः । स्वाभाव्यापत्तिरिति पाठे स्वसमो भावो येषां ते स्वभावास्तेषां भावः ।

स्वाभाव्यमिति समपदाध्याहारः स्यादतः साभाव्यापत्तिरिति युक्तः पाठस्तं व्याचष्टे –

समान इति ।

चन्द्रलोके उषित्वाऽथ तत्र प्रवृत्तफलकर्मक्षयानन्तरमेतमेव वक्ष्यमाणं पन्थानं पुनर्निवर्तन्ते , पुनः शब्दप्रयोगादनादौ संसारे पूर्वमपि चन्द्रमण्डलं गता निवृत्ताश्चेति गम्यते । कोऽसावध्वा यं प्रति निवर्तन्त इति , उच्यते – यथेतम् । यथागतम् । मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमिति गमनक्रमः । आगमनेऽप्याकाशनिर्देशाद् यथेतमिति प्रतीयते । आगमने पितृलोकाद्यसंकीर्तनादभ्रादिसंकीर्तनाच्चानेवमपीति गम्यतेऽतो यथेतमिति उपलक्षणम् । आकाशं प्रतिपद्यते , या आपश्चन्द्रमण्डले शरीरमारब्धवन्त्यस्ताः कर्मक्षये द्रुता आकाशगता आकाशसदृशा भवन्ति । तदुपहिता अनुशयिनोऽप्याकाशसमाना भवन्ति । आपो वायुना इतश्चामुतश्च नीयमाना वायुसमा भवन्ति । अनुशय्यपि तादृशो भवति । तदनन्तरं गमनकाले यो धूम आसीत् तत्तुल्यो भवति । ततः अपां भरणात् संभृतोदकमभ्रं तद् भवति । ततो जलसेचनान्मेधो वर्षणकर्ता संभवति । तद्भावं तत्सादृश्यमापद्य प्रवर्षति । वर्षधाराभिरनुशयी पृथिवीमापद्यत इत्यर्थः ॥२२॥

इति चतुर्थं साभाव्यापत्त्यधिकरणम् ।