सन्ध्ये सृष्टिराह हि ।
इदानीं तु तस्यैव जीवस्यावस्थाभेदः स्वयञ्ज्योतिष्ट्वसिद्ध्यर्थं प्रपञ्च्यते
किं प्रबोध इव स्वप्नेऽपि पारमार्थिकी सृष्टिराहोस्विन्मायामयीति ।
यद्यपि ब्रह्मणोऽन्यस्यानिर्वाच्यतया जाग्रत्स्वप्नावस्थागतयोरुभयोरपि सर्गयोर्मायमयत्वं तथापि यथा जाग्रत्सृष्टिर्ब्रह्मात्मभावसाक्षात्कारात्प्रागनुवर्तते । ब्रह्मात्मभावसाक्षात्कारात्तु निवर्तते । एवं किं स्वप्नसृष्टिराहोस्वित्प्रतिदिनमेव निवर्तत इति विमर्शार्थः ॥ द्वयोः इहलोकपरलोकस्थानयोः । सन्धौ भवं सन्ध्यम् । ऐहलौकिकचक्षुराद्यव्यापाराद्रूपादिसाक्षात्कारोपजननादनैहलौकिकं पारलौकिकेन्द्रियादिव्यापारस्य च भविष्यतोऽप्रत्युत्पन्नत्वेन न पारलौकिकम् । नच न रूपादिसाक्षात्कारोऽस्ति स्वप्नदृशः । तस्मादुभयोर्लोकयोरस्यान्तरालत्वमिति ब्रह्मात्मभावसाक्षात्कारात्प्राक्तथ्यरूपैव सृष्टिर्भवितुमर्हति । अयमभिसन्धिः इह सर्वाण्येव मिथ्याज्ञानान्युदाहरणं तेषां सत्यत्वं प्रतिज्ञायते । प्रकृतोपयोगितया तु स्वप्नज्ञानमुदाहृतम् । ज्ञानं यमर्थमवबोधयति स तथैवेति युक्तम् । तथाभावस्य ज्ञानारोहात् । अतथात्वस्य त्वप्रतीयमानस्य तथाभावप्रमेयविरोधेन कल्पनास्पदत्वात्बाधकप्रत्ययादतथात्वमिति चेत् । न । तस्य बाधकत्वासिद्धेः । समानगोचरे हि विरुद्धार्थोपसंहारिणी ज्ञाने विरुध्येते । बलवदबलवत्त्वानिश्चयाच्च बाध्यबाधकभावं प्रतिपद्येते । न चेह समानविषयत्वं, कालभेदेन व्यवस्थोपपत्तेः । यथाहि क्षीरं दृष्टं कालान्तरे दधि भवति, एवं रजतं दृष्टं कालान्तरे शुक्तिर्भवेत् । नानारूपं वा तद्वस्तु । तद्यस्य तीव्रातपक्लान्तिसहितं चक्षुः स तस्य रजतरूपतां गृह्णाति । यस्य तु केवलमालोकमात्रोपकृतं, स तस्यैव शुक्तिरूपतां गृह्णाति । एवमुत्पलमपि नीललोहितं दिवा सौरीभिर्भाभिरभिव्यक्तं नीलतया गृह्यते । प्रदीपाभिव्यक्तं तु नक्तं लोहिततया । एवमसत्यां निद्रायां सतोऽपि रथादीन्न गृह्णाति निद्राणस्तु गृह्णातीति सामग्रीभेदाद्वा कालभेदाद्वा विरोधाभावः । नापि पूर्वोत्तरयोर्बलवदबलवत्त्वनिर्णयः । द्वयोरपि स्वगोचरचारितया समानत्वेन विनिगमनाहेतोरभावात् । तस्मादप्यवश्यमविरोधो व्यवस्थापनीयः । तत्सिद्धमेतत् । विवादास्पदं प्रत्ययाः, सम्यञ्चः, प्रत्ययत्वात् , जाग्रत्स्तम्भादिप्रत्ययवदिति । इममर्थं श्रुतिरपि दर्शयति “अथ रथान् रथयोगान् पथः सृजते”(बृ.उ. ४-३-१०) इति । नच “न तत्र रथा न रथयोगा न पन्थानो भवन्ति”(बृ. उ. ४ । ३ । १०) इति विरोधादुपचरितार्थां सृजत इति श्रुतिर्व्याख्येया । सृजत इति हि श्रुतेर्बहुश्रुतिसंवादात्प्रमाणान्तरसंवादाच्च बलीयस्त्वेन तदनुगुणतया न तत्र रथा इत्यस्या भाक्तत्वेन व्याख्यानात् । जाग्रदवस्थादर्शनयोग्या न सन्ति न तु रथा न सन्तीति । अत एव कर्तृश्रुतिः शाखान्तरश्रुतिरुदाहृता । प्राज्ञकर्तृकत्वाच्चास्य पारमार्थिकत्वं वियदादिसर्गवत् । नच जीवकर्तृकत्वान्न प्राज्ञकर्तृकत्वमिति साम्प्रतम् । “अन्यत्र धर्मादन्यत्राधर्मात्”(क. उ. १ । २ । १४) इति प्राज्ञस्यैव प्रकृतत्वात् । जीवकर्तृकत्वेऽपि च प्राज्ञादभेदेन जीवस्य प्राज्ञत्वात् । अपिच जाग्रत्प्रत्ययसंवादवन्तोऽपि स्वप्नप्रत्ययाः केचिद्दृश्यन्ते । तद्यथा स्वप्ने शुक्लाम्बरधरः शुक्लमाल्यानुलेपनो ब्राह्मणायनः प्रियव्रतं प्रत्याहप्रियव्रत, पञ्चमेऽहनि प्रातरेवोर्वराप्रायभूमिदानेन नरपतिस्त्वां मानयिष्यतीति । स च जाग्रत्तथात्मनो मानमनुभूय स्वप्नप्रत्ययं सत्यमभिमन्यते । तस्मात्सन्ध्ये पारमार्थिकी सृष्टिः ॥ १ ॥
निर्मातारं चैके पुत्रादयश्च ॥ २ ॥
इति प्राप्ते उच्यते –
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ।
इदमत्राकूतम् । न तावत्क्षीरस्येव दधि रजतस्य परिणामः शुक्तिः सम्भवति । नहि जात्वीश्वरगृहे चिरस्थितान्यपि रजतभाजनानि शुक्तिभावमनुभवन्ति दृश्यन्ते । न चेतरस्य रजतानुभवसमयेऽन्योऽनाकुलेन्द्रियो न तस्य शुक्तिभावमनुभवति प्रत्येति च । न चोभयरूपं वस्तु । सामग्रीभेदात्तु कदाचिदस्य तोयभावोऽनुभूयते कदाचिन्मरीचितेति साम्प्रतम् । पारमार्थिके ह्यास्य तोयभावे तत्साध्यामुदान्योपशमलक्षणार्थक्रियां कुर्यान्मरीचिसाध्यामपि रूपप्रकाशलक्षणाम् । न मरीचिभिः कस्यचित्तृष्णज उदन्योपशाम्यति । नच तोयमेव द्विविधमुदन्योपशमनमतदुपशमनमिति युक्तम् । तदर्थक्रियाकारित्वव्याप्तं तोयत्वं मात्रयापि तामकुर्वत्तोयमेव न स्यात् । अपिच तोयप्रत्ययसमीचीनत्वायास्य द्वैविध्यमभ्युपेयते तच्चाभ्युपगमेऽपि न सेद्धुमर्हति । तथाहि - असमर्थविधापाति तोयमेतदिति मन्वानो न तृष्णयापि मरीचितोयमभिधावेत्यथा मरीचीननुभवन् । अथाशक्तमभिमन्यमानोऽभिधावति । किमपराद्धं मरीचिषु तोयविपर्यासेन सर्वजनीनेन यत्तमतिलङ्घ्य विपर्यासान्तरं कल्प्यते । नच क्षीरदधिप्रत्ययवदाचार्यमातुलब्राह्मणप्रत्ययवद्वा तोयमरीचिविज्ञाने समुच्चितावगाहिनी स्वानुभवात्परस्परविरुद्धयोर्बाध्यबाधकभावावभासनात् । तत्रापि रजतज्ञानं पूर्वमुत्पन्नं बाध्यमुत्तरं तु बाधकं शुक्तिज्ञानं प्राप्तिपूर्वकत्वात्प्रतिषेधस्य । रजतज्ञानात्प्राक्प्रापकाभावेन शुक्तेरप्राप्तायाः प्रतिषेधासम्भवात्पूर्वज्ञानप्राप्तं तु रजतं शुक्तिज्ञानमपबाधितुमर्हति । तदपबाधात्मकं च स्वानुभवादवसीयते । यथाहुः “आगामित्वादबाधित्वा परं पूर्वं हि जायते । पूर्वं पुनरबाधित्वा परं नोत्पद्यते क्वचित्” । नच वर्तमानरजतावभासि ज्ञानं भविष्यत्तामस्यागोचरयन्न भविष्यता स्वसमयवर्तिनीं शुक्तिं गोचरयता प्रत्ययेन बाध्यते, कालभेदेन विरोधाभावादिति युक्तम् । मा नामास्य ज्ञासीत्प्रत्यक्षं भविष्यत्तां तत्पृष्ठभावि त्वनुमानमुपकारभावहेतुमिवासति विनाशप्रत्ययोपनिपाते स्थेमानमाकलयति । असति विनाशप्रत्ययोपनिपाते रजतमिदं स्थिरं रजतत्वादनुभूतप्रत्यभिज्ञातरजतवत् । तथाच रजतगोचरं प्रत्यक्षं वस्तुतः स्थिरमेव रजतं गोचरयेत् । तथाच भविष्यच्छुक्तिकाज्ञानकालं, रजतं व्याप्नुयादिति विरोधाच्छुक्तिज्ञानेन बाध्यते । यथाहुः “रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते । भविष्यच्छुक्तिकाज्ञानकालं व्याप्नोति तेन तत्” ॥ इति । प्रत्यक्षेण चिरस्थायीति गृह्यत इति केचिद्व्याचक्षते । तदयुक्तम् । यदि चिरस्थायित्वं योग्यता न सा प्रत्यक्षगोचरः शक्तेरतीन्द्रियत्वात् । अथ कालान्तरव्यापित्वं, तदप्ययुक्तं, कालान्तरेण भविष्यतेन्द्रियस्य संयोगायोगात्तदुपहितसीम्नो व्यापित्वस्यातीन्द्रियत्वात् । नच प्रत्यभिज्ञाप्रत्ययवदत्रास्ति संस्कारः सहकारी येनावर्तमानमप्याकलयेत् । तस्मादत्यन्ताभ्यासवशेन प्रत्यक्षानन्तरं शीघ्रतरोत्पन्नविनश्यदवस्थानुमानसहितप्रत्यक्षाभिप्रायमेव चिरस्थायीति गृह्यत इति मन्तव्यम् । अत एवैतत्सूक्ष्मतरं कालव्यवधानमविवेचयन्तः सौगताः प्राहुः, द्विविधो हि विषयः प्रत्यक्षस्य ग्राह्यश्चाध्यवसेयश्च । ग्राह्यक्षण एकः स्वलक्षणोऽध्यवसेयश्च सन्तान इति । एतेन स्वप्नप्रत्ययो मिथ्यात्वेन व्याख्यातः । यत्तु सत्यं स्वप्नदर्शनमुक्तं तत्राप्याख्यात्रा ब्राह्मणायनेनाख्याते संवादाभावात् । प्रियव्रतस्याख्यातसंवादस्तु काकतालीयो न स्वप्नज्ञानं प्रमाणयितुमर्हति । तादृशस्यैव बहुलं विसंवाददर्शनात् । दर्शितश्च विसंवादो भाष्यकृता कार्त्स्न्येनानभिव्यक्तिं विवृण्वता ।
रजन्यां सुप्त इति ।
रजनीसमयेऽपि हि भारताद्वर्षान्तरे केतुमालादौ वासरो भवतीति भारते वर्ष इत्युक्तम् ॥ ३ ॥
सूचकश्च हि श्रुतेराचक्षते च तद्विदः ।
दर्शनं सूचकं तच्च स्वरूपेण सत् । असत्तु दृश्यम् । अत एव स्त्रीदर्शनस्वरूपसाध्याश्चरमधातुविसर्गादयो जाग्रदवस्थायामनुवर्तन्ते । स्त्रीसाध्यास्तु माल्यविलेपनदन्तक्षतादयो नानुवर्तन्ते ।
न चास्माभिः स्वप्नेऽपि प्राज्ञव्यापार इति ।
प्राज्ञव्यापारत्वेन पारमार्थिकत्वानुमानं प्रत्यक्षेण बाधकप्रत्ययेन विरुध्यमानं नात्मानं लभत इति भावः । बन्धमोक्षयोरान्तरालिकं तृतीयमैश्वर्यमिति ॥ ४ ॥
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ।
देहयोगाद्वा सोऽपि
इति सूत्रद्वयं कृतोपपादनमस्माभिः प्रथमसूत्रे । निगदव्याख्यातं चैतयोर्भाष्यमिति ॥ ५ ॥
देहयोगाद्वा सोऽपि ॥ ६ ॥
संध्ये सृष्टिराह हि ॥१॥ कर्मफलस्य यातायातरूपत्वेन पूर्वं वैराग्यं निरूपितम् । इदानीं विरक्तस्य तत्त्वपदार्थविवेकार्थं द्वितीयः पाद आरभ्यते । तत्रापि न स्थानतोऽपी (ब्र.अ.३.पा.सू.११) त्यतः प्राक् त्वंपदार्थो विवेचितः , तत आरभ्य तत्पदार्थः । आद्याधिकरणस्य तात्पर्यमाह –
तस्यैवेति ।
यस्य पूर्वस्मिन्पादे जाग्रदवस्थायामिहलोकपरलोकसंचार उक्तः तस्यैवेत्यर्थः ।
प्रयोजनमाह –
स्वयंज्योतिष्ठ्वेति ।
जाग्रदवस्थायां ह्यादित्यादिसंकराद् दुर्विवेकमात्मनः स्वयंज्योतिष्ठ्वं , तत्र यदि स्वप्नोऽपि सत्यः स्यात् तदवस्थं दुर्विवेकत्वमिति तन्मिथ्यात्वामुच्यते । मनस्तु स्वप्ने सदपि दृश्यत्वान्नात्मभासकम् ।आदित्यादीनां दृश्यत्वाविशेषेऽपि स्वरूपतोऽपि व्यतिरेकसमर्थनार्थमर्थवती मिथ्यात्वचिन्ता । आरम्भणाधिकरणे (ब्र.अ.२.पा.१.सू.१४) समस्तभेदमिथ्यात्वोपपादनादजामित्वाय प्रपञ्चयते इत्युक्तिः ।
रथादिसर्गाम्नानाद्रथाद्यभावाम्नानाच्च संशयमाह –
किमिति ।
सर्वविकारमिथ्यात्वस्याधस्तात्साधनाद् न पूर्वपक्षिणो दृष्टान्तसिद्धिरित्याशङ्क्याह –
यद्यपीति ।
स्वप्नस्य व्यावहारिकत्वमस्ति न वेति चिन्त्यत इत्यर्थः । अनेन प्रपञ्च्यत इत्येतद्विवृतम् ।
द्वयोर्लोकस्थानयोः संधौ भवतीति संध्यमिति भाष्यं न युक्तं , स्वप्नस्येहैव लोकेऽनुभवादित्याशङ्क्याह –
ऐहलौकिकेति ।
यथा लोके ग्रामसंधिर्द्वौ ग्रामौ भजते , एवं स्वप्न उभौ लोकौ लक्षणतः स्पृशति , तत्र परलोकस्यैतल्लोकवर्तिचक्षुराद्यजन्यरूपादिसाक्षात्कारवत्त्वं व्यापारविरहाच्चेदनैहलौकिकत्वं स्वप्नस्य , तर्ह्यैहलौकिकसुषुप्तेरप्यनैहलौकिकत्वं स्यादत आह –
रूपादिसाक्षात्कारोपजननादिति ।
चक्षुरादिशब्दो गोलकाभिप्रायः ; करणानां लोकद्वयेऽप्यविशेषात् ।
स्वप्नस्य परलोकलक्षणवत्त्वमुक्त्वा इहलोकलक्षणवत्त्वमाह –
पारलौकिकेति ।
अत्रापि पारलौकिकसुषुप्तेरपारलौकिकत्वव्यावृत्तये न च न रूपादीत्युक्तम् ।
संध्ये स्थाने तथ्यरूपैव सृष्टिर्भवितुमर्हतीति भाष्यमयुक्तम् ; आरम्भणाधिकरणादौ सर्वकार्यमिथ्यात्वसमर्थनादत आह –
ब्रह्मात्मभावसाक्षात्कारादिति ।
स्वप्नसत्यत्वं वक्तुं न शक्यते इदंरजतादिबोधेष्विव बाधविरोधादित्याशङ्क्याह –
अयमभिसंधिरिति ।
ज्ञानं सर्वं यथार्थमिति पूर्वपक्ष इत्यर्थः ।
तर्हि स्वप्नोदाहरणमयुक्तं सर्वभ्रमेषु विप्रतिपत्तेरविशेषादत आह –
प्रकृतोपयोगितयेति ।
स्वप्रकाशित्वश्रुतौ प्रकृतमात्रायं पुरुषः स्वयंज्योतिर्भवतीति ।
बाधकत्वासिद्धिमुपपादयितुं पराभिमतबाधकत्वरूपमनुवदति –
समानगोचरे इति ।
समानगोचरविरुद्धार्थज्ञानयोरपि सत्प्रतिपक्षयोरिव न बाध्यबाधकत्वमित्यत उक्तं –
बलवदबलवत्त्वेति ।
तत्र तावदिदंरजतादिज्ञानानां नेदंरजतादिज्ञानानां च विरोधाभावमाह – नापि पूर्वोत्तरयोर्बलवदबलवत्त्वनिश्चय इत्यतः प्राक्तनेन ग्रन्थेन ।
नीलोत्पले रात्रौ रक्तत्वभ्रमो भवति तमुपपादयति –
एवमुत्पलमपीति ।
तस्मादपीति ।
अपिकारेण प्रागुक्तं विरोधाभावं समुच्चिनोति । विवादास्पदं प्रत्यया इति नियतलिङ्गत्वात्सामानाधिकरण्यम् । रथैर्युज्यन्त इति रथयोगा अश्वादयः । पथो रथमार्गान् ।
बहुश्रुतिसंवादादिति ।
बहुश्रुतयः स हि कर्तेत्याद्या उदाहृता भाष्ये । प्रमाणान्तरम् उक्तमनुमानं वक्ष्यमाणं प्राज्ञकर्तृकत्वहेतुकम् ।
भाक्तत्वेनेति ।
भक्तिः संकोचः ।
तमेवाह –
जाग्रदिति ।
बहुश्रुतिविरोधादित्येतत्स्पष्टयति –
अत एवेति ।
कर्तृश्रुतिः स हि कर्तेत्येषा बार्हदारण्यकी । शाखान्तरश्रुतिस्तु एष सुप्तेष्वित्याद्या कठशाखागता ।
अनुमानान्तरं वक्ष्यमाणमित्युक्तं तदाह –
प्राज्ञेति ।
हेतोरसिद्धिमाशङ्क्याह –
न च जीवकर्तृकत्वादिति ।
य एष सुप्तेष्विति वाक्यस्याधस्तात् प्राज्ञस्यैव परमात्मन एव प्रकृतत्वादित्यर्थः ।
विमतिपदं सत्यं स्वप्नत्वात् , संवादिस्वप्नवदित्याह –
अपि चेति ।
ब्राह्मणा अयनमाश्रयो यस्य स तथा । स्वयं तु ब्राह्मणाभास इत्यर्थः । तथाविधेनोक्तमपि स्वप्ने सत्यं भवति किं पुनरन्यदिति भावः । प्रियव्रतं प्रियव्रतनामानं कंचित् । उर्वरा सर्वसस्या भूः ॥१॥२॥
यदुक्तं क्षीरदधिवत्कालभेदेनैकस्य शुक्तिरजतात्मकत्वादविरोधो रजतशुक्तिज्ञानयोरिति , तत्राह –
न तावत्क्षीरस्येवेत्यादिना ।
ईश्वरस्य राजादेर्गृहे वस्तुतो यदीदं रजतं स्यात् , तर्हि , कालान्तरेऽपि शुक्तिर्न स्याद् , राजमन्दिरगतरजतकुम्भवदित्युक्तम् , इदानीं यदापि रजतत्वेनानुभूयते , तदैव पुरुषान्तरे विसंवादादपि न वास्तवं रजतत्वमित्याह –
न चेतरस्येति ।
अन्योऽनाकुलेन्द्रियस्तस्य शुक्तिभावं नानुभवतीत्येतन्नेति व्यतिरेकमुक्त्वाऽन्वयमाह –
प्रत्येति चेति ।
शुक्तिभावमित्यनुषङ्गः । शुक्तिरजतात्मकमेकमेव वस्तु ग्रहणसामग्रीभेदात्कदाचिच्छुक्तित्वेन ज्ञायते , कदाचिद्रजतत्वेन ज्ञायते ।
मा भूत्परिणाम इति यदुक्तं तद्दूषयति –
न चोभयरूपमिति ।
इष्टप्रसङ्गतामाशङ्क्याह –
न मरीचिभिरिति ।
तृष्णजः पिपासोः । स्वपितृषोर्नजिङिति तृषेर्नजिङ् प्रत्ययः । उदन्या पिपासा ।
ननु मा कुर्वन्तु मरीचयस्तोयसाध्यामर्थक्रियां , सन्तु च तोयं , का बाधा ? तोयस्य द्व्यात्मकत्वादित्याशङ्क्याह –
न च तोयमेवेति ।
पिपासोपशमकमुदकमित्यैकरूप्यस्य सति संभवे न प्रयोजकद्वैविध्यं कल्प्यमित्यर्थः ।
अकल्पने च व्यापकव्यावृत्त्या व्याप्यव्यावृत्तिमप्याह –
तदर्थेति ।
ननु न कल्प्यते , किन्तु दृश्यते इत्याशङ्क्य प्रयोजकद्वैविध्याभ्युपगमेनापि परिहरति –
अपि चेति ।
मरीचिषु तोयमवभासमानमर्थक्रियायामसमर्थमिति भासेत समर्थमिति वा , नाद्य इत्याह –
असमर्थविधेति ।
असमर्थस्य विधा प्रकारस्तं पतति प्राप्नोति तथोक्तम् । यथा मरीचीन् शुद्धानित्यर्थः ।
पूर्वं क्षीरस्येव दधि न रजतस्य शुक्तिः परिणाम इत्यर्थं दूषणमभाणि , संप्रति प्रतीतिरपि तथा नास्तीत्याह –
न च क्षीरदधिप्रत्ययवदिति ।
आचार्यादौ न परिणामः किं त्वपेक्षामात्रम् । एवं तावत् ज्ञानद्वयस्य विरुद्धार्थत्वविषयत्वमुक्तम् । अथ यदुक्तं बाध्यबाधकभावो न ज्ञानयोर्निर्णीयते ; स्वगोचरशूरत्वाद् द्वयोरिति तत्र स्वगोचरशूरत्वेऽप्यर्थाद्विरोधमुपरिष्टाद्वक्ष्यति ।
इदानीं बाध्यबाधकभावं निगमयति –
तत्रापीति ।
परं शुक्तिज्ञानमबाधित्वैव पूर्वं रजतज्ञानं जायते , कुतः ? परस्यागामित्वाद् भविष्यत्त्वादप्राप्तेस्तन्निषेधस्य पूर्वेण कर्तुमशक्यत्वादित्यर्थः ।
ननु तर्हि पूर्वमपि परेण न बाध्यते , स्वविषयशूरत्वादुभयोरिति , तत्राह –
पूर्वं पुनरिति ।
सत्यं तथापि पूर्वप्रतीतार्थाभावबोधित्वात् तस्य बाधकमित्यर्थः ।
स्वविषयशूरत्वेऽपि अर्थाद्विरोधं वक्ष्यतीत्यवादिष्म , तमाह –
न च वर्तमानरजतावभासीत्यादिना ।
वर्तमानरजतावभासि विज्ञानमत एवास्य रजतस्य भविष्यत्तामगोचरयद् भविष्यता शुक्तिप्रत्ययेन स्वसमयवर्तिनीं शुक्तिं गोचरयता न बाध्यते , कुतः ? कालभेदेन विरोधाभावादित्येतन्न च युक्तमिति योजना ।
अत्र हेतुमाह –
मा नामेति ।
अस्य रजतस्य भविष्यत्तां मा ज्ञासीन्नाम मा प्रकाशयतु नाम ।
उपकारभावहेतुमिवेति ।
इदं रजतमुपकारकं रजतत्वात्संमतवदिति यथेत्यर्थः । विनाशं प्रत्येति वस्तु येन स विनाशप्रत्ययो विनाशः कारणम् । रजतज्ञानकालमारभ्य यावच्छुक्तिज्ञानकालं रजतविनाशहेत्वदर्शनात् स्थायित्वे शुक्तित्वरजतयोरेकदैकत्र विरोधादर्थाद् बाध्यबाधकत्वं ज्ञानयोरित्यर्थः । अनुमानानुगृहीतप्रत्यक्षेण गृह्यमाणं रजतं चिरस्थायीति गृह्यते इति व्याख्यास्यति । तेन तद्रजतं भविष्यच्छुक्तिकाज्ञानस्य यः कालः तं व्याप्नोतीति वार्तिकार्थः ।
ननु यथा प्रत्यभिज्ञाप्रत्यक्षं कालान्तरवर्तिनीं तत्तां गृह्णाति , एवं रजतप्रत्यक्षमपि भविष्यत्तां रजतस्य ग्रहीष्यति , अत आह –
न च प्रत्यभिज्ञेति ।
अत्यन्ताभ्यासवशेनेति सूक्ष्मकालव्यवधानागणने हेतुः । परिच्छेदानन्तरक्षणे अनुमानस्य प्रत्यक्षं प्रति सहकारित्वात्तदा च तस्य विनश्यत्त्वाद्विनश्यदवस्थत्वोक्तिः । एतत्सूक्ष्मतरं कालव्यवधानमविवेचयन्तः सौगता अनुमानगम्योऽपि संतानोऽनुगतरूपः प्रत्यक्षाध्यावसेयः स्वलक्षणग्रहणादध्युपर्यवसेय इत्याहुरित्यर्थः ।
इदंरजतादिभ्रमाणां बाधमुपपाद्य प्रकृते योजयति –
एतेनेति ।
स्वप्नस्य य आख्यातो ब्राह्मणाभासस्तेन सह जागरणे गत्वा आख्याते त्वया ममैतदुक्तमित्यभिधाने तेन च नेत्युक्ते विंसवादात्तत्रापि स्वप्ने न सत्यत्वमिति शेषः ।
भाष्यमुपादाय व्याचष्टे –
रजन्यामिति ।
भारतवर्षे वासरमिति भारतग्रहणव्यवच्छेद्यमाह –
रजनीति ।
भारतवर्षे यो रजनीसमयस्तस्मिन्नपीत्यर्थः । केतुमालमिति मेरोः पश्चिमदेशः ॥३॥
ननु कुञ्जरारोहादिदर्शनं स्वप्ने सूचकं तच्च सत्यमिति कथं मिथ्याभूतस्य स्वप्नस्य सूचकत्वं सूत्रे उच्यते ? तत्राह –
तच्च स्वरूपेणेति ।
विषयाविशेषितरूपेण ज्ञानमात्ररूपेण सत् । तच्च न सूचकम् । यतः कुतश्चिज् ज्ञानाद्यस्य कस्यचित् सूचनप्रसङ्गात् । असत्तु दृश्यं तस्मात्तदुपहितं दर्शनं सूचकम् । तच्च मिथ्यैवेत्यर्थः । यदि सूचकत्वं स्वप्नस्योपेयते तर्ह्यर्थक्रियाकारित्वमहत्त्वसंयोगात् जाग्रद्वद् ब्रह्मसाक्षात्कारादर्वागबाधः स्यात् ।
अतश्च पूर्वापरविरोध इत्याशङ्क्याह –
अत एवेति ।
अस्ति मिथ्याभूतख्याद्युपहितस्यापि स्वप्नदर्शनस्य व्यावहारिकं सत्त्वम् । अत एवाद्राक्षं स्वप्नमहमिति मिथ्यार्थोपहितं स्वप्नदर्शनमनुमन्यते । युक्तया तु तस्य मिथ्यार्थोपहितत्वान्मिथ्यात्वमुच्यते । अर्थस्तु स्वाप्नो मिथ्या , न च व्यावहारिकमपि सत्त्वं तस्यास्तीति न पूर्वापरविरोध इत्यर्थः । स्वप्नः सत्यः , प्राज्ञकर्तृकत्वादित्यनुमिते न चास्माभिरिति भाष्येण स्वप्नस्य प्राज्ञकर्तृकत्वमभ्युनुज्ञायते तत्र हेतुस्वीकारे हेतुमत्सत्यत्वमपि स्यादित्याशङ्क्याह – प्राज्ञव्यापारत्वेनेति ॥४॥
तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यमिति भाष्योदाहृतश्रुतौ तृतीयशब्दार्थमाह –
बन्धमोक्षयोरिति ।
सगुणब्रह्मोपासनफलमीश्वरसायुज्यं हि न बन्धो दुःखाभावान्न मोक्षो भेदाश्रयत्वादतोऽन्तरालवर्तीत्यर्थः ।
कृतोपपादनमिति ।
प्रथमसूत्रे हि स्वप्रकाशस्याप्यविद्याविषयत्वसमर्थनात् जीवस्यैश्वर्यतिरोधानम् अविद्यादेर्मिथ्यात्वेन तत्त्वसाक्षात्कारान्निवृत्तेरभिव्यक्तिश्च समर्थितेति अध्यासात्मकश्च देहयोगः समर्थित इत्यर्थः ॥५॥६॥ सुप्तेषु प्राणेषु य एष साक्षी जागर्ति , न स्वपिति । कथं न स्वपित्यत आह – कामं कामं तं तमभिप्रेतं विषयं निर्मिमाणो जागर्ति यस्तदेव शुक्रं शुद्धममृतं ब्रह्मोच्यते ।
वृणीष्वेति ।
नचिकेतसं प्रति मृत्युवचनम् । काम्यपुत्रादीनां कामभाजंप्रकामभाजमतिशयभाजम् । तद् ब्रह्म कश्चित् कश्चिदपि नात्येति उशब्द एवार्थे । नात्येत्येवेत्यर्थः । अथो स्वयंज्योतिष्ट्वकथनानन्तरम् । अन्ये आहुः । अस्यात्मनो जागरितदेश एवैष यः स्वप्नः ।
अत्र हेतुमाह –
यानि हि जाग्रत्पुरुषः पश्यति तान्येव सुप्तोपि पश्यतीति ।
बहीष्कुलायादिति ।
स्वप्नावस्थायां प्राणेन रक्षन्नवरं कुलायं कुत्सितं नीडं शरीरं तस्मात्कुलायाद्वहिश्चरित्वा तस्मिन्नभिमानमकृत्वेत्यर्थः । स आत्मा यत्र कामं यत्र कामो भवति तत्र विषये ईयते गच्छति । स्वप्नया स्वप्नरूपयाऽन्तःकरणवृत्त्येत्यर्थः । स्वयमात्मा जाग्रद्देहं विहत्य निश्चेष्टमापाद्य । देहव्यापारो ह्यात्मभोगार्थः भोगार्थं कर्मणश्चात्मा कर्ता , तदा च जाग्रद्भोगप्रदकर्मोपरमे सति देहपातादात्मा विहन्तेत्युच्यते । तथा स्वप्नदेहमदृष्टद्वारा स्वयं निर्माय स्वेन भासा वासनाजन्यज्ञानेन युक्तः स्वेन ज्योतिषा तत्साक्षिचित्प्रकाशेन इत्थंभूतः प्रस्वपिति वासनामयीर्वृत्तीः पश्यन्नास्त इत्यर्थः । देवमीश्वरमहमस्मीति ज्ञात्वा साक्षात्कृत्य सर्वपाशानामविद्यादिबन्धानामपहानिर्भवति ।
क्षीणैः क्लेशैर्जन्ममरणयोर्हेत्वभावात् प्रहाणिरिति निर्गुणविद्याफलमुक्त्वा सगुणोपास्तिफलमाह –
तस्येति ।
तृतीयत्वं विश्वैश्वर्यस्योपपादितं । देहभेदे देहवियोगे सति विश्वैश्वर्यं भवतीत्यर्थः । तत्र च भोगान् भुक्त्वा ब्रह्मविद्याभिव्यक्तौ केवलोऽद्वितीय आप्तकामः प्राप्तपरमानन्दःपरानन्दात्मा भवतीति क्रममुक्तिरुक्ता । भाष्येऽरणिनिहिताग्न्युदाहरणमरण्योर्निहितो जातवेदा इत्यादिशास्त्रदृष्ठ्यपेक्षं लोकदृष्ठ्यपेक्षं भस्मच्छन्नोदाहरणम् ॥१॥