तदभावो नाडीषु तच्छ्रुतेरात्मनि च ।
इह हि नाडीपुरीतत्परमात्मानो जीवस्य सुषुप्तावस्थायां स्थानत्वेन श्रूयन्ते । तत्र किमेषां स्थानानां विकल्प आहोस्वित्समुच्चयः । किमतो यद्येवम् । एतदतो भवति । यदा नाड्यो वा पुरीतद्वा सुषुप्तस्थानं तदा विपरीतग्रहणनिवृत्तावपि न जीवस्य परमात्मभाव इति । अविद्यानिवृत्तावपि जीवस्य परमात्मभावाय कारणान्तरमपेक्षितव्यं तच्च कर्मैव न तु तत्त्वज्ञानं विपरीतज्ञाननिवृत्तिमात्रेण तस्योपयोगात् , विपरीतज्ञाननिवृत्तेश्च विनापि तत्त्वज्ञानं सुषुप्तावपि सम्भवात् । ततश्च कर्मणैवापवर्गो न ज्ञानेन । यथाहुः “कर्मणैव तु संसिद्धिमास्थिता जनकादयः”(भ.गी. ३-२०) इति । अथ तु परमात्मैव नाडीपुरीतस्मृतिद्वारा सुषुप्तिस्थानं ततो विपरीतज्ञाननिवृत्तेरस्ति मात्रया परमात्मभाव उपयोगः । तया हि तावदेष जीवस्तदवस्थानो भवति केवलम् । तत्त्वज्ञानाभावेन समूलकाषमविद्याया अकाषाज्जाग्रत्स्वप्नलक्षणं जीवस्य व्युत्थानं भवति । तस्मात्प्रयोजनवत्येषा विचारणेति । किं तावत्प्राप्तं, नाडीपुरीतत्परमात्मसु स्थानेषु सुषुप्तस्य जीवस्य निलयं प्रति विकल्पः । यथा बहुषु प्रासादेष्वेको नरेन्द्रः कदाचित्क्वचिन्निलीयते कदाचित्क्वचिदेवमेको जीवः कदाचिन्नाडीषु कदाचित्पुरीतति कदाचिद्ब्रह्मणीति । यथा निरपेक्षा व्रीहियवाः क्रतुसाधनीभूतपुरोडाशप्रकृतितया श्रुता एकार्था विकल्प्यन्ते, एवं सप्तमीश्रुत्या वायतनश्रुत्या वैकनिलयनार्थाः परस्परानपेक्षा नाड्यादयोऽपि विकल्पमर्हन्ति । यत्रापि नाडीभिः प्रत्यवसृप्य पुरीतति शेत इति नाडीपुरीततोः समुच्चयश्रवणम् “तथा तासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यति । अथास्मिन् प्राण एवैकधा भवति” (कौ . ब्रा. ४ । २०) इति नाडीब्रह्मणोराधारयोः समुच्चयश्रवणम् । प्राणशब्दं च ब्रह्म “अथास्मिन् प्राणे ब्रह्मणि स जीव एकधा भवति” इति वचनात् । तथाप्यासु तदा नाडीषु सृप्तो भवतीति च पुरीतति शेत इति च निरपेक्षयोर्नाडीपुरीततोराधारत्वेन निर्देशान्निरपेक्षयोरेवाधारत्वम् । इयांस्तु विशेषः । कदाचिन्नाड्य एवाधारः कदाचिन्नाडीभिः सञ्चरमाणस्य पुरीतदेव । एवं ताभिरेव सञ्चरमाणस्य कदाचिद्ब्रह्मैवाधार इति सिद्धमाधारत्वे नाडीपुरीतत्परमात्मनामनपेक्षत्वम् । तथा च विकल्पो व्रीहियववद्बृहद्रथन्तरवद्वेति प्राप्तम् । एवं प्राप्तेऽभिधीयते जीवः समुच्चयेनैवैतानि नाड्यादीनि स्वापायोपैति न विकल्पेन । अयमभिसन्धिः नित्यवदाम्नातानां नाम तद्गत्यन्तराभावे कल्प्यते । यथाहुः “एवमेषोऽष्टदोषोऽपि यद्व्रीहियववाक्ययोः । विकल्प आश्रितस्तत्र गतिरन्या न विद्यते” इति । प्रकृतक्रतुसाधनीभूतपुरोडाशद्रव्यप्रकृतितया हि परस्परानपेक्षौ व्रीहियवौ विहितौ शक्नुतश्चैतौ प्रत्येकं पुरोडाशमभिनिर्वर्तयितुम् । तत्र यदि मिश्राभ्यां पुरोडाशोऽभिनिर्वर्त्येत परस्परानपेक्षव्रीहियवविधातृणी उभे अपि शास्त्रे बाध्येयाताम् । न चैतौ प्रयोगवचनः समुच्चेतुमर्हति । स हि यथा विहितान्यङ्गान्यभिसमीक्ष्य प्रवर्तमानो नैतान्यन्यथयितुं शक्नोति । मिश्रणे चान्यथात्वमेतेषाम् । न चाङ्गानुरोधेन प्रधानाभ्यासो ‘गोसवे उभे कुर्यात्’ इतिवद्युक्तः । अश्रुतो ह्यत्र प्रधानाभ्यासोऽङ्गानुरोधेन च सोऽन्याय्यः । न चाङ्गभूतैन्द्रवायवादिग्रहानुरोधेन यथा प्रधानस्य सोमयागस्यावृत्तिरेवमत्रापीति युक्तम् । ‘सोमेन यजेत’ इति हि तत्रापूर्वयागविधिः । तत्र च दशमुष्टिपरिमितस्य सोमद्रव्यस्य ‘सोममभिषुणोति’ , ‘सोममभिप्लावयति’ इति च वाक्यान्तरानुलोचनया रसद्वारेण यागसाधनीभूतस्येन्द्रवाय्वाद्युद्देशेन प्रादेशमात्रेषूर्ध्वपात्रेषु ग्रहणानि पृथक्प्रकल्पनानि संस्कारा विधीयन्ते, नतु सोमयागोद्देशेनेन्द्रवाय्वादयो देवताश्चोद्यन्ते, येन तासां यागनिष्पत्तिलक्षणैकार्थत्वेन विकल्पः स्यात् । नच प्रादेशमात्रमेकैकमूर्ध्वपात्रं दशमुष्टिपरिमितसोमरसग्रहणाय कल्पते, येन तुल्यार्थतया ग्रहणानि विकल्पेरन् । नच यावन्मात्रमेकमूर्ध्वपात्रं व्याप्नोति तावन्मात्रं गृहीत्वा परिशिष्टं त्यज्येतेति युज्यते । दशमुष्टिपरिमितोपादानस्यादृष्टार्थत्वप्रसङ्गात् । एवं तद्दृष्टार्थं भवेद्यदि तत्सर्वं याग उपयुज्येत । नच दृष्टे सम्भवत्यदृष्टकल्पना न्याय्या । तस्मात्सकलस्य सोमरसस्य यागशेषत्वेन संस्कारार्हत्वादेकैकेन च ग्रहणेन सकलस्य संस्कर्तुमशक्यत्वात्तदवयवस्यैकेन संस्कारेऽवयवान्तरस्य ग्रहणान्तरेण संस्कार इति कार्यभेदाद्ग्रहणानि समुच्चीयेरन् । अत एव समुच्चयदर्शनं “दशैतानध्वर्युः प्रातःसवने ग्रहान् गृह्णाति” इति । समुच्चये च सति क्रमोऽप्युपपद्यते । “आश्विनो दशमो गृह्यते तृतीयो हूयते” । तथैव “ऐन्द्रवायवाग्रान्ग्रहान्गृह्णाति” इति । तेषां च समुच्चये सति यावद्यदुद्देशेन गृहीतं तावत्तस्यै देवतायै त्यक्तव्यमित्यर्थाद्यागस्यावृत्त्या भवितव्यम् । यदि पुनः पृथक्कृतान्यप्येकीकृत्य काञ्चन देवतामुद्दिश्य त्यजेरन् , पृथक्करणानि च देवतोद्देशाश्चादृष्टार्था भवेयुः । नच दृष्टे सम्भवत्यदृष्टकल्पना न्याय्येत्युक्तम् । तस्मात्तत्र समुच्चयस्यावश्यम्भावित्वाद्गुणानुरोधेनापि प्रधानाभ्यास आस्थीयते । इह त्वभ्यासकल्पनाप्रमाणाभावात्पुरोडाशद्रव्यस्य चानियमेन प्रकृतिद्रव्ये यस्मिन्कस्मिंश्चित्प्राप्ते एकैका परस्परानपेक्षा व्रीहिश्रुतिर्यवश्रुतिश्च नियामिकैकार्थतया विकल्पमर्हतः । न तु नाडीपुरीतत्परमात्मनामन्योन्यानपेक्षणामेकनिलयनार्थसम्भवो येन विकल्पो भवेत् । नह्येकविभक्तिनिर्देशमात्रेणैकार्थता भवति समुच्चितानामप्येकविभक्तिनिर्देशदर्शनात् पर्यङ्के शेते प्रसादे शेत इति । तस्मादेकविभक्तिनिर्देशस्यानैकान्तिकत्वादन्यतो विनिगमना वक्तव्या ।
सा चोक्ता भाष्यकृता –
यत्रापि निरपेक्षा इव नाडीः सुप्तिस्थानत्वेन श्रावयतीत्यादिना ।
सापेक्षश्रुत्यनुरोधेन निरपेक्षश्रुतिर्नेतव्येत्यर्थः । शेषमतिरोहितार्थम् ।
ननु यदि ब्रह्मैव निलयनस्थानं तावन्मात्रमुच्यतां कृतं नाड्युपन्यासेनेत्यत आह –
अपिचात्रेति ।
अपिचेति समुच्चये न विकल्पे । एतदुपपत्तिसहिता पूर्वोपपत्तिरर्थसाधिनीति । मार्गोपदेशोपयुक्तानां नाडीनां स्तुत्यर्थमत्र नाडीसङ्कीर्तनमित्यर्थः । पित्तेनाभिव्याप्तकरणो न बाह्यान्विषयान्वेदेति तद्द्वारा सुखदुःखाभावेन तत्कारणपाप्मास्पर्शेन नाडीस्तुतिः । यदा तु तेजो ब्रह्म तदा सुगमम् ।
अपिच –
नाड्यः पुरीतद्वा जीवस्योपाध्याधार एव भवतीति ।
अयमर्थः अभ्युपेत्य जीवस्याधेयत्वमिदमुक्तम् । परमार्थतस्तु न जीवस्याधेयत्वमस्ति । तथाहि नाड्यः पुरीतद्वा जीवस्योपाधीनां करणानामाश्रयो जीवस्तु ब्रह्माव्यतिरेकात्स्वमहिमप्रतिष्ठः । न चापि ब्रह्म जीवस्याधारः, तादात्म्यात् । विकल्प्य तु व्यतिरेकं ब्रह्मण आधारत्वमुच्यते जीवं प्रति । तथाच सुषुप्तावस्थायामुपाधीनामसमुदाचाराज्जीवस्य ब्रह्मात्मत्वमेव ब्रह्माधारत्वं न तु नाडीपुरीतदाधारत्वम् । तदुपाधिकरणमात्राधारतया तु सुषुप्तदशारम्भाय जीवस्य नाडीपुरीतदाधारत्वमित्यतुल्यार्थतया न विकल्प इति ।
अपिच न कदाचिज्जीवस्येति ।
औत्सगिकं ब्रह्मस्वरूपत्वं जीवस्यासति जाग्रत्स्वप्नदशारूपेऽपवादे सुषुप्तावस्थायां नान्यथयितुं शक्यमित्यर्थः । अपिच येऽपि स्थानविकल्पमास्थिषत तैरपि विशेषविज्ञानोपशमलक्षणा सुषुप्त्यवस्थाङ्गीकर्तव्या । न चेयमात्मतादात्म्यं विना नाड्यादिषु परमात्मव्यतिरिक्तेषु स्थानेषूपपद्यते । तत्र हि स्थितोऽयं जीव आत्मव्यतिरेकाभिमानी सन्नवश्यं विशेषज्ञानवान् भवेत् । तथाहि श्रुतिः “यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्”(बृ. उ. ४ । ५ । १५) इति ।
आत्मस्थानत्वे त्वदोषः । “यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येद्विजानीयात्”(बृ. उ. ४ । ५ । १५) इति श्रुतेः । तस्मादप्यात्मस्थानत्वस्य द्वारं नाड्यादीत्याह –
अपिच स्थानविकल्पाभ्युपगमेऽपीति ।
अत्र चोदयति ननु भेदविषयस्यापीति । भिद्यत इति भेदः । भिद्यमानस्यापि विषयस्येत्यर्थः ।
परिहरति –
बाढमेवं स्यादिति ।
न तावज्जीवस्यास्ति स्वतःपरिच्छेदस्तस्य ब्रह्मात्मत्वेन विभुत्वात् औपाधिके तु परिच्छेदे यत्रोपाधिरसंनिहितस्तन्मात्रं न जानीयान्न तु सर्वम् । नह्यसंनिधानात्सुमेरुमविद्वान् देवदत्तः संनिहितमपि न वेद । तस्मात्सर्वविशेषविज्ञानप्रत्यस्तमयीं सुषुप्तिं प्रसाधयता तदास्य सर्वोपाध्युपसंहारो वक्तव्यः । तथाच सिद्धमस्य तदा ब्रह्मात्मत्वमित्यर्थः ।
गुणप्रधानभावेन समुच्चयो न समप्रधानतयाग्नेयादिवदिति वदन्विकल्पमप्यपाकरोति –
नच वयमिहेति ।
स्वाध्यायाध्ययनविध्यापादितपुरुषार्थत्वस्य वेदराशेरेकेनापि वर्णेन नापुरुषार्थेन भवितुं युक्तम् । नच सुषुप्तावस्थायां जीवस्य स्वरूपेण नाड्यादिस्थानत्वप्रतिपादने किञ्चित्प्रयोजनं ब्रह्मभूयप्रतिपादने त्वस्ति । तस्मान्न समप्रधानभावेन समुच्चयो नापि विकल्प इति भावः । नीतार्थमन्यत् ॥ ७ ॥
अतः प्रबोधोऽस्मात् ॥ ८ ॥
तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥७॥ जीवस्य स्वप्रभवत्वाय स्वप्नमिथ्यात्वमीरितम् । अथास्य ब्रह्मभावाय सुषुप्तिः क्वेति चिन्त्यते ॥
आसु तदा नाडीषु इत्यादिसप्तमीनिर्देशात् ताभिः प्रत्यवत्सृप्येत्यासिदमुच्चयनिर्देशाच्च संशयमाह –
तत्र किमिति ।
प्रयोजनमाह –
एतदत इति ।
वस्तुतो ब्रह्मण एव सतो जीवस्य तद्वैपरीत्यं भ्रमः ।तद्यपि निवृत्तेऽपि सुषुप्तौ विपर्यासे नाडीषु पुरीतति वा तिष्ठेद् , न तु ब्रह्मतादात्म्यं भजेत जीवस्तदा ब्रह्मभावे विपरीतज्ञाननिवृत्तिरप्रयोजिका स्यादित्यर्थः ।
ननु दण्डायमानभावरूपाज्ञाननिवृत्तौ ब्रह्मभावः , सुषुप्तौ तु नाड्यादिस्थस्य तदनिवृत्तमिति न ब्रह्मभावः ततो नाड्यादेः सुषुप्तिस्थानत्वाभावचिन्ता निष्प्रयोजनेत्याशङ्क्याह –
अविद्यानिवृत्तावपीति ।
यावद्यावद्धि प्रतिबन्धनिवृत्तिस्तावत्तावद् ब्रह्मभावोप्याविर्भवेत् । तत्र यदि मिथ्याज्ञाननिवृत्तौ न ब्रह्म भावः श्रुत्योच्येत , तर्ह्यज्ञाननिवृत्तावपि न ब्रह्मभाव इति श्रुतेराशयः स्यात् । ततो ब्रह्मभावाय कारणान्तरं स्याद् नाञ्जानमिथ्याज्ञाननिवृत्ती इत्यर्थः ।
तर्हि तदेव कारणान्तरं ज्ञानमस्तु , नेत्याह –
तच्चेति ।
कर्म ह्यभूतप्रादुर्भावफलं , ज्ञानं त्वविद्यानिवृत्तिमात्रफलमित्यर्थः । विपरीतज्ञाननिवृत्तिरविद्यानिवृत्तेरप्युपलक्षणम् , न तु विपरीतज्ञानमेवाविद्येति भ्रमितव्यम् ; समूलकाषमविद्याया अकाषादित्युपरितनग्रन्थे मूलशब्देन भावरूपाऽविद्याया अभिधानात् ।
तर्ह्यविद्यानिवृत्तिद्वारेण ब्रह्मभावं ज्ञानमभिव्यनक्तु , नेत्याह –
विपरीतज्ञाननिवृत्तेरिति ।
चशब्देनाविद्यानिवृत्तेरप्यप्रयोजकत्वादित्यर्थः ।
मात्रयेति ।
स्तोकप्रतिबन्धनिवृत्तिरूपेणेत्यर्थः । तया विपरीतज्ञाननिवृत्त्या तावत्तदवस्थानो ब्रह्मभावावस्थानो भवति जीवस्तावच्छब्देन न सर्वात्मना तदवस्थानो मूलाविद्यायाः स्थितत्वादित्यर्थः ।
लौकिकं विकल्पोदाहरणमुक्त्वा वैदिकमाह –
यथा निरपेक्षा इति ।
निरपेक्षा इति समुच्चयासंभवार्थम् ।
आयतनश्रुत्या चेति ।
सदायतना इत्यत्रत्यायतनस्य सप्तम्यर्थत्वादित्यर्थः ।
सिद्धान्तबीजमाशङ्क्याह –
यत्रापीति ।
नन्वत्र प्राणप्राप्तिः प्रतीयते , कथं नाडीब्रह्मसमुच्चयः ? तत्राह –
प्राणशब्दमिति ।
पदार्थमुक्त्वा प्रस्तुतवाक्यमेव योजयति –
अथास्मिन् प्राण इति ।
इतिवचनाद्यत्रापि नाडीब्रह्मणोः समुच्चयश्रवणमिति योजना ।
तथापीति ।
तत्रापीत्यर्थः । यत्रापीत्युपक्रमात् ।
निरपेक्षसप्तमीश्रुतिभ्यां यदि नाडीपुरीततोर्निरपेक्षमाधारत्वं , का तर्हि समुच्चयश्रवणस्य गतिः ? अत आह –
इयांस्त्विति ।
नाड्यस्तावत् , स्वतन्त्रा एवाधारः , पुरीतद् ब्रह्मप्राप्ती तु नाडीद्वारा भवतः परस्परं चानपेक्षे , तत्र समुच्चयश्रवणाभावात् कदाचिच्च नाडीनां पुरीतद्ब्रह्मसमुच्चयेऽपि कदाचिदनपेक्षस्थानत्वाद्विकल्पसिद्धिरित्यर्थः । बृहत्पृष्ठं भवति रथन्तरं पृष्ठं भवतीति पृष्ठाख्यस्तोत्रसाधनत्वेन बृहद्रथन्तरयोर्विधानाद्विकल्पः । एवमेषोऽष्टदोष इति(१) व्रीह्यनुष्ठानपक्षे यवशास्त्रस्य प्रातीतप्रामाण्यपरित्यागः (२) अप्रतीताप्रामाण्यस्वीकारः , तथा प्रयोगान्तरे (३) यवेषु उपादीयमानेषु यवशास्त्रस्य प्राक् स्वीकृताप्रामाण्यत्यागः (४) परित्यक्तप्रामाण्योपादानमिति यवशास्त्रे चत्वारो दोषाः ; एवं यवानुष्ठानपक्षेऽपि व्रीहिशास्त्रे चत्वार इत्यष्टदोषदुष्टो विकल्पः ।
ननु यदि व्रीहियवौ द्वौ विहितौ , तर्ह्याग्नेयादिवत्समुच्चय , किं न स्यादित्याशङ्कां निराकुर्वन् ‘गतिरन्या न विद्यते’ इत्येतत्प्रपञ्चयति –
प्रकृतक्रतुसाधनीभूतेत्यादिना ।
मा भूद्वाक्यद्वयसामर्थ्यात् समुच्चय: , अङ्गसहितप्रधानानुष्ठापकप्रयोगवचनो व्रीहियवौ समुच्चाययतु , तत्राह –
न चैताविति ।
ननु मा मिश्येतां व्रीहियवावुभयविध्यर्थवत्त्वायैकस्मिन्नेव प्रयोगे व्रीहिभिरेकवारं यवैरप्यपरवारमिज्यतामिति गत्यन्तरमाशङ्क्याह –
न चाङ्गानुरोधेनेति ।
प्रकृतौ बृहद्रथन्तरे पृष्ठस्तोत्रसाधनत्वेन विहिते विकल्प्येते , विकृतौ गोसवाख्यैकाहेऽतिदेशेन प्राप्नुतः । तत्रापि विकल्पप्राप्तौ गोसवे उभे बृहद्रथन्तरे कुर्यादित्यङ्गभूतद्बृहद्रथन्तरसाहित्यवचनात् पृष्ठस्तोत्रमावर्तते , बृहतैकवारं रथन्तरेणैकवारमिति । एवमिहाङ्गभूतव्रीहियवानुरोधेन प्रधानाग्नेययागस्याभ्यासो न युक्तः ।
कारणमाह –
अश्रुत इति ।
तत्र ह्युभे कुर्यादित्यङ्गसाहित्यश्रवणात्तस्य च प्रधानस्तोत्रावृत्तिव्यतिरेकेणासंभवात्तात्पर्यवृत्त्या प्रधानाभ्यासः श्रुतः , नैवमत्र व्रीहियवाभ्यां यजेतेति श्रवणमस्ति , येनावृत्तिः स्यादित्यर्थः ।
एवं सत्यङ्गविधिमात्रात्प्राधानावृत्तिः प्रकल्प्या , सा चायुक्तेत्याह –
अङ्गानुरोधेन चेति ।
न हि स्थालानि संपन्नानीति भुक्तवतापि पुनर्भोक्तव्यमेवमिहापीत्यर्थः ।
ननु साहित्याश्रवणेऽप्यङ्गानुरोधेन प्रधानाभ्यासो दृश्यते , यथा सोमेन यजेतेति श्रुतस्य सोमयागस्यैन्द्रवायवं गृह्णाति मैत्रावरुणं गृह्णात्याश्विनं गृह्णातीत्यादिग्रहणरूपाङ्गानुरोधेनावृत्तिरित्याशङ्क्याह –
न चाङ्गभूतेति ।
ननु कथमत्र प्रधानस्याङ्गानुरोधेनाऽवृत्तिः ? यावतैन्द्रवायवादिवाक्येभ्य एव द्रव्यदेवतासंबन्धाभिधानात्तद्द्वाराऽनु मितयागा विधीयन्ते , सोमेन यजेतेति तु तेषां यागानां समुदायानुवाद इत्याशङ्क्याह –
सोमेन यजेतेति हीति ।
इदमत्राकूतम् - न समुदायानुवादत्वम् सोमवाक्यस्य ; प्रत्यभिज्ञानाभावात् , ऐन्द्रवायवादिशब्दा हि रसमभिदधति ; सोममभिषुणोति सोमं प्लावयतीत्यादिवाक्यै रसस्य प्रस्तुतत्वात् । सोमशब्दश्च लतापरः , ततश्च लताविशिष्टयागविधिरयं कथमनुवादकः स्यात् ? प्रत्यक्षे च यागविधावानुमानिकविधिकल्पनाऽनुपपन्न । तस्मात्सोमेन यजेतेत्येवापूर्वविधिः , इतराणि त्विन्द्रवाय्वादिविशिष्टग्रहणाख्यसंस्कारविधायकानीति द्वितीये निरूपितमिति ।
भवत्वपूर्वविधिस्तथापि कथमावृत्तिसिद्धिः ? सोमवाक्यविहितसोमयागे इन्द्रवाय्वादिदेवता विकल्पेन विधीयन्तां , नेत्याह –
तत्र चेत्यादिना ।
एवं ह्यत्र विकल्पः स्याद् , यदीमानि देवताविधानानि द्रव्यं वा सर्वं सकृत् त्युक्तं शक्यम् । न तावद् द्रव्यस्य सकृत् त्यागसंभवो दशमुष्टीर्मिमीते इति विधेः सोमस्य विपुलत्वात् । न च दशापि मुष्टयो लतारूपेण व्यज्यन्ते ; अभिषुणोत्यभिप्लावयति गालयतीत्यर्थ इत्यादिना रसभावेन यागोपयोगावगमात् , तस्य च नियतपरिमाणोदककलशजलैः सेकात् ।
न च सर्वोऽपि रसः सकृत् त्यज्येत , नानादेवतोद्देशेन गृह्यमाणत्वादित्याह –
इन्द्रवाय्वादीति ।
ननु प्रतीन्द्रवाय्वादिकं ग्रहणानि विकल्प्यन्तां , तत्राह –
प्रादेशमात्रेष्विति ।
प्रादेशमात्रेण हि पात्रेण एकैकेनेद्रवाय्वादिभ्यो रसो गृह्यते , न चैकस्मिन्पात्रे कृत्स्नो रसः संमातीत्यर्थः ।
ग्रहणानीत्यस्य व्याख्यानं –
पृथक्वल्पनानीति ।
एवं द्रव्यस्य सकृत्त्यागासम्भवमभिधाय देवताविध्यसंभवमाह –
न तु सोमयागोद्देशेनेति ।
एषु हि वाक्येषु गृह्णातीति ग्रहणान्वयो देवतानामवगम्यते , अतः कथं यागे देवताविधिरित्यर्थः । ग्रहणमात्रे त्वपर्यवसानादर्थाद्देवताना यागान्वयः ।
दशमुष्ठ्यादिग्रन्थं स्वयमेव व्याचष्टे –
न च प्रादेशमात्रमित्यादिना ।
प्रादेशमात्रे ऊर्ध्वत्वप्रतीतिः तर्ह्येव घटते , यदि विस्तारः प्रादेशादूनस्तिर्यक् प्रसारे ह्यूर्ध्वत्वं न स्यात् , ततोऽल्पत्वविशेषणद्वयेनोक्तं –
तुल्यार्थतयेति ।
एकसोमसंस्कारप्रयोजनतयेत्यर्थः ।
लिङ्गदर्शनान्याह –
अत एवेति ।
विकल्पे ह्येक एव प्रयोगः स्यादित्यर्थः ।
समुच्चये सत्युपपद्यमानं क्रमं दर्शयति –
आश्विन इति ।
दशाना ग्रहाणां मध्ये आश्विनो ग्रहणकाले दशमत्वेन गृह्यते , होमकाले तृतीयत्वेन हूयत इत्येतद् विकल्पे सति न युज्यते ; एकत्वेन दशमत्वाद्ययोगात् । तथा विकल्पे सति ग्रहणकाले ग्रहणामैन्द्रवायवाग्रत्वमैन्द्रवायवप्राथम्यवत्त्वं न स्यादेकत्वे प्रथमचरमभावायोगादित्यर्थः ।
नन्वेवमपि ग्रहणान्यावर्तन्तां कथं यागावृस्तिस्तत्र श्रुत्याद्यभावाद् , यतोऽङ्गानुरोधेन प्रधानावृत्तिः स्यादित्याशङ्क्य सामर्थ्यमाह –
तेषां चेति ।
कांचन देवतामिति ।
इन्द्र वाय्वादिनां मध्ये एकामित्यर्थः ।
इह त्विति ।
व्रीहियववाक्ये इत्यर्थः । व्रीहियवसमुच्चये हि यागाभ्यासकल्पना स्यात् , तत्र च प्रमाणाभावादित्यर्थः ।
न केवलं व्रीहियवसमुच्चये प्रमाणाभावः , प्रमाणविरोधोऽपीत्याह –
पुरोडाशस्य चेति ।
पुरोडाशचोदनयैवौषधिद्रव्ये यस्मिन्कस्मिंश्चित्प्राप्ते व्रीहयोऽपि पक्षे प्राप्तास्तत्राप्राप्तांशपूरणार्था व्रीहिश्रुतिर्वीहिभिरेवेति नियमयेत्तत्र यवसमुच्चये व्रीहिश्रुतिबाधः स्याद् , एवं यवश्रुतेरपि नियमार्थत्वाद् व्रीहिसमुच्चये तद्बाध इत्यर्थः ।
एकार्थतयेति ।
एकपुरोडाशार्थतयेत्यर्थः ।
एवं गत्यन्तराभावाद्व्रीहियवयोर्विकल्पमुक्त्वा प्रकृते गत्यन्तरसद्भावाद्विकल्पाभावमाह –
न तु नाडीत्यादिना ।
भाष्ये समुच्चयश्रुत्यनुरोधादसमुच्चयश्रुतिर्नेयेति प्रतिज्ञामात्रमिव भाति , ततोऽभिप्रायं स्फोरयति –
सापेक्षश्रुत्यनुरोधेनेति ।
निरपेक्षता ह्यपेक्षाभाव उत्सर्गः , तस्य सापेक्षताऽपवादिकेत्यर्थः ।
न विकल्प इति ।
विकल्पफलकोऽभ्युच्चय इत्यर्थः ।
एवं तावत्तुल्यबलश्रुत्यभावान्न नाड्यादीनां विकल्प इत्युक्तम् , इदानीमतुल्यार्थत्वाच्च न विकल्प इत्याह –
अभ्युपेत्येत्यादिना ।
जीवोपाधिरन्तःकरणादिर्नाडीपुरीततोराश्रितः , जीवस्तु न क्वापीति कथमाधारत्वेन तुल्यार्थतेत्यथः ।
ननु सर्वदा जीवस्य ब्रह्माभेदे सुषुप्तौ किमित्याधारत्वोपचारस्तत्राह –
उपाधीनामसमुदाचारादिति ।
अव्यक्तेरित्यर्थः ।
ननु तादात्म्यादुपाध्युपशान्तेश्च यथा सुषुप्तौ जीवस्य ब्रह्माश्रयत्वोपचार एवं जीवोपाध्याधारत्वात्सुषुप्तौ नाड्यादेर्जीवाश्रयत्वोपचारोऽस्तु , तत औपचारिकाश्रयत्वेन तुल्यार्थत्वमत आह –
सुषुप्तदशारम्भायेति ।
सुषुप्तिप्राक्काले उपाधिद्वारेण जीवस्य नाड्याश्रयत्वमुपचरितुं शक्यम् , तेन सुषुप्तौ उपाधीनां लीनत्वादित्यर्थः ।
न समप्रधानतयेति ।
समप्रधानत्वे हि नाडीपुरितद्द्ब्रह्मसु त्रिष्वपि जीवस्थानं स्यात् , तदा च्च न ब्रह्मभाव इति समप्राधान्यं निरस्तम् , तन्निरासश्च विकल्पनिरासोपलक्षणार्थमित्यर्थः । नीतार्थं गतार्थम् ।
तद्यत्रैतदिति ।
नाडीष्वादित्यरश्मीनां प्रवेशः पूर्ववाक्य उक्तस्तत्तत्रैवं सति यत्र यस्मिन् काले एतत् स्वप्नं सुप्तः कुर्वन् ओदनपाकं पचतीतिवत् स्वापस्य द्विप्रकारत्वात् सुषुप्तसिद्ध्यर्थं विशेषणम् ।
समस्त इति ।
उपसहृतसर्वकरण इत्यर्थः । विषयसंपर्कजनितकालुष्याभावात् संप्रसन्नः सन् स्वप्नं न विजानाति तदा आसु रश्मिपूर्णासु नाडीषु सृप्तः प्रविष्टो भवतीत्यर्थः ।
सुषुप्तमुत्थाप्य तदागमनावधिमजातशत्रुर्गार्ग्यं प्रति पप्रच्छ –
कुत एतदागादिति ।
एतदागमनं कुत आगात् कृतवानित्यर्थः ॥७॥८॥