भामतीव्याख्या
वेदान्तकल्पतरुः
 

स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ।

यद्यपीश्वरादभिन्नो जीवस्तथाप्युपाध्यवच्छेदेन भेदं विवक्षित्वाधिकरणान्तरारम्भः । स एवेति दुःसम्पादमिति । स वान्यो वेति ईश्वरो वेति सम्भवमात्रेणोपन्यासः । नहि तस्य शुद्धमुक्तस्वभावस्याविद्याकृतव्युत्थानसम्भवः । अत एव विमर्शावसरेऽस्यानुपन्यासः । यद्धि द्व्यहादिनिर्वर्तनीयमेकस्य पुंसश्चोदितं कर्म तस्य पूर्वेद्युरनुष्ठितस्यास्ति स्मृतिरिति वक्तव्येऽनुः प्रत्यभिज्ञानसूचनार्थः । अत एव सोऽहमस्मीत्युक्तम् ।

पुनः प्रतिन्यायं प्रतियोन्याद्रवतीति ।

अयनमायः नियमेन गमनं न्यायः । जीवः प्रतिन्यायं सम्प्रसादे सुषुप्तावस्थायां वृद्धान्तायाद्रवति आगच्छति प्रतियोनि ।

योहि व्याघ्रयोनिः सुषुप्तो बुद्धान्तमागच्छन् स व्याघ्र एव भवति न जात्यन्तरम् । तदिदमुक्तम् –

त इह व्याघ्रो वा सिंहो वेति ।

अथ तत्र सुप्त उत्तिष्ठेदिति ।

यो हि जीवः सुप्तः स शरीरान्तर उत्तिष्ठति शरीरान्तरगतस्तु सुप्तजीवसम्बन्धिनि शरीर उत्तिष्ठति, ततश्च न शरीरान्तरे व्यवहारलोप इत्यर्थः ।

अपिच न जीवो नाम कश्चित्परस्मादन्य इति ।

यथा घटाकाशो नाम न परमाकाशादन्यः । अथ चान्य इव यावद्घटमनुवर्तते । न चासौ दुर्विवेचस्तदुपाधेर्घटस्य विविक्तत्वात् । एवमनाद्यनिर्वचनीयाविद्योपधानभेदोपाधिकल्पितो जीवो न वस्तुतः परमात्मनो भिद्यते तदुपाद्युद्भवाभिभवाभ्यां चोद्भूत इवाभिभूत इव प्रतीयते । ततश्च सुषुप्तादावपि अभिभूत इव जाग्रदवस्थादिषूद्भूत इव । तस्य चाविद्यातद्वासनोपाधेरनादितया कार्यकारणभावेन प्रवहतः सुविवेचतया तदुपहितो जीवः सुविवेच इति ॥ ९ ॥

स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥९॥ आत्यन्तिकत्वेनोत्सृष्टा संत्संपत्तिः पुरोदिता । तस्या अविद्याशेषत्वमपवाद इहोच्यते ॥ अथवाऽतः प्रबोधोऽस्मादिति सुषुप्त्यनन्तरं ब्रह्मणः प्रबोधश्रवणात् तदात्मनैव सुषुप्तस्तिष्ठतीत्युक्तं , ततः प्रबोधः तत्संपत्तिं न गमयति सुषुप्तादन्यस्य प्रबोधसंभवेन सुषुप्तस्य नाडीपुरीततोरवस्थानसंभवादित्याक्षिप्यते । अत्र भास्करेण भाष्यकारमतेऽधिकरणानारम्भ उक्तः - येषामीश्वर एव साक्षात्संसारीति दर्शनं न तेषां पूर्वपक्षोऽवकल्पते । नापि सिद्धान्तः ; ईश्वरस्य सुषुप्त्युत्थानादेरदर्शनात् ।

कल्पितस्य च जीवस्य स्वाप्नजीववदुत्थानाद्यसंभवात् - इति , तत्सिद्धान्तानबोधजृम्भितमित्याह –

यद्यपीश्वरादिति ।

अवस्थात्रयानुगामि व्यावहारिकसत्त्वोपेताविद्योपहितजीवस्य स्वप्नकल्पितजीववैलक्षण्यात्स एवोतिष्ठत्त्वन्यो वेति चिन्ता संभवतीत्यर्थः । अत्र पूर्वपक्षोपसंहारभाष्यं - तस्मात्स एवेश्वरोऽन्यो वा जीवः प्रतिबुध्यत इति । तत्र स एवेत्ययुक्तम् ; अनियमेनात्र पूर्वपक्षणात् , स एवोत्तिष्ठतीत्यस्य सिद्धान्तत्वात् ।

अतीतानन्तरभाष्ये च न स एव पुनरुत्थातुमर्हतीत्यभिहितत्वादत आह –

स एवेतीति ।

स एवेत्येतत् पूर्वपक्षत्वेन दुःसंपादमिति यतस्तस्माद्वाशब्दसमनार्थ एवकारः । तथा च स वाऽन्यो वेति व्याख्येयो ग्रन्थ इत्यर्थः ।

ईश्वरो वेति पक्षोपि न स्थिरपूर्वपक्ष इत्याह –

ईश्वरो वेतीति ।

जीववच्चेतनत्वादीश्वरोत्थानसंभावना ।

विमर्शावसर इति ।

किं य एव सत्संपन्नः स एव प्रतिबुध्यते उत स एवाऽन्यो वेति संदेहभाष्ये इत्यर्थः ।

ननु स्मृतिमात्रस्यापि सुप्तोत्थितजीवैक्यगमकत्वमस्ति , न ह्यन्यदृष्टमन्य स्मरति , स्मरति चात्र सुषुप्तो जाग्रद्दृष्टमतः सूत्रे अनुस्मृतीत्यनुशब्दो व्यर्थ इत्याशङ्क्याह –

यद्धि द्व्यहादीति ।

द्वे अहनी द्व्यहः । यत एव सूत्रेऽनुस्मृतिः प्रत्यभिज्ञा , अत एव सोऽहमस्मीति प्रत्यभिज्ञोदाहृता भाष्ये इत्यर्थः ।

भाष्यगतश्रुतिमुदाहृत्य व्याचष्टे –

अयनमिति ।

इणो धातोर्घञि कृते आय इति रूपम् । बुद्धान्ताय बुद्धमध्याय जाग्रदवस्थायै ।

प्रतियोनीति ।

योनिशब्दः स्थानवचनः सन् शरीरमाह –

अनाद्यनिर्वाच्येति ।

अनाद्यनिर्वाच्याया अविद्याया य उपधाने भेदः संबन्धविशेषः स एवोपाधिः , तेन कल्पितो जीव इत्यर्थः ।

यद्यौपाधिको जीवस्तर्हि सुषुप्तावुपाधिनाशान्न पश्यतीत्यत आह –

उपाध्युद्भवेति ।

सुषुप्तादावन्तःकरणाद्युपाधिरभिभूतो भवति , संस्कारात्मनाऽवतिष्ठते , न तु सर्वात्मना न पश्यतीत्यर्थः ।

ननु जाग्रदादावन्तःकरणादि सुषुप्तौ तद्वासनेत्युपाधिभेदाज्जीवभेदः स्याद् , अतः कथं तस्यैव जीवस्योत्थानमत आह –

तस्य चेति ।

अविद्या भ्रान्तिज्ञानं तद्वासना चोपाधी अवच्छेदकौ मृद इव घटशरावादि यस्य सोऽविद्यातद्वासनोपाधिदण्डायमानोऽविद्यालक्षणः , तस्यानादितया कार्यकारणात्मकभ्रमतत्संस्कारभावेन प्रवहतः प्रकृतिविकारयोरभेदान् परिणममानस्य सुविवेकतया तदुपहितो जीवोनादिकालेऽपि सुविवेको ब्रह्मासंकीर्णः सन् सुषुप्त्याद्यवस्था अनुभवतीत्यर्थः । अत एव यथाश्रुतग्रन्थार्थग्राहिभिः कैश्चिद्वाचस्पतिमते सुषुप्तौ भ्रमसंस्कार उपाधिर्जाग्रत्यन्तःकरणादीत्युपाधिभेदादुपहितजीवभेदप्रसङ्गः , संस्कारस्य च सुषुप्तौ न सांकर्यवारकत्वम् । न हि घटसंस्कारो घटाकाशं व्यवस्थापयतीत्याक्षेपौ कृतावनकाशौ ॥

अहरहर्गच्छन्त्य इति ।

अहरहरिति वीप्सा एकस्यैव गत्यागती दर्शयति । ये प्राणिनः सुषुप्ते सत्संपन्नास्त इह जागरिते व्याघ्रो वेत्यादि यद्यद् भवन्ति – उभवन् , त एव सुषुप्तादागत्य भवन्ति ॥९॥

इति तृतीयं कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥