परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ।
यद्यपि श्रुतिप्राचुर्याद्ब्रह्मव्यतिरिक्तं तत्त्वं नास्तीत्यवधारितं तथापि सेत्वादिश्रुतीनामापाततस्तद्विरोधदर्शनात्तत्प्रतिसमाधानार्थमयमारम्भः । जाङ्गलं स्थलम् । प्रकाशवदनन्तवज्ज्योतिष्मदायतनवदिति पादा ब्रह्मणश्चत्वारस्तेषां पादानामर्धान्यष्टौ शफाः । तेऽष्टावस्य ब्रह्मण इत्यष्टशफं ब्रह्म । षोडश कला अस्येति षोडशकलम् । तद्यथा प्राची प्रतीची दक्षिणोदीचीति चतस्रः कला अवयवा इव कलाः स प्रकाशवान्नाम प्रथमः पादः । एतदुपासनायां प्रकाशवान्मुख्यो भवतीति प्रकाशवान् पादः । अथापराः पृथिव्यन्तरिक्षं द्यौः समुद्र इति चतस्रः कला एष द्वितीयः पादोऽनन्तवान्नाम । सोऽयमनन्तवत्त्वेन गुणेनोपास्यमानोऽनन्तत्वमुपासकस्यावहतीति अनन्तवान् पादः । अथाग्निः सूर्यश्चन्द्रमा विद्युदिति चतस्रः कलाः स ज्योतिष्मान्नाम पादस्तृतीयस्तदुपासनाज्ज्योतिष्मान् भवतीति ज्योतिष्मान् पादः । अथ घ्राणश्चक्षुः श्रोत्रं वागिति चतस्रः कलाश्चतुर्थः पाद आयतनवान्नाम । एते घ्राणादयो हि गन्धादिविषया मन आयतनमाश्रित्य भोगसाधनं भवन्तीत्यायतनवान्नाम पादः । तदेवं चतुष्पाद्ब्रह्माष्टशफं षोडशकलमुन्मिषितं श्रुत्या । अतस्ततो ब्रह्मणः परमन्यदस्ति ।
स्यादेतत् । अस्ति चेत्परिसङ्ख्यायोच्यतामेतावदिति । अत आह –
अमितमस्तीति ।
प्रमाणसिद्धम् । न त्वेतावदित्यर्थः । भेदव्यपदेशश्च त्रिप्रकार आधारतश्चातिदेशतश्चावधितश्च ॥ ३१ ॥
सामान्यात्तु ।
जगतस्तन्मर्यादानां च विधारकत्वं च सेतुसामान्यम् । यथा हि तन्तवः पटं विधारयन्ति तदुपादानत्वादेवं ब्रह्मापि जगद्विधारयति तदुपपादकत्वात् । तन्मर्यादानां च विधारकं ब्रह्म । इतरथातिचपलस्थूलबलवत्कल्लोलमालाकलिलो जलनिधिरिलापरिमण्डलमवगिलेत् । वडवानलो वा विस्फुर्जितज्वालाजटिलो जगद्भस्मसाद्भावयेत् । पवनः प्रचण्डो वाकाण्डमेव ब्रह्माण्डं विघटयेदिति । तथाच श्रुतिः “भीषास्माद्वातः पवते”(तै. उ. २ । ८ । १) इत्यादिका ॥ ३२ ॥
बुद्ध्यर्थः पादवत् ।
मनसो ब्रह्मप्रतीकस्य समारोपितब्रह्मभावस्य वाग्घ्राणश्चक्षुः श्रोत्रमिति चत्वारः पादाः । मनो हि वक्तव्यघ्रातव्यद्रष्टव्यश्रोतव्यान् गोचरान् वागादिभिः सञ्चरतीति सञ्चरणसाधारणतया मनसः पादस्तदिदमध्यात्मम् । आकाशस्य ब्रह्मप्रतीकस्याग्निर्वायुरादित्यो दिश इति चत्वारः पादाः । ते हि व्यापिनो नभस उदर इव गोः पादा विलग्ना उपलक्ष्यन्त इति पादास्तदिदमधिदैवतम् ।
तदनेन पादवदिति वैदिकं निदर्शनं व्याख्याय लौकिकं चेदं निदर्शनमित्याह –
अथवा पादवदिति ।
तद्वदिति ।
इहापि मन्दबुद्धीनामाध्यानव्यवहारायेत्यर्थः ॥ ३३ ॥
स्थानविशेषात्प्रकाशादिवत् ।
बुद्ध्याद्युपाधिस्थानविशेषयोगादुद्भूतस्य जाग्रत्स्वप्नयोर्विशेषविज्ञानस्योपाध्युपशमेऽभिभवे सुषुप्तावस्थानमिति । तथा भेदव्यपदेशोऽपि त्रिविधो ब्रह्मण उपाधिभेदापेक्षयेति । यथा सौधजालमार्गनिवेशिन्यः सवितृभासो जालमार्गोपाधिभेदाद्भिन्ना भासन्ते तद्विगमे तु गभस्तिमण्डलेनैकीभवन्त्यतस्तेन सम्बध्यन्त एवमिहापीति ॥ ३४ ॥
स्यादेतत् । एकीभावः कस्मादिह सम्बन्धः कथञ्चिद्व्याख्यायते न मुख्य एवेत्येतत्सूत्रेण परिहरति –
उपपत्तेश्च ।
स्वमपीत इति हि स्वरूपसम्बन्धं ब्रूते । स्वभावश्चेदनेन सम्बन्धत्वेन स्पृष्टस्ततः स्वाभाविकस्तादात्म्यान्नातिरिच्यत इति तर्कपाद उपपादितमित्यर्थः । तथा भेदोऽपि त्रिविधो वान्यादृशः स्वाभाविक इत्यर्थः ॥ ३५ ॥
तथान्यप्रतिषेधात् ।
सुगमेन भाष्येण व्याख्यातम् ॥ ३६ ॥
अनेन सर्वगतत्वमायामशब्दादिभ्यः ।
ब्रह्माद्वैतसिद्धावपि न सर्वगतत्वं सर्वव्यापिता सर्वस्य ब्रह्मणा स्वरूपेण रूपवत्त्वं सिध्यतीत्यत आह –
अनेन सेत्वादिनिराकरणेन ।
परहेतुनिराकरणेनान्यप्रतिषेधसमाश्रयणेन च स्वसाधनोपन्यासेन च सर्वगतत्वमप्यात्मनः सिद्धं भवति । अद्वैते सिद्धे सर्वोऽयमनिर्वचनीयः प्रपञ्चावभासो ब्रह्माधिष्ठान इति सर्वस्य ब्रह्मसम्बन्धाद्ब्रह्म सर्वगतमिति सिद्धम् ॥ ३७ ॥
परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः ॥३१॥ नेति नेत्यपूर्वमनपरमेकमेवाद्वितीयमित्यादिवाक्यैरद्वितीयत्वं ब्रह्मणः साधितम् ।
कथमिह ब्रह्मव्यतिरिक्तवस्त्वस्तित्वमाशङ्क्यते ? न च सेतुशब्दादाशङ्का ; द्युभ्वाद्यधिकरणे (ब्र.सू.अ.१.पा.३.सू.१) तस्य नीतत्वादित्याशङ्कामुद्भाव्य निरस्यति –
यद्यपीति ।
द्युभ्वाद्यधिकरणे हि सेतुशब्दस्य पूर्वपक्षेऽप्यमुख्यार्थत्वाद्विधरणत्वमर्थ आश्रितः , इह तून्मानसंबन्धभेदव्यपदेशाना पूर्वपक्षे मुख्यार्थलाभात्तेषां वक्ष्यमाणा गतीरजानतः पूर्वपक्ष इत्यर्थः ।
तदिदमुक्तं –
सेत्वादिश्रुतीनामिति ।
आदिशब्देन न केवलं सेतुश्रुतिस्तदाद्या अन्या अपि सन्त्यनिर्णीतार्था इत्यर्थः । पूर्वं च प्रतिषेधादन्यस्य ब्रह्मणः श्रुत्योक्तत्वादस्ति ब्रह्मेत्युक्तम् । अस्मिन् ब्रह्मव्यतिरिक्तस्यापि श्रुत्योक्तत्वाद् ब्रह्मव्यतिरिक्तमस्तीति प्रत्यवस्थीयते । जाङ्गलं वातभूयिष्ठम् इति वैद्योक्तत्वाद्वातबहुलदेशो जाङ्गलम् ।
भाष्ये –
तुल्यन्यायत्वात्स्थलमात्रमुक्तमित्याह – स्थलमिति ।
उन्मानव्यपदेशविवरणार्थं ब्रह्म चतुष्पादित्यादि भाष्यं , तच्छान्दोग्यश्रुत्युक्तषोडशकलविद्यासंबन्धिपादशफोदाहरणेन व्याचष्टे –
प्रकाशवदित्यादिना ।
गवां हि पादेषु पुरतो द्वौ खुरौ पृष्ठतश्च द्वे पार्ष्ण्यौ भवतः । तत्र पुरतोऽर्धं पश्चादर्धं च शफशब्देनोच्यते । ततोऽष्टाशफम् । एकैकस्मिन् पादे कलाचतुष्टयमिति षोडशकलम् ।
पादस्य प्रकाशवत्त्वसमाख्यायां हेतुमाह –
एतदुपासनायामिति ।
प्रकाशवान्भवतीति फलश्रुतिं व्याचष्टे –
मुख्य इति ।
कीर्तिमान् हि सर्वत्र मुख्यो भवतीत्यर्थः ।
प्राण इति ।
प्राण इह घ्राणेन्द्रियम् ; तस्य प्राणसहचरस्य गान्धग्राहकत्वात् ।
मन आयतनमाश्रित्येति ।
गन्धादिविषयज्ञानाश्रयमाश्रित्यैतेनाधिष्ठितानि भूत्वेत्यर्थः । अतः परमन्यदमितमस्तीति भाष्यं , तदनुपपन्नमिव ; अन्यत्वे सत्यमितत्वानुपपत्तेः ।
अत उचितशङ्कां कृत्वा अवतारयति –
स्यादेतदस्तिचेदिति ।
अस्ति चेदन्यदित्यनुषङ्गः । परिसंख्याय गणयित्वा ।
भाष्ये गम्यते इति पदं व्याचष्टे –
प्रमाणसिद्धमिति ।
संख्यातुमशक्यानि वस्तूनि ब्रह्मणोऽन्यानि सन्तीति भाष्यार्थमाह –
न त्वेतावदिति ।
अथ य एषोऽन्तरादित्य इत्यथ य एषोक्षणीति च भेदव्यपदेशं व्याचष्टे –
आधारत इति ।
तस्यैतस्य तदेव रूपं यदमुष्य रूपमित्यादिभेदव्यपदेशं व्याकरोति –
अतिदेशात् इति ।
ये वाऽमुष्मात्पराञ्चो लोका इत्यादिभेदव्यपदेशं व्याख्याति – अवधितश्चेति ॥३१॥
न केवलं जगत उपादानत्वेन ब्रह्म धारकम् , किंतु नियन्तृत्वेनापीत्याह –
तन्मर्यादानाम् चेति ।
अतिचपला अनियतचेष्ठाः स्थूलाश्च बलवन्तश्च कल्लोलास्तरङ्गास्तेषां मालास्ताभिः कलिलः क्षोभितो जलनिधिः स इलापरिमण्डलं भूमण्डलमवगिलेद् प्रसेद् यदि ब्रह्मभुवं न धारयेदित्यर्थः । यदि च ब्रह्म जगन्न धारयेत् , तर्हि स्फूर्जन्त्यो दीप्यमाना ज्वालारूपा जटा यस्य स व वाग्निर्वा जगद्भस्मासाद्भावयेत् कुर्यादिति । अकाण्डमिति । अनवसरो यथा भवति तथा अकाले इत्यर्थः । प्रलयकालो हि विघटनावसरः ॥३२॥
पादवदिति सूत्रावयवव्याख्यानार्थं भाष्यं - यथा मन आकाशयोरध्यात्ममधिदैवं चेत्यादि , तद्व्याचष्टे –
मनस इत्यादिना ।
ब्रह्मप्रतीकस्येत्येतस्य व्याख्यानम् –
आरोपितब्रह्मभावस्येति ।
प्राण इति घ्राणमुक्तम् ।
वागादीनां मनःपादत्वे हेतुमाह –
मनो हीति ।
संचरणसाधारणतयेति ।
संचर्यत एभिरिति संचरणाः । तद्रूपत्वेन प्रसिद्धपादसाधारणतया वागादयो मनसः पादा इति ।
आध्यात्मिकं मनश्चतुष्पाद्व्याख्यायाधिदैविकमाकाशं चतुष्पादं व्याचष्टे –
आकाशस्येत्यादिना ।
भाष्ये कार्षापण इति षोडशपणाः कपर्दक उक्ताः । ताम्नकर्षमितः क्रयसाधनमुद्राविशेषो वा । सौधं इर्म्यं तस्य जालं गवाक्षं तन्मार्गनिवेशिन्यः ॥३३॥ यः संबन्धः स एकीभाव इति कथंचित्कस्माद्व्याख्यायत इत्यर्थः ।
ननु स्वरूपसंबन्धः समवायोऽपि संभवति , कथं जीवस्य ब्रह्मतादात्म्यसिद्धिरत आह –
स्वभावश्चेदिति ।
अनेन संबधत्वेन संबन्धभावेन स्वभावश्चेत् स्पृष्टः स्वभावसंबन्ध इति चेदुच्यत इत्यर्थः । ततः स्वाभाविकः संबन्धस्तादात्म्यानातिरिच्यते ; सम दित्युक्तं तर्कयादे इत्यर्थः ॥३४॥३५॥३६॥
भास्करेणानेन सर्वगतत्वमिति सूत्रं प्रसङ्गादात्मसर्वगतत्वप्रतिपादकम् , नात्र पूर्वपक्षाशङ्का निरस्यत इत्युक्तम् , तत्सूत्राभिप्रायानवबोधादिति दर्शयन्नाशङ्कामाह –
ब्रह्माद्वैतसिद्धावपीति ।
ब्रह्मव्यतिरिक्तवस्त्वभावे सर्वाभावादेव सर्वसंबन्धात्मकसर्वगतत्वासिद्धिरतश्चाकाशवत् सर्वगत इत्यादिश्रुतिविरोधः । तस्मात्सर्वगतत्वार्थं ब्रह्मातिरिक्तवस्त्वपेक्षणात्परमत इति पूर्वपक्ष उन्मज्जतीति शङ्का । न वास्तवं सर्वगतत्वं किंतु प्रपञ्चेन मिथ्यातादात्म्यमित्याह – अद्वैते इति ॥३७॥