फलमत उपपत्तेः ।
सिद्धान्तोपक्रममिदमधिकरणम् ।
स्यादेतत् । नित्यशुद्धबुद्धमुक्तस्वभावस्य ब्रह्मणः कुत ईश्वरत्वं कुतश्च फलहेतुत्वमपीत्यत आह –
तस्यैव ब्रह्मणो व्यावहारिक्यामिति ।
नास्य पारमार्थिकं रूपमाश्रित्यैतच्चिन्त्यते किन्तु सांव्यवहारिकम् । एतच्च “तपसा चीयते ब्रह्म”(मु.उ. १-१-८) इति व्याचक्षाणैरस्माभिरुपपादितम् । इष्टम्फलं स्वर्गः । यथाहुः “यन्न दुःखन सम्भिन्नं नच ग्रस्तमनन्तरम् । अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम्” इति । अनिष्टमवीच्यादिस्थानभोग्यं, व्यामिश्रं मनुष्यभोग्यम् । तत्र तावत्प्रतिपाद्यतेफलमत ईश्वरात्कर्मभिराराधिताद्भवितुमर्हति ।
अथ कर्मण एव फलं कस्मान्न भवतीत्यत आह –
कर्मणस्त्वनुक्षणविनाशिनःप्रत्यक्षविनाशिन इति ।
चोदयति –
स्यादेतत्कर्म विनश्यदिति ।
उपात्तमपि फलं भोक्तुमयोग्यत्वाद्वा कर्मान्तरप्रतिबन्धाद्वा न भुज्यत इत्यर्थः ।
परिहरति –
तदपि न परिशुध्यतीति ।
नहि स्वर्ग आत्मानं लभतामित्यधिकारिणः कामयन्ते किन्तु भोग्योऽस्माकम्भवत्विति । तेन यादृशमेभिः काम्यते तादृशस्य फलत्वमिति भोग्यमेव सत्फलमिति । नच तादृशं कर्मानन्तरमिति कथं फलं, सदपि स्वरूपेण । अपिच स्वर्गनरकौ तीव्रतमे सुखदुःखे इति तद्विषयेणानुभवेन भोगापरनाम्नावश्यं भवितव्यम् । तस्मादनुभवयोग्ये अननुभूयमाने शशशृङ्गवन्न स्त इति निश्चीयते ।
चोदयति –
अथोच्येत मा भूत्कर्मानन्तरं फलोत्पादः । कर्मकार्यादपूर्वात्फलमुत्पत्स्यत इति ।
परिहरति –
तदपि नेति ।
यद्यदचेतनं तत्तत्सर्वं चेतनाधिष्ठितं प्रवर्तत इति प्रत्यक्षागमाभ्यामवधारितम् । तस्मादपूर्वोणाप्यचेतनेन चेतनाधिष्ठितेनैव प्रवर्तितव्यं नान्यथेत्यर्थः ।
न चापूर्वं प्रामाणिकमपीत्याह –
तदस्तित्वे इति ॥ ३८ ॥
श्रुतत्वाच्च ।
अन्नादः अन्नप्रदः ॥ ३९ ॥
सिद्धान्तेनोपक्रम्य पूर्वपक्षं गृह्णाति –
धर्मं जैमिनिरत एव ।
श्रुतिमाह –
श्रूयते तावदिति ।
ननु “स्वर्गकामो यजेत” इत्यादयः श्रुतयः फलं प्रति न साधनतया यागं विदधति । तथाहि - यदि यागादय एव क्रिया न तदतिरिक्ता भावना तथापि त एव स्वपदेभ्यः पूर्वापरीभूताः साध्यस्वभावा अवगम्यन्त इति न साध्यान्तरमपेक्षन्त इति न स्वर्गेण साध्यान्तरेण सम्बद्धुमर्हन्ति । अथापि तदतिरेकिणी भावानास्ति तथाप्यसौ भाव्यापेक्षापि स्वपदोपात्तं पूर्वावगतं न भाव्यं धात्वर्थमपहाय न भिन्नपदोपात्तं पुरुषविशेषणं च स्वर्गादि भाव्यतया स्वीकर्तुमर्हति । न चैकस्मिन् वाक्ये साध्यद्वयसम्बन्धसम्भवः, वाक्यभेदप्रसङ्गात् । न केवलं शब्दतो वस्तुतश्च पुरुषप्रयत्नस्य भावनायाः साक्षाद्धात्वर्थ एव साध्यो न तु स्वर्गादिस्तस्य तदव्याप्यत्वात् । स्वर्गादेस्तु नामपदाभिधेयतया सिद्धरूपस्याख्यातवाच्यं साध्यं धात्वर्थं प्रति “भूतं भव्यायोपदिश्यते” इति न्यायात्साधनतया गुणत्वेनाभिसम्बन्धः । तथाच पारमर्षं सूत्रम् “द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः” इति । तथाच कर्मणो यागादेर्दुःखत्वेन पुरुषेणासमीहितत्वात् , समीहितस्य च स्वर्गादेरसाध्यत्वान्न यागादयः पुरुषस्योपकुर्वन्त्यनुपकारिणां चैषां न पुरुष ईष्टे अनीशानश्च न तेषु सम्भवत्यधिकारीत्यधिकाराभावप्रतिपादितानर्थक्यपरिहाराय कृत्स्नस्यैवाम्नायस्य निर्मृष्टनिखिलदुःखानुषङ्गनित्यसुखमयब्रह्मज्ञानपरत्वं भेदप्रपञ्चविलयनद्वारेण तथाहि - सर्वत्रैवाम्नाये क्वचित्कस्यचिद्भेदस्य प्रविलयो गम्यते यथा “स्वर्गकामो यजेत” इति शरीरात्मभावप्रविलयः । इह खल्वापाततो देहातिरिक्त आमुष्मिकफलोपभोगसमर्थोऽधिकारी गम्यते । तत्राधिकारस्योक्तेन क्रमेण निराकरणादसतोऽपि प्रतीयमानस्य विचारासहस्योपायतामात्रेणावस्थानादनेन वाक्येन देहात्मभावप्रविलयस्तत्परेण क्रियते । “गोदोहनेन पशुकामस्य प्रणयेत्” इत्यत्राप्यापाततोऽधिकृताधिकारावगमादधिकारिभेदप्रविलयः । निषेधवाक्यानि च साक्षादेव प्रवृत्तिनिषेधेन विधिवाक्यानि चान्यानि “साङ्ग्रहण्या यजेत ग्रामकामः” इत्यादीनि न साङ्ग्रहण्यादिप्रवृत्तिपराण्यपि तूपायान्तरोपदेशेन सेवादिदृष्टोपायप्रतिषेधार्थानि । यथा विषं भुङ्क्षव मास्य गृहे भुङ्क्ष्वेति । तथाच रागाद्यक्षिप्तप्रवृत्तिप्रतिषेधेन शास्त्रस्य शास्त्रत्वमप्युपपद्यते । रागनिबन्धनां तूपायोपदेशद्वारेण प्रवृत्तिमनुजानतो रागसंवर्धनादशास्त्रत्वप्रसङ्गः । तन्निषेधेन तु ब्रह्मणि प्रणिधानमादधच्छास्त्रं शास्त्रं भवेत् । तस्मात्कर्मफलसम्बन्धस्याप्रामाणिकत्वादनादिविचित्राविद्यासहकारिण ईश्वरादेव कर्मानपेक्षाद्विचित्रफलोत्पत्तिरिति । कथं तर्हि विधिः किमत्र कथं प्रवर्तनामात्रत्वाद्विधेस्तस्य चाधिकारमन्तरेणाप्युपपत्तेः ।
नहि यो यः प्रवर्तयति स सर्वोऽधिकृतमपेक्षते । पवनादेः प्रवर्तकस्य तदनपेक्षत्वादिति शङ्कामपाचिकीर्षुराह –
तत्र च विधिश्रुतेर्विषयभावोपगमाद्यागः स्वर्गस्योत्पादक इति गम्यते ।
अन्यथा ह्यननुष्ठातृको याग आपद्येत । अयमभिसन्धिः - उपदेशो हि विधिः । यथोक्तम् “तस्य ज्ञानमुपदेशः”( जै. सू० ११११५ ) इति । उपदेशश्च नियोज्यप्रयोजने कर्मणि लोकशास्त्रयोः प्रसिद्धः । तद्यथारोग्यकामो जीर्णे भुञ्जीत । एष सुपन्था गच्छतु भवाननेनेति । न त्वज्ञानादिरिव नियोक्तृप्रयोजनस्तत्राभिप्रायस्य प्रवर्तकत्वात् , तस्य चापौरुषेयेऽसम्भवात् । अस्य चोपदेशस्य नियोज्यप्रयोजनव्यापारविषयत्वमनुष्ठात्रपेक्षितानुकूलव्यापारगोचरत्वमस्माभिरुपपादितं न्यायकणिकायाम् । तथाच “स्वर्गकामो यजेत” इत्यादिषु स्वर्गकामादेः समीहितोपाया गम्यन्ते यागादयः । इतरथा तु न साधयितारमनुगच्छेयुः । तदुक्तमृषिणा “असाधकं तु तादर्थ्यात्” इति । अनुष्ठात्रपेक्षितोपायतारहितप्रवर्तनामात्रार्थत्वे यजेतेत्यादीनामसाधकं कर्म यागादि स्यात् । साधयितारं नाधिगच्छेदित्यर्थः । न चैते साक्षाद्भावनाभाव्या अपि कर्त्रपेक्षितसाधनताविध्युपहितमर्यादा भावनोद्देश्या भवितुमर्हन्ति, येन पुंसामनुपकारकाः सन्तो नाधिकारभाजो भवेयुः । दुःखत्वेन कर्मणां चेतनसमीहानास्पदत्वात् । स्वर्गादीनां तु भावनापूर्वरूपकामनोपधानाच्च । प्रीत्यात्मकत्वाच्च । नामपदाभिधेयानामपि पुरुषविशेषणानामपि भावनोद्देश्यतालक्षणभाव्यत्वप्रतीतेः । फलार्थप्रवृत्तभावनाभाव्यत्वलक्षणेन च यागादिसाध्यत्वेन फलार्थप्रवृत्तभावनाभाव्यत्वरूपस्य फलसाध्यत्वस्य समप्रधानत्वाभावेनैकवाक्यसमवायसम्भवात् , भावनाभाव्यत्वमात्रस्य च यागादिसाध्यत्वस्य करणेऽप्यविरोधात् । अन्यथा सर्वत्र तदुच्छेदात् । परश्वादेरपि छिदादिषु तथाभावात् । फलस्य साक्षाद्भावनाव्याप्यत्वविरहिणोऽपि तदुद्देश्यतया सर्वत्र व्यापितया व्यवस्थानात्स्वर्गसाधने यागादौ स्वर्गकामादेरधिकार इति सिद्धम् । न चाप्राप्तार्थविषयाः साङ्ग्रहण्यादियागविधयः परिसङ्ख्यायका नियामका वा भवितुमर्हन्ति । न चाधिकाराभावे देहात्मप्रविलयो वाधिकारिभेदप्रविलयो वा शक्य उपपादयितुम् । आपाततः प्रतिभाने चास्य तत्परत्वमेव नार्थायातपरत्वम् । स्वरसतः प्रतीयमानेऽर्थे वाक्यस्य तादर्थ्ये सम्भवति न सम्पातायातपरत्वमुचितम् । न चैतावता शास्त्रत्वव्याघातः । तस्य स्वर्गाद्युपायशासनेऽपि शास्त्रत्वोपपत्तेः । पुरुषश्रेयोऽभिधायकत्वं हि शास्त्रत्वम् । सरागवीतरागपुरुषश्रेयोऽभिधायकत्वेन सर्वपारिषदतया न तत्त्वव्याघातः । तस्माद्विधिविषयभावोपगमाद्यागः स्वर्गस्योत्पादक इति सिद्धम् ।
कर्मणो वा काचिदवस्थेति ।
कर्मणोऽवान्तरव्यापारः । एतदुक्तं भवति कर्मणो हि फलं प्रति यत्साधनत्वं श्रुतं, तन्निर्वाहयितुं तस्यैवावान्तरव्यापारो भवति । नच व्यापारवति सत्येव व्यापारो नासतीति युक्तम् । असत्स्वप्याग्नेयादिषु तदुत्पत्त्यपूर्वाणां परमापूर्वे जनयितव्ये तदवान्तरव्यापारत्वात् । असत्यपि च तैलपानकर्मणि तेन पुष्टौ कर्तव्यायामन्तरा तैलपरिणामभेदानां तदवान्तरव्यापारत्वात् । तस्मात्कर्मकार्यमपूर्वं कर्मणा फले कर्तव्ये तदवान्तरव्यापार इति युक्तम् ।
यदा पुनः फलोपजननान्यथानुपपत्त्या किञ्चित्कल्प्यते तदा –
फलस्य वा पूर्वावस्था ।
अविचित्रस्य कारणस्येति ।
यदीश्वरादेव केवलादिति शेषः । कर्मभिर्वा शुभाशुभैः कार्यद्वैधोत्पादे रागादिमत्त्वप्रसङ्ग इत्याशयः ॥ ४० ॥
पूर्वं तु बादरायणो हेतुव्यपदेशात् ।
दृष्टानुसारिणी हि कल्पना युक्ता नान्यथा । नहि जातु मृत्पिण्डदण्डादयः कुम्भकाराद्यनधिष्ठिताः कुम्भाद्यारम्भाय विभववन्तो दृष्टाः । नच विद्युत्पवनादिभिरप्रयत्नपूर्वैर्व्यभिचारः, तेषामपि कल्पनास्पदतया व्यभिचारनिदर्शनत्वानुपपत्तेः । तस्मादचेतनं कर्म वापूर्वं वा न चेतनानधिष्ठितं स्वतन्त्रं स्वकार्यं प्रवर्तितुमुत्सहते नच चैतन्यमात्रं कर्मस्वरूपसामान्यविनियोगादिविशेषविज्ञानशून्यमुपयुज्यते, येन तद्रहितक्षेत्रज्ञमात्राधिष्ठानेन सिद्धसाध्यत्वमुद्भाव्येत । तस्मात्तत्तत्प्रासादाट्टालगोपुरतोरणाद्युपजननिदर्शनसहस्रैः सुपरिनिश्चितं यथा चेतनाधिष्ठानादचेतनानां कार्यारम्भकत्वमिति तथा चैतन्यं देवताया असति बाधके श्रुतिस्मृतीतिहासपुराणप्रसिद्धं न शक्यं प्रतिषेद्धुमित्यपि स्पष्टं निरटङ्कि देवताधिकरणे । लौकिकश्चेश्वरो दानपरिचरणप्रणामाञ्जलिकरणस्तुतिमयीभिरतिश्रद्धागर्भाभिर्भक्तिभिराराधितः प्रसन्नः स्वानुरूपमाराधकाय फलं प्रयच्छति विरोधतश्चापक्रियाभिर्विरोधकायाहितामित्यपि सुप्रसिद्धम् । तदिह केवलं कर्म वापूर्वं वा चेतनानधिष्ठितमचेतनं फलं प्रसूत इति दृष्टविरुद्धम् । यथा विनष्टं कर्म न फलं प्रसूत इति कल्प्यते दृष्टविरोधादेवमिहापीति । तथा देवपूजात्मको यागो देवतां न प्रसादयन् फलं प्रसूत इत्यपि दृष्टविरुद्धम् । नहि राजपूजात्मकमाराधनं राजानमप्रसाद्य फलाय कल्पते । तस्माद्दृष्टानुगुण्याय यागादिभिरपि देवताप्रसत्तिरुत्पाद्यते । तथाच देवताप्रसादादेव स्थायिनः फलोत्पत्तेरुपपत्तेः कृतमपूर्वेण । एवमशुभेनापि कर्मणा देवताविरोधनं श्रुतिस्मृतिप्रसिद्धम् । ततः स्थायिनोऽनिष्टफलप्रसवः । नच शुभाशुभकारिणां तदनुरूपं फलं प्रसुवाना देवता द्वेषपक्षपातवतीति युज्यते । नहि राजा साधुकारिणमनुगृह्णन्निगृह्णन् वा पापकारिणं भवति द्विष्टो रक्तो वा तद्वदलौकिकोऽपीश्वरः । यथा च परमापूर्वे कर्तव्ये उत्पत्त्यपूर्वाणामङ्गापूर्वाणां चोपयोगः । एवं प्रधानाराधनेऽङ्गाराधनानामुत्पत्त्याराधनानां चोपयोगः । स्वाम्याराधन इव तदमात्यतत्प्रणयिजनाराधनानामिति सर्वं समानमन्यत्राभिनिवेशात् । तस्माद्दृष्टाविरोधेन देवताराधनात्फलं न त्वपूर्वात्कर्मणो वा केवलाद्विरोधतो हेतुव्यपदेशश्च श्रौतः स्मार्तश्च व्याख्यातः । ये पुनरन्तर्यामिव्यापाराया फलोत्पादनाया नित्यत्वं सर्वसाधारणत्वमिति मन्यमाना भाष्यकारीयमधिकरणं दूषयाम्बभूवुस्तेभ्यो व्यावहारिक्यामीशित्रीशितव्यविभागावस्थायामिति भाष्यं व्याचक्षीत ॥ ४१ ॥
फलमत उपपत्तेः ॥३८॥ ब्रह्मव्यतिरिक्तवस्तुनि निषिद्धे फलदातृत्वमपि ब्रह्मणो न स्यादित्याशङ्क्य व्यवहारतस्तत्समर्थ्यते । सत्यपि सर्वगतत्वेन समानन्यायत्वे कर्मण एव फलमित्याशङ्कानिरासायारम्भः । एतच्चेति ब्रह्मण उपाधिवशादीक्षणकर्तृत्वम् । तपसेति मन्त्र ईक्षत्यधिकरणे व्याख्यातः । तेन फलदातत्वमप्यौपाधिकमुपपादितमित्यर्थः ।
भाष्यस्थमिष्टपदं व्याचष्टे –
इष्टं फलमित्यादिना ।
अवीचिर्नरकविशेषः ।
वैषम्यनैर्घृण्यप्रसङ्गमीश्वरस्य परिहरति –
कर्मभिराराधितादिति ।
यदि कर्म स्वानन्तरकालमारभेत , तर्ह्युपलभ्येतेत्याशङ्क्याह –
उपात्तमपीति ।
स्वरूपेण सदपि कथं फलमिति योजना ।
भुज्यमाननपि फलं विषयान्तरव्यासङ्गान्न दृश्यत इत्याशङ्क्याह –
तीव्रतमे इति ।
प्रत्यक्षागमाभ्यामिति ।
यः सर्वाणि भूतान्यन्तरो यमयतीत्यागमः ॥३८॥ अन्नमा समन्ताद्ददातीत्यन्नादः ।
अत्र भगवता भाष्यकारेण विधिश्रुतेर्विषयभावोपगमादित्यादिभाष्येण कर्मण एव फलमिति पूर्वपक्षघटनाय स्वर्गकामाधिकरणसिद्धान्तः संचिक्षिपे , तन्निवर्त्यामाशङ्कामादर्शयंस्तदधिकरणपूर्वपक्षमाह –
नन्वित्यादिना ।
धात्वर्थनिष्पादकः कर्तृव्यापारो भावना , सैव क्रियेत्यन्येषाम् ।
तत्र पूर्वस्मिन्पक्षे स्वर्गाद्यनपेक्षामाह –
तथा हीति ।
यागादीनामेव क्रियात्वे तेषां धातुभिरेव प्रतीतेः प्रत्ययपौनरुक्त्यमाशङ्क्याह – पूर्वापरीभूता इति यजेतेत्यत्र हि यजिना प्रकृत्या याग एव प्रतीयते । प्रत्ययसहितेन तु तेन स एव पूर्वापरीभूतो नानाक्षणव्यासक्तोऽभिधीयते ।
पूर्वापरीभूतत्वं यजत इत्यादिवर्तमानापदेशेष्वप्यस्तीति लिङ्गादिषु वेशेषमाह –
साध्यस्वभावा इति ।
द्वितीयपक्षे तादृशभावनाभाव्यः किं स्वर्गादिरेव ? किं वा यागादिरपि ? न प्रथम इत्याह –
तथाप्यसाविति ।
प्रत्ययार्थभूता भावना धात्वर्थातिरिक्ता यद्यपि स्वातिरिक्तं भाव्यमाकाङ्क्षते ; तथापि धात्वर्थ एवस्या भाव्यः , तस्य यजेतेत्येकपदश्रुत्या साध्यत्वप्रतीतेः । अत एव च पूर्वावगतेः न स्वर्गः । तस्य भिन्नपदोपात्तस्य वाक्येन साध्यत्वस्य प्रत्येतव्यत्वाद् , वाक्यस्य च लिङ्गश्रुतिकल्पनापेक्षस्य चरमभावित्वात् । किं च पुरुषविशेषणस्वर्गस्य न यागेन संबन्धः , उपसर्जनस्य पदान्तरेणासबन्धादित्यर्थः ।
न द्वितीय इत्याह –
न केवलमिति ।
यागादयो न साध्यान्तरमपेक्षन्ते इत्येतन्न केवलं शब्दतः , अपि तु वस्तुतश्चेत्यर्थः ।
वस्तुसामर्थ्यमेव दर्शयति –
पुरुषप्रयत्नस्येति ।
यदि स्वर्गो न साध्यः , कथं तर्हि स्वर्गो यागेन संबध्यतेऽत आह –
स्वर्गादेस्त्विति ।
प्रीतिसाधनं चन्दनादि स्वर्गः । तस्य सिद्धत्वात् साध्यक्रियां प्रति साधनत्वेनान्वय इत्यर्थः ।
उक्तेऽर्थे स्वर्गकामाधिकरणपूर्वपक्षसूत्रमुदाहरति –
द्रव्याणामिति ।
यदि यागादेर्न स्वर्गादिसाधनत्वम् , कथं तर्हि पुरुषाः प्रवर्तेरन्नप्रवर्तमानेषु वा तेषु कथं शास्त्राणां प्रामाण्यमत आह –
तथा च कर्मण इत्यादिना ।
कथं कर्मविधीनां ब्रह्मज्ञानपरत्वमत आह –
भेदप्रपञ्चेति ।
अप्रविलापिते हि प्रपञ्चे ब्रह्माद्वैतं प्रत्येतुमशक्यमिति ।
ननु स्वर्गकामवाक्य आकाशादिलयो न भात्यत आह –
क्वचिदिति ।
अनुक्ते स्वर्गसाध्यत्वे देहातिरिक्तात्माप्रतीतिः , उक्ते च वाक्यस्य तत्परत्वं स्यादित्याशङ्क्याह –
आपातत इति ।
आपातप्रतीतोऽपि तथाऽस्तु देवताविग्रहादिवदत आह –
तत्रेति ।
निराकृतस्य कथं प्रपञ्चप्रविलयप्रमित्यर्थत्वमत आह –
असतोऽपीति ।
असन्नपि प्रमित्यर्थो वपोत्खननादिरिव प्राशस्त्यप्रमित्यर्थ इति भावः ।
स्वर्गकामवाक्ये देहात्मभावोपलक्षितजडप्रपञ्चविलयमुक्त्वा गोदोहनवाक्ये दर्शपूर्णमासाधिकारिण एव गोदोहनेऽप्यधिकारावगमादुभयत्राधिकारिभेदप्रविलापनद्वारा तदुपलक्षितात्मभेदः प्रविलाप्यत इत्याह –
गोदोहनेनेति ।
एवं प्रवृत्तिविषयजडप्रपञ्चस्य स्वरूपेण प्रविलयं , प्रवृत्तिकर्तुश्चेतनस्य भेदमात्रप्रविलयं चाभिधाय प्रवृत्तेः प्रविलयमाह –
निषेधवाक्यानीति ।
साक्षादेव प्रवृत्तिनिषेधेनात्मज्ञानोपयोगीनीत्यध्याहारः ।
विधिवाक्यानीति ।
ऐहिकफलानीत्यर्थः । पारलौकिकफलानां देहात्मभावप्रविलयार्थत्वस्योक्तत्वात् साग्रहणीष्ठ्यादिप्रवृत्तिपराणि न भवन्ति ; स्वर्गकामपदवद् ग्रामकामपदस्यापि फलसमर्पकत्वायोगादित्यर्थः ।
सेवादिदृष्टोपायप्रतिषेधार्थानीति ।
सेवादिविषयप्रवृत्तिर्हि सांग्रहण्यामनुष्ठीयमानायां न भवतीत्यर्थः ।
एवं मुख्यार्थपरिग्रहे बाधकप्रदर्शनेन विधीनां प्रपञ्चलयार्थत्वमुक्तमिदानीं लक्षणास्वीकारे प्रयोजनमाह –
तथा चेति ।
ननु यदि न कर्मणां फलसाधनत्वम् , कथं तर्हि जगद्वैचित्र्यम् ? अत आह –
अनादिविचित्रेति ।
कथं तर्हि विधिरिति ।
त्वयाऽपि सांग्रहण्यादीनां दृष्टार्थप्रवृत्तिपरिसंख्यायकत्वं ब्रुवता विधिर्न त्यक्तः । तथा च फलार्थिनोऽधिकारिणोऽभावे विधित्वं न स्यादित्यर्थः ।
वायूदकादिवद्विधेः प्रवर्तकत्वमित्येतत्तवद् निषेधन् स्वर्गकामाधिकरणसिद्धान्तं दर्शयति –
उपदेशो हीत्यादिना ।
ननु भवतूपदेशो विधिः , कथं तस्य फलसाधनविषयता ? अत आह –
उपदेशश्चेति ।
नियोज्यः प्रवर्त्यः पुरुषस्तदीयं प्रयोजनं साध्यं यस्य कर्मणः तन्नियोज्यप्रयोजनम् ।
ननु नियोक्तृपुरुषप्रयोजनसाधनं यथाऽऽज्ञादौ बोध्यते , एवमुपदेशेऽपि किं न स्यादत आह –
न त्वज्ञादिरिव नियोक्तृप्रयोजन इति ।
उपदेश इत्यनुषङ्गः । उत्तमनियोक्तृका ह्याज्ञा यथा गामानयेति । अनुत्तमनियोक्तृकाऽभ्यर्थना यथा मम पुत्रमध्यापयेति । उभयत्रापि प्रवर्तयितुः प्रयोजनसाधनं बोध्यते , नैवमुपदेशे ।
तत्र हेतुमाह –
तत्राभिप्रायस्येति ।
प्रवर्तयिता स्वस्य हितं भवत्विति यत्र प्रवर्तयति तत्राज्ञादिस्तदभिप्रायविशेषः प्रवर्तकः । अपौरुषेये वेदे तस्यासंभवान्नियोज्यप्रयोजनसाधनमुपदिश्यत इत्यर्थः । न च वाच्यमुपदेशोऽपि नियोज्यप्रयोजनसाधनविषयोऽभिप्रायविशेष इति कथमसावपौरुषेये वेदे संभवतीति ; यतः परस्य स्वस्य वा प्रयोजनमनभिसंधायापि गोपालादेर्मार्गाद्युपदेष्टृत्वं भूतार्थविषयं दृश्यते ।
ननु नियोज्यप्रयोजनसाधनविषयत्वमनुज्ञायामपि दृश्यते , यथेच्छसि तथा कुर्वित्यादौ , तत्राह –
अस्य चेति ।
अनुज्ञायां हि प्रवृत्तस्य प्रवर्तनमुपदेशे त्वप्रवृत्तस्य ततश्चाप्रवृत्तप्रवर्तकत्वे सतीति विशेषणविषिष्टनियोज्यप्रयोजनसाधनविषयत्वमुपदेशस्यैव लक्षणमिति न्यायकणिकायाम् उपपादितमित्यर्थः । नियोज्यप्रयोजनेत्यादेर्व्याख्यानम् – अनुष्ठात्रपेक्षितेत्यादि ।
प्राभाकराभिमतनियोज्यव्यावृत्त्यर्थं सिद्धान्तसूत्रगतं तादर्थ्यादिति पदं व्याचष्टे –
अनुष्ठात्रपेक्षितोपायतारहितेति ।
तादर्थ्यात् तादर्थ्ये सति पूर्वपक्षोक्तप्रवर्तनामात्रार्थत्वे सतीत्यर्थः ।
यदुक्तं साक्षाद्भावनाभाव्यो यागादिः , स च दुःखरूप इत्यप्रवृत्तिरिति , तत्राह –
न चैत इति ।
विधिविषयीकृत भावनायाः श्रेयःसाधनत्वात् स्वर्ग एवोद्देश्यो न तु यागादयः । यदि स्युस्तर्ह्यप्रवृत्तिविषयता तेषां स्यात् , तच्च नास्ति ; यागादीनां भावनां प्रत्यनीप्सितकर्मतामात्रत्वादित्यर्थः ।
यागादीनां भावनोद्देश्यत्वाभावे हेतुः –
दुःखत्वेन कर्मणामिति ।
यस्त्वर्गादेर्भावनां प्रति व्यवधानान्न भाव्यत्वमित्युक्तं , तत्राह –
स्वर्गादीनां त्विति ।
सर्वो हि कामनानन्तरं प्रवर्तते , ततश्च स्वर्गादेर्भावनायाः पूर्वरूपकामनाविषयत्वादतितरामव्यवधानमित्यर्थः ।
यच्च द्रव्यत्वात् स्वर्गादेः क्रियाशेषत्वमिति , तत्राह –
प्रीत्यात्मकत्वाच्चेति ।
एषां हेतूनां स्वर्गकामादेरधिकार इति वक्ष्यमाणप्रतिज्ञायां संबन्धः । प्रीतौ हि रूढः स्वर्गशब्द इति तच्छेषा क्रिया इत्यर्थः ।
यत्तु सुबन्तपदाभिधेयत्वात्सिद्धरूपतेति , तन्न ; तथापि कामपदात्साध्यत्वप्रतीतिरित्यभिप्रेत्याह –
नामेति ।
यदपि पुरुषविशेषणत्वात्स्वर्गादेर्न भाव्यत्वमिति , तत्राह –
पुरुषविशेषणानामपीति ।
भावनाक्षिप्तकर्त्रनुवादेन विशेषणभूतस्वर्गपरं स्वर्गकामपदं स्वर्गं भाव्यत्वेन समर्पयतीत्यर्थः ।
यत्तु यागादेः स्वर्गादेश्च भाव्यत्वेन वाक्यभेद इति , तत्राह –
फलार्थप्रवृत्तेति ।
फलार्थं प्रवर्तस्य पुरुषस्य या भावना तया भाष्यत्व लक्षणेनेति प्रथमग्रन्थे विग्रहः । फलार्थ या प्रवृत्ता भावना तया भाव्यत्वरूपस्येति द्वितीयग्रन्थे । ततश्च यागादेः साध्यत्वमन्यत्साधयितुम् , स्वर्गादेस्तु स्वत इति स्वतन्त्रसाध्यद्वयाभावान्न वाक्यभेद इत्युक्तं भवति ।
ननु यागादीर्न करणं स्याद् , भावनाभाव्यत्वात्स्वर्गवदिति , तत्राह –
भावनाभाव्यत्वमात्रस्येति ।
परश्वादेरपि तथाभावाद्व्यापाराविष्टरूपेण साध्यत्वादित्यर्थः । स्वर्गादीनां त्विति ग्रन्थेन भावनां प्रति स्वर्गादीनामव्यवधानातिशय उक्तः ।
इदानीं व्यवधानमङ्गीकृत्याप्युद्देश्यत्वेन साध्यत्व आकाङ्क्षातिशयमाह –
फलस्य साक्षादिति ।
तदुद्देश्यतया लक्षणेन फलस्य सर्वत्र व्यापितया व्यापित्वेनावस्थानादिति योजना । व्यापित्वनिर्देशो लक्षणस्याव्याप्त्यतिव्याप्तिपरिहारार्थः । न चाधिकाराभावे इति । स्वर्गभोक्तृर्यागाधिकारान्यथानुपपत्त्या हि देहात्मत्वाभावावगतिरित्यर्थः । संपातः आपातः ।
यच्च प्रपञ्चप्रविलयादिलक्षणायां प्रयोजनं शास्त्रत्वसिद्धिरिति , तत्राह –
न चैतावतेत्यादिना ।
सर्वपारिषदतया सर्वपरिषत्प्रसिद्धतया ।
यदि प्राभाकरा मन्वीरन् , असति व्यापारवति न व्यापार इति , तान्प्रत्याह –
असत्स्वप्याग्नेयादिष्विति ।
तेषामपि मते आग्नेयादिवाक्यैर्यागा एव विधीयन्ते नापूर्वाणि । अधिकारवाक्यसन्निधिसमाम्नातानामाग्नेयादिवाक्यानामधिकारापूर्वानुवादकत्वशङ्कायां कुण्ठितशक्तीनां द्रागित्येवापूर्वान्तरप्रत्ययाजनकत्वात्तेश्च परमापूर्वे जनयितव्येऽवान्तरव्यापारा जन्यमाना असत्स्वपि व्यापारवत्सु भवतीत्यर्थः ।
अथ लौकिको वदेत् , तत्राह –
असत्यपीति ।
सापेक्षेश्वरात् फलसिद्धेर्वक्ष्यमाणत्वादविचित्रस्येति भाष्यायोगमाशङ्क्याह –
केवलादितीति ।
तर्हि कर्मापेक्षत्वपक्षो निर्दोष इति कथं पूर्वपक्षावकाशः ? तत्राह –
कर्मभिर्वेति ।
कंचिच्छुभं कारयति कंचिदशुभमिति वैषम्यप्रसङ्गः इत्यर्थः ॥४०॥
कर्मादि चेतनाधिष्ठितमचेतनत्वाद् मृद्वदित्यनुमानस्य जीवैः सिद्धसाधनत्वमाशङ्क्याह –
न चैतन्यमात्रमिति ।
कर्म स्वरूपं तस्य च शुभस्य सुखमितरस्य दुःखमित्येवं सामान्यविनियोगः । आदिशब्देन ज्योतिष्टोमात्स्वर्ग इत्यादिविशेषविनियोग उच्यते । फलसिद्धिपूर्वक्षणे कर्मस्वरूपादिसाक्षात्कारवदधिष्ठितमस्माभिः साध्यत इति न सिद्धसाधनमित्यर्थः । आगमप्रमिते संभावनामात्राभिधानात्पत्युरसामञ्जस्या (व्या.सू.अ.२.पा.२.सू.३७) दित्यत्रोक्तखण्डनानामनवकाशः । दुर्गेषु यो जनानां निवेशनार्थं भूमिकाविशेषो रच्यतेऽसावट्टालः । निरटङ्कि निष्टङ्कितं निर्णीतमित्यर्थः ।
नन्वीश्वरश्चेत्फलं ददाति , किं कर्मभिरत आह –
लौकिकश्चेश्वर इति ।
ईश्वरस्य कर्मापेक्षामुक्त्वा कर्मणामीश्वरापेक्षामुक्तां स्मारयति –
तदिह केवलं कर्मेति ।
न केवलं कर्माधिष्ठानत्वादीश्वरसिद्धिरपि तु कर्मभिरीश्वरप्रसादस्य साध्यत्वाच्चेत्याह –
तथा देवपूजात्मक इति ।
न प्रसादयन्निति=अप्रसादयन्नित्यर्थः । नशब्दोऽयं प्रतिषेधवचनः । विरोधनं द्रोहः ।
ननु प्रधानयागेन परमेश्वरः प्रसीदतु , अङ्गानुष्ठानं तर्हि किमर्थमत आह –
यथा च परमापूर्व इति ।
अत्र भास्करेण प्रलेपे –
भाष्यकारनतेऽन्तर्यामिव्यापारः फलोत्पादकः , स च सन्निधिमात्ररूप इति नित्यः , सर्वजीवसाधारणश्चातो न तस्यैकैकनीवकर्मभिः साध्यत्वमिति , तं भाष्यव्याख्यानेनानुगृह्णाति – ये पुनरिति ।
अविद्योपाधिवशादीश्वरस्यानित्यः प्रतिजीवं कर्मसाध्यश्चानुग्रहोऽस्तीत्यर्थः ॥४१॥