सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ।
पूर्वेण सङ्गतिमाह –
व्याख्यातं विज्ञेयस्य ब्रह्मण इति ।
निरुपाधिब्रह्मतत्त्वगोचरं विज्ञानं मन्वान आक्षिपति –
ननु विज्ञेयं ब्रह्मेति ।
सावयवस्य ह्यवयवानां भेदात्तदवयवविशिष्टब्रह्मगोचराणि विज्ञानानि गोचरभेदाद्भिद्येरन्नित्यवयवा ब्रह्मणो निराकृताः पूर्वापरादीत्यनेन ।
नच नानास्वभावं ब्रह्म यतः स्वभावभेदाद्भिन्नानि ज्ञानानीत्युक्तम् –
एकरसमिति ।
घनङ्कठिनम् ।
नन्वेकमप्यनेकरूपं लोके दृष्टं, यथा सोमशर्मैकोऽप्याचार्यो मातुलपिता पुत्रो भ्राता भर्ता जामाता द्विजोत्तम इत्यनेकरूप इत्यत उक्तम् –
एकरूपत्वाच्च ।
एकस्मिन् गोचरे सम्भवन्ति बहूनि विज्ञानानि न त्वनेकाकारणीत्युक्तम् –
अनेकरूपाणि ।
रूपमाकारः ।
समाधत्ते –
उच्यते सगुणेति ।
तत्तद्गुणोपाधानब्रह्मविषया उपासनाः प्राणादिविषयाश्च दृष्टादृष्टक्रमुक्तिफला विषयभेदाद्भिद्यन्त इत्यर्थः ।
तत उपपन्नो विमर्श इत्याह –
तेष्वेषा चिन्ता ।
पूर्वपक्षं गृह्णाति –
तत्रेति ।
नाम्नस्तावदिति ।
अस्ति “अथैष ज्योति एतेन सहस्रदक्षिणेन यजेत” इति । तत्र संशयः किं यजेतेति संनिहितज्योतिष्टोमानुवादेन सहस्रदक्षिणालक्षणगुणविधानम् , उतैतद्गुणविशिष्टकर्मान्तरविधानमिति । किं तावत्प्राप्तम् , ज्योतिष्टोमस्य प्रक्रान्तत्वाद्यजेतेति तदनुवादाज्ज्योतिरिति प्रातिपदिकमात्रं पठित्वा एतेनेत्यनुकृष्य कर्मसामानाधिकरण्येन कर्मनामव्यवस्थापनात् , कर्मणश्चानुवाद्यत्वेन तत्तन्त्रस्य नाम्नोऽपि तथैव व्यवस्थापनात् , ज्योतिःशब्दस्य “वसन्ते वसन्ते ज्योतिषा” इति च ज्योतिष्टोमे योगदर्शनात्नामैकदेशेन च नामोपलक्षणस्य लोकसिद्धत्वाद्भीमसेनोपलक्षणभीमपदवत् , अथशब्दस्य चानन्तर्यार्थस्यासम्बन्धित्वेऽनुपपत्तेः, गुणविशिष्टकर्मान्तरविधेश्च गुणमात्रविधानस्य लाघवात् , द्वादशशतदक्षिणायाश्चोत्पत्त्यशिष्टतया समशिष्टतया सहस्रदक्षिणया सह विकल्पोपपत्तेः, प्रकृतस्यैव ज्योतिष्टोमस्य सहस्रदक्षिणालक्षणगुणविधानार्थमयमनुवादो न तु कर्मान्तरमिति प्राप्तम् । एवं प्राप्त उच्यते भवेत्पूर्वस्मिन् गुणविधिर्यदि तदेव प्रकरणं स्यात् । विच्छिन्नं तु तत् । तथाहि संनिधावपि पूर्वासम्बद्धार्थं संज्ञान्तरं प्रतीयमानम् “अन्यायश्चानेकार्थत्वम्” इति न्यायादुत्सर्गतोऽर्थान्तरार्थत्वात्पूर्वबुद्धिं व्यवच्छिनत्त्यपूर्वबुद्धिं च प्रसूत इति लोकसिद्धम् । न जातु देहि देवदत्ताय गामथ देवाय वाजिनमिति देवशब्दाद्देवदत्तं वाजिभाजमवस्यन्ति लौकिकाः । तथा चोपरिष्टात् ‘यजेत’ इति श्रूयमाणमसम्बद्धार्थपदव्यवायात्तत्कर्मबुद्धिमनादधत्तत्र गुणविधानमात्रासमर्थं कर्मान्तरमेव विधत्ते । न चैकत्रानुपपत्त्या लक्षणया ज्योतिःशब्दो ज्योतिष्टोमे प्रवृत्त इत्यसत्यामनुपपत्तौ लाक्षणिको युक्तः । नहि गङ्गायां घोष इत्यत्र गङ्गापदं लाक्षणिकमिति मीनो गङ्गायामित्यत्रापि लाक्षणिकं भवति । भेदेऽपि च प्रथमं संज्ञान्तरेणोल्लिखिते यजिशब्दसामानाधिकरण्यं कर्मनामधेयतामात्रतामावहति नतु संज्ञान्तरोपजनितां भेदधियमपनेतुमुत्सहते । तथा चाथशब्दोऽधिकारार्थः प्रकरणान्तरतामवद्योतयति । एषशब्दश्चाधिक्रियमाणपरामर्शक इति सोऽयं संज्ञान्तराद्भेद इति ।
भवतु संज्ञान्तरात्कर्मभेदः प्रस्तुते तु किमायातमित्यत आह –
अस्ति चात्र वेदान्तान्तरविहितेष्विति ।
यथैव काठकादिसमाख्या ग्रन्थे प्रयुज्यन्त एवं ज्ञानेऽपि लौकिकाः । न चास्ति विशेषो यतो ग्रन्थे मुख्याविज्ञाने गौणी भवेत् । प्रणयनं च ग्रन्थज्ञानयोरभिन्नं प्रवृत्तिनिमित्तम् । तस्माज्ज्ञानस्यापि वाचिका समाख्या । तथाच यदा ज्योतिष्टोमसंनिधौ श्रूयमाणं समाख्यान्तरं तत्प्रतीकमपि कर्मणो भेदकं तदा कैव कथा शाखान्तरीये विप्रकृष्टतमेऽतत्प्रतीकभूतसमाख्यान्तराभिधेये ज्ञात इति । तथा रूपभेदोऽपि कर्मभेदस्य प्रतिपादकः प्रसिद्धो यथा “वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्” इत्येवमादिषु । इदमाम्नयते “तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा” इति । अत्र हि द्रव्यदेवतासम्बन्धानुमितो यागो विधीयते । तदनन्तरं चेदमाम्नायते “वाजिभ्यो वाजिनम्” इति । अत्रेदं सन्दिह्यते किं पूर्वस्मिन्नेव कर्मणि वाजिनं गुणो विधीयते उत कर्मान्तरं द्रव्यदेवतान्तरविशिष्टमपूर्वं विधीयत इति । किं तावत्प्राप्तम् , द्रव्यदेवतान्तरविशिष्टकर्मान्तरविधौ विधिगौरवप्रसङ्गात्कर्मान्तरापूर्वान्तरकल्पनागौरवप्रसङ्गाच्च न कर्मान्तरविधानमपि तु पूर्वस्मिन्नेव कर्मणि वाजिनद्रव्यविधिः । न चोत्पत्तिशिष्टमिक्षागुणावरोधात्तत्र वाजिनमलब्धावकाशं कर्मान्तरं गोचरयतीति युक्तम् । उभयोरपि वाक्ययोः समसमयप्रवृत्तेरामिक्षावाजिनयोरुत्पत्तौ समं शिष्यमाणत्वेन नामिक्षायाः शिष्टत्वम् । तत्कथमनयावरुद्धं कर्म न वाजिनं निविशेत् । न च वैश्वदेवीत्यत्र श्रौत आमिक्षासम्बन्धो विश्वेषां देवानां येन वाजिनसम्बन्धाद्वाक्यगम्याद्बलवान्भवेदुभयोरपि पदान्तरापेक्षप्रतीतितया वाक्यगम्यत्वाविशेषात् । नो खलु वैश्वदेवीत्युक्ते आमिक्षापदानपेक्षामामिक्षामध्यवस्यामः । अस्तु वा श्रौतत्वं तथापि वाजिभ्य इति पदं वाजमन्नमामिक्षा तदेषामस्तीति व्युत्पत्त्या तत्सम्बन्धिनो विश्वान्देवानुपलक्षयति । यद्यपि विश्वदेवशब्दाद्वाजिपदं भिन्नं, येन च शब्देन चोदना तेनैवोद्देशे देवतात्वं न शब्दान्तरेणान्यथार्थैकत्वेन सूर्यादित्यपदयोः सूर्यादित्यचर्वोरेकदैवत्यप्रसङ्गात् , तथापि वाजिन्नितीनेः सर्वनामार्थे स्मरणात्संनिहितस्य च सर्वनामार्थत्वात् , विश्वेषां देवानां च विश्वदेवपदेन संनिधापनात्तत्पदपुरःसरा एवैते वाजिपदेनोपस्थाप्या न तु सूर्यादित्यपदवत्स्वतन्त्राः । तथाच तदुपलक्षणार्थं वाजिपदं विश्वदेवोपहितामेव देवतामुपलक्षयतीति न शब्दान्तरोद्देवताभेदः । ततश्चामिक्षासम्बन्धोपजीवनेन विश्वेभ्यो वाजिनं विधीयमानं नामिक्षया बाध्यते किन्तु तया सह समुच्चीयत इति न कर्मान्तरमपि तु वाक्याभ्यां द्रव्ययुक्तमेकं कर्म विधीयत इति प्राप्त उच्यते स्यादेतदेवं यदि वैश्वदेवीति तद्धितश्रुत्यामिक्षा नोच्येत । तद्धितस्य त्वस्येति सर्वनामार्थे स्मरणात्संनिहितस्य च विशेष्यस्य सर्वनामार्थत्वात्तत्रैव तद्धितस्यापि वृत्तिर्नतु विश्वेषु देवेषु । न तत्सम्बन्धे, नापि तत्सम्बन्धिमात्रे । नन्वेवं सति कस्माद्वैश्वदेवीशब्दमात्रादेव नामिक्षां प्रतीमः किमिति चामिक्षापदमपेक्षामहे । तद्धितान्तस्य पदस्याभिधानापर्यवसानान्न प्रतीमस्तत्पर्यवसानाय चापेक्षामहे । अवसिताभिधानं हि पदं समर्थमर्थधियमाधातुम् । इदं तु संनिहितविशेषाभिधायि तत्संनिधिमपेक्षमाणं संनिधापकमामिक्षापदमपेक्षत इति कुत आमिक्षापदानपेक्ष आमिक्षाप्रत्ययप्रसङ्गः । कुतो वा तत्रानपेक्षा । अतश्च सत्यामपि पदान्तरापेक्षायां यत्पदं पदान्तरापेक्षमभिधत्ते तत्प्रमाणभूतप्रथमभाविपदावगम्यत्वाच्छ्रौतं बलीयश्च । यत्तु पर्यवसिताभिधानपदाभिहितपदार्थावगमगम्यं तत्तच्चरमप्रतीतिवाक्यगम्यं दुर्बलं चेति तद्धितश्रुत्यवगतामिक्षालक्षणगुणावरोधात्पूर्वकर्मासंयोगि वाजिनद्रव्यं ससम्बन्धि पूर्वस्माद्भिनत्ति । एवंच सति नित्यवदवगतानपेक्षसाधनभावामिक्षा न वाचिनद्रव्येण सह विकल्पसमुच्चयौ प्राप्स्यति । नचाश्वत्वे निरूढत्वादनपेक्षवृत्ति वाजिपदं कथञ्चिद्यौगिकं सापेक्षावृत्ति विश्वदेवशब्दां देवतां वैश्वदेवीपदादामिक्षाद्रव्यं प्रत्युपसर्जनीभूतामवगतामुपलक्षयिष्यति । प्रकृतं हि सर्वनामपदगोचरः । प्रधानं च प्रकृतमुच्यते नोपसर्जनम् । प्रामाणिके च विधिकल्पनागौरवे अभ्युपेतव्ये एव प्रमाणस्य तत्त्वविषयत्वात् । तस्माद्यथेह पूर्वकर्मासम्भविनो गुणात्कर्मभेद एवमिहापि पञ्चाग्निविद्यायाः षडग्निविद्या भिन्ना, एवं प्राणसंवादेषूनाधिकभावेन विद्याभेद इति । तथा धर्मविशेषोऽपि कर्मभेदस्य प्रतिपादक इति । तथाहि कारीरीवाक्यान्यधीयानास्तैत्तिरीया भूमौ भोजनमाचरन्ति नाचरन्त्यन्ये । तथाग्निमधीयानाः केचिदुपाध्यायस्योदकुम्भमाहरन्ति नाहरन्त्यन्ये । तथाश्वमेधमधीयानाः केचिदश्वस्य घासमानयन्ति नानयन्त्यन्ये । केचित्त्वाचरन्त्यन्यमेव धर्मम् । नच तान्येव कर्माणि भूमिभोजनादिजनितमुपकारमाकाङ्क्षन्ति नाकाङ्क्षन्ति चेति युज्यते । अतोऽवगम्यते भिन्नानि तासु शाखासु कर्माणीति ।
अस्तु प्रस्तुते किमायातमित्यत आह –
अस्ति चात्रेति ।
अन्येषां शाखिनां नास्तीति शेषः ।
एवं पुनरुक्त्यादयोऽपीति ।
“समिधो यजति” इत्यादिषु पञ्चकृत्वोऽभ्यस्तो यजतिशब्दः । तत्र किमेका कर्मभावना किंवा पञ्चैवेति । किं तावत्प्राप्तं, धात्वर्थानुबन्धभेदेन शब्दान्तराधिकरणे भावनाभेदाभिधानाद्धात्वर्थस्य च धातुभेदमन्तरेण भेदानुपपत्तेः “समिधो यजति” इति प्रथमभाविना वाक्येन विहिता कर्मभावना विपरिवर्तमानोपरितनैर्वाक्यैरनूद्यते । नच प्रयोजनाभावादननुवादः प्रमाणसिद्धस्याप्रयोजनस्याननुयोज्यत्वात् । कर्मभावनाभेदे चानेकापूर्वकल्पनाप्रसङ्गादेकापूर्ववान्तरव्यापारमेकं कर्मेति प्राप्तम् । एवं प्राप्त उच्यते - परस्परानपेक्षाणि हि समिदादिवाक्यानीति । सर्वाण्येव प्राथम्यार्हाण्यपि युगपदध्ययनानुपपत्तेः क्रमेणाधीतानीति । न त्वयमेषां प्रयोजकः क्रमः । परस्परापेक्षाणामेकवाक्यत्वे हि प्रयोजकः स्यात् । तेन प्राथम्याभावात्प्राप्तमित्येव नास्तीति कस्य कोऽनुवादः । कथञ्चिद्विपरिवृत्तिमात्रस्यौत्सर्गिकाप्रवृत्तप्रवर्तनालक्षणविधित्वापवादसामर्थ्याभावात् । गुणश्रवणे हि गुणविशिष्टकर्मविधाने विधिगौरवभिया गुणमात्रविधानलाघवाय कर्मानुवादापेक्षायां विपरिवृत्तेरुपकारः । यथा “दध्ना जुहोति” इति दधिविधिपरे वाक्ये विपरिवृत्त्यपेक्षायाम् “अग्निहोत्रं जुहोति” इति विहितस्य होमस्य विपरिवर्तमानस्यानुवादः । न चात्र गुणाद्भेदः, समिदादिपदानां कर्मनामधेयानां गुणवचनत्वाभावात् । अगृह्यमाणविशेषतया च किंवचनविहितकिङ्कर्मानुवादेन कस्य गुणविधित्वमिति न विनिगम्यते । न चापूर्वा नाम ज्योतिरादिवद्विधानसम्बन्धं प्रथममवगतं, यतः पूर्वबुद्धिविच्छेदेन विधीयमानं कर्म पूर्वस्मात्संज्ञातो व्यवच्छिन्द्यात् । किन्तु प्रथमत एव कर्मसामानाधिकरण्येनावगताः समिदादयस्तद्वशात्कर्मनामधेयतां प्रतिपद्यमाना आख्यातस्यानुवादत्वेऽनुवादा विधित्वे विधयो न तु स्वातन्त्र्येण कस्यचिदीशते । तस्मात्स्वरससिद्धाप्राप्तकर्मविधिपरत्वात्कर्मण्ययमभ्यासो भावनानुबन्धभूतानि भिन्दानो भावनां भिनत्ति यथा तथा शाखान्तरविहिता अपि विद्याः शाखान्तरविहिताभ्यो विद्याभ्योऽभ्यासो भेत्स्यतीति । अशक्तेश्च । नह्येकः पुरुषः सर्ववेदान्तप्रत्ययात्मिकामुपासनामुपसंहर्तुं शक्नोति सर्ववेदान्ताध्ययनासामर्थ्यादनधीतार्थोपसंहारेऽध्ययनविधानवैयर्त्यप्रसङ्गात् । प्रतिशाखं भेदे तूपासनानां नायं दोषः । समाप्तिभेदाच्च । केषाञ्चित्शाखिनामोङ्कारसार्वात्म्यकथने समाप्तिः । केषाञ्चिदन्यत्र । तस्मादप्युपासनाभेदः । अन्यार्थदर्शनादपि भेदः । तथाहि “नैतदचीर्णव्रतोऽधीते” इति अचीर्णव्रतस्याध्ययनाभावदर्शनादुपासनाभावः । क्वचिदचीर्णव्रतस्याध्ययनदर्शनादुपासनावगम्यते । तस्मादुपासनाभेद इति ।
अत्र सिद्धान्तमाह –
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ।
तद्व्याचष्टे –
सर्ववेदान्तप्रत्ययानि सर्ववेदान्तप्रमाणानि विज्ञानानि तस्मिंस्तस्मिन् वेदान्ते तानि तान्येव भवितुमर्हन्ति ।
यान्येकस्मिन् वेदान्ते तान्येव वेदान्तान्तरेष्वपीत्यर्थः । चोदनाद्यविशेषात् । आदिशब्देन संयोगरूपाख्याः सङ्गृह्यन्ते । अत्र च चोद्यत इति चोदना पुरुषप्रयत्नः । स हि पुरुषस्य व्यापारः । तत्र खल्वयं होमादिधात्वर्थावच्छिन्ने प्रवर्तते । तस्य देवतोद्देशेन त्यागस्यासेचनादिकस्यावच्छेद्यः पुरुषप्रयत्नः स एव शाखान्तरे यथैवमिहापि प्राणज्येष्ठत्वश्रेष्ठत्ववेदनविषयः पुरुषप्रयत्नः स एव शाखान्तरेष्वपीति । एवं फलसंयोगोऽपि ज्येष्ठश्रेष्ठभवनलक्षणः स एव । रूपमपि तदेव । यथा यागस्य यदेकस्यां शाखायां द्रव्यदेवतारूपं तदेव शाखान्तरेष्वपीति । एवं वेदनस्यापि यदेकत्र प्राणज्येष्ठत्वश्रेष्ठत्वरूपं विषयस्तच्छाखान्तरेष्वपीति ॥ १ ॥
कञ्चिद्विशेषमिति ।
युक्तं यदग्नीषोमीयस्योत्पन्नस्य पश्चादेकादशकपालत्वादिसम्बन्धेऽप्यभेद इति । यथोत्पन्नस्य तस्य सर्वत्र प्रत्यभिज्ञायमानत्वादिह त्वग्निषूत्वपत्तिगत एव गुणभेद इति कथं वैश्वदेवीवन्न भेदक इति विशेषः ।
तमिमं विशेषमभिप्रेत्याशङ्कते सूत्रकारः –
भेदान्नेति चेदिति ।
परिहारः सूत्रावयवः ।
न एकस्यामपीति ।
पञ्चैव साम्पादिका अग्नयो वाजसनेयिनामपि छान्दोग्यानामिव विधीयन्ते । षष्ठस्त्वग्निः सम्पद्व्यतिरेकायानूद्यते न तु विधीयते । वैश्वदेव्यां तूत्पत्तौ गुणो विधीयत इति भवतु भेदः । अथवा छान्दोग्यानामपि षष्ठोऽग्निः पठ्यत एव । अथवा भवतु वाजसनेयिनां षष्ठाग्निविधानं मा च भूच्छान्दोग्यानां तथापि पञ्चत्वसङ्ख्याया अविधानान्नोत्पत्तिशिष्टत्वं सङ्ख्यायाः किन्तूत्पन्नेष्वग्निषु प्रचयशिष्टा सङ्ख्यानूद्यते साम्पादिकानग्नीनवच्छेतुं, तेन येषामुत्पत्तिस्तेषां प्रत्यभिज्ञानात् । अप्रत्यभिज्ञायमानायाश्च सङ्ख्याया अनुवाद्यत्वेनानुत्पत्तेर्विधीयमानस्य चाधिकस्य षोडशिग्रहणवद्विकल्पसम्भवान्न शाखान्तरे ज्ञानभेदः । उत्पत्तिशिष्टत्वेऽसिद्धे प्राणसंवादादयोऽपि भवन्ति प्रत्यभिज्ञानादभिन्नास्तासु तासु शाखास्विति ॥ २ ॥
स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियमः ।
यैराथर्वणिकग्रन्थोपाया विद्या वेदितव्यां तेषामेव शिरोव्रतपूर्वाध्ययनप्राप्तग्रन्थबोधिता फलं प्रयच्छति नान्यथा । अन्येषां तु छान्दोग्यादीनां सैव विद्या चीर्णशिरोव्रतानां फलदेत्याथर्वणग्रन्थाध्ययनसम्बन्धादवगम्यते । तत्सम्बन्धश्च वेदव्रतेनेति “नैतदचीर्णव्रतोऽधीते” इति समाम्नानादवगम्यते । “तेषामेवैतां ब्रह्मविद्यां वदेत”(मु. उ. ३ । २ । १०) इति विद्यासंयोगेऽप्येतामिति प्रकृतपरामर्शिना सर्वनाम्नाध्ययनसम्बन्धाविरोधादाथर्वविहितैव विद्योच्यत इति । सवा होमाः सप्त सौर्यादयः शतौदनान्ता आथर्वणिकानां त एकस्मिन्नेवाथर्वणिकेऽग्नौ क्रियन्ते न त्रेतायाम् ॥ ३ ॥
विद्यैकत्वम् –
दर्शयति च ।
भूयोभूयो विद्यैकत्वस्य वेददर्शनाद्यत्रापि सगुणब्रह्मविद्यानां न साक्षाद्वेद एकत्वमाह तासामपि तत्प्रायपठितानां तद्विधानां प्रायदर्शनादेकत्वमेव । तथाह्यग्र्यप्राये लिखितं दृष्ट्वा भवेदयमग्र्य इति बुद्धिरिति । यच्च काठकादिसमाख्ययोपासनाभेद इति तदयुक्तम् । एता हि पौरुषेय्यः समाख्याः काठकादिप्रवचनयोगात्तासां शाखानां न तूपासनानाम् । नह्येताः कठादिभिः प्रोक्ता नच कठाद्यनुष्ठानमासामितरानुष्ठानेभ्यो विशेष्यते । नच कठप्रोक्तानिमित्तमात्रेण ग्रन्थे प्रवृत्तौ तद्योगाच्च कथञ्चिल्लक्षणयोपासनासु प्रवृत्तौ सम्भवन्त्यामुपासनाभिधानमप्यासां शक्यं कल्पयितुम् । नच तद्भेदाभेदौ ज्ञानभेदाभेदप्रयोजकौ, मा भूद्यथास्वमासामभेदाज्ज्ञानानामेकशाखागतानामैक्यम् । कठादिपुरुषप्रवचननिमित्ताश्चैताः समाख्याः कठादिभ्यः प्राक्नासन्निति तन्निबन्धनो ज्ञानभेदो नासीदिदानीं चास्तीति दुर्घटमापद्येत । तस्मान्न समाख्यातो भेदः । अभ्यासोऽपि नात्र भेदकः । युक्तं यदेकशाखागतो यजत्यभ्यासः समिदादीनां भेदक इति । तत्र हि विधित्वमौत्सर्गिकमज्ञातज्ञापनमप्रवृत्तप्रवर्तनं च कुप्येयाताम्ऽशाखान्तरे त्वध्येतृपुरुषभेदादेकत्वेऽपि नौत्सर्गिकविधित्वव्याकोप इति । अशक्तिरपि न भेदहेतुः स्वाध्यायोऽध्येतव्य इति स्वशाखायामध्ययननियमः । ततश्च शाखान्तरीयानर्थानन्येभ्यस्तद्विद्येभ्योऽधिगम्योपसंहरिष्यति । समाप्तिश्चैकस्मिन्नपि तत्सम्बन्धिनि समाप्ते तस्य व्यपदिश्यते । यथाध्वर्यवे कर्मणि ज्योतिष्टोमस्य समाप्तिं व्यपदिशन्ति “ज्योतिष्टोमः समाप्तः” इति तस्मात्समाप्तिभेदोऽपि न साधनमुपासनाभेदस्य । तदेवमसति बाधके चोदनाद्यविशेषात्सर्ववेदान्तप्रत्ययानि कर्माणि तानि तान्येवेति सिद्धम् ॥ ४ ॥
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥१॥ द्वितीये पादे तत्त्वंपदार्थौ परिशोधितौ , इदानीमपुनरुक्तापेक्षितपदार्थोपसंहारेण सगुणनिर्गुणब्रह्मवाक्यानामर्थोऽवधार्यते । सगुणवाक्यार्थचिन्ता तु तद्विद्यानां सत्त्वशुद्धिद्वारा निर्गुणविद्योपयोगात् । पदार्थोपसंहारेण वाक्यार्थावधारणार्थं च सगुणविद्यानामभेदचिन्ता , भेदचिन्ता तु तदपवादत्वेन । निर्गुणविद्यायां तु विद्याभेदादैक्यं सिद्धमेवेति तन्न विचार्यते । गुणोपसंहारस्तु आनन्दादय इत्याद्यधिकरणै (व्या.सू.अ.३.पा.३ सू.११) र्लक्ष्याखण्डवाक्यार्थसिद्ध्यर्थवाक्यार्थोपसंहाररूपो वर्णयिष्यते । तदेतत्सर्वमभिसंधायाह –
पूर्वेणेति ।
अत्राक्षेपभाष्यं - ‘ननु विज्ञेयं ब्रह्म पूर्वापरादिभेदरहितमेकरसं सैन्धवधनवदवधारितमित्या’दि , तदनुपपन्नमिव ; सगुणब्रह्मणो नानारसत्वेन तद्विज्ञानभेदाभेदचिन्तायाः संभवात् ।
अत आह –
निरुपाधीति ।
पूर्वापरादिभेदरहितमेकरसमिति च विशेषणद्वयस्यापुनरुक्तमर्थमाह –
सावयवस्य हीत्यादिना ।
अवयविनि ह्यवयवाः पूर्वापरभावेन वर्तन्ते अतस्तन्निषेधात्सावयवत्वनिषेधः । एकरसमित्यनेकधर्मवत्त्वनिषेध इत्यर्थः । स्वभावो धर्मः ।
भाष्यगतधनशब्दार्थमाह –
कठिनमिति ।
अच्छिद्रत्वात् रसान्तररहितमित्यर्थः ।
अवयवभेदं धर्मभेदं च निरस्यापेक्षिकभेदमाशङ्क्य तन्निषेध एकरूपत्वविशेषणेन क्रियत इत्याह –
नन्वेकमपीत्यादिना ।
भाष्ये एकत्वादित्यनेन प्राङ् निषिद्धावयवधर्मभेदे निषेधानुवादः ।
नन्वनेकरूपाणि ज्ञानानीत्यत्र रूपग्रहणं व्यर्थम् , अनेकानीत्येवोच्यताम् , अत आह –
एकस्मिन् गोचर इति ।
ननु ज्ञानस्य गुणस्य कथमनेकरूपत्वप्राप्तिरत आह –
रूपमाकार इति ।
नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरे कर्मभेदः स्या (जै.सू.अ.२.पा.४.सू.८) दिति शाखान्तराधिकरणपूर्वपक्षसूत्रम् । तत्र निन्देति उदितहोमानुदितहोमनिन्दोच्यते । ‘‘प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रं दिवा कीर्त्यमदिवा कीर्तयन्तः सूर्यो ज्योतिर्न तदा ज्योतिरेषा’’ मित्यनुदितहोमनिन्दा । ‘‘यथाऽतिथये प्रदुतायान्नं हरेयुस्तादृक् तद्यदुदिते जुह्वती’’ त्युदितहोमनिन्दा । प्रद्रुताय निर्गतायेत्यर्थः । ततश्च एकस्य विरुद्धकालद्वयासम्भवात्कर्मभेदः । प्रायाश्चित्तमुदितानुदितहोमव्यतिक्रमे । तत्र निन्दाप्रायश्चित्ते वेदान्तगतविद्यासु न स्त इति नोदाह्रियेते ।
इतरे ये नामादयो भेदहेतवस्तदुपन्यासार्थं नाम्नस्तावदित्यादिभाष्यं , तद्व्याचष्टे –
अस्त्यथैष ज्योतिरित्यादिना ।
ननु यजेतेति प्रकृतव्योतिष्टोमानुवादोऽनुपपन्नः ; नाम्नैव तद्बुद्धिविच्छेदादत आह –
ज्योतिरितीति ।
ज्योतिरिति हि प्रातिपदिकमात्रम् , न त्वस्य नामत्वमभिव्यक्तम् । एतेनेत्यमुमनुकृष्य यजेतेत्याख्यातवाच्यकर्मसामानाधिकरण्यात्तु नामत्वाभिव्यक्तिः । तथा चाख्यातपारतन्त्र्याद्यद्याख्यातं कर्म विदधीत , तर्हि नामापि तद्वदेदथ त्वनुवदेत्तर्हि नामापि तदनुवदिष्यतीत्यप्रयोजकमिह नाम भेदाभेदयोः । ततश्चाख्यातार्थ एव चिन्त्य इत्यर्थः । उक्तं हि – प्रायेणाख्यातसम्बन्धि नामेष्टं पारतन्त्र्यभाक् । तस्यैव प्रथमं तेन भेदाभेदनिमित्ततः ॥ इति । ज्योतिरिति कर्मसामानाधिकरण्येन कर्मनामव्यवस्थापनादित्यादिहेतूनां सहस्रदक्षिणागुणविधानार्थोऽयमनुवाद इति वक्ष्यमाणप्रतिज्ञया संबन्धः ।
अथ शब्दस्य चेति ।
आनन्तर्यं हि पूर्ववृत्तापेक्षं गुणविधिपक्षे चाश्रयदानार्थमस्ति ज्योतिष्टोमापेक्षा न कर्मान्तरत्वे । न हि क्रतुः क्रत्वन्तरमपेक्षत इत्यर्थः ।
ननु द्वादशशतं दक्षिणेति ज्योतिष्टोमे द्वादशशतं गावो दक्षिणा तद्विरुद्धं सहस्रदक्षिणाविधानमित्यत आह –
द्वादशशतेति ।
उत्पत्तिः कर्मस्वरूपज्ञापनं तन्मध्ये विहितमुत्पत्तिशिष्टं , कर्मस्वरूपज्ञापनोत्तरकालविहितमुत्पन्नशिष्टम् । तत्र द्वादशशतं दक्षिणा यद्युत्पत्तौ श्रूयेत , तर्हि बलवत्त्वात् सहस्रदक्षिणां बाधेत , न त्वेवमस्त्युभयोरपि कर्मज्ञापनोत्तरकालं श्रुतत्वादित्यर्थः । अन्यायश्चानेकार्थत्वमिति न्यायादिति दृष्टान्तोक्तिरियम् । यथाऽनेकार्थत्वमेकस्य शब्दस्यान्याय एवमेकस्यार्थस्यान्याय्यमनेकशब्दत्वमित्यपि न्यायस्ततो ज्योतिष्टोमज्योतिःशब्दौ नैकस्य कर्मणो वाचकावित्यर्थः ।
ननु वसन्तवाक्ये ज्योतिष्टोमवाक्ये च ज्योतिर्ज्योतिष्टोमशब्दयोरेकार्थत्वादनेकशब्दत्वमपि क्वचिदाश्रितमत आह –
उत्सर्गत इति ।
असम्बद्धार्थपदव्यवायादिति पूर्वेणासम्बद्धार्थवता ज्योतिः पदेन व्यवधानादित्यर्थः ।
यत्तु वसन्तादिवाक्ये ज्योतिःशब्द एकदेशान्तरलक्षणार्थे दृष्ट एवमत्रापीति , तत्राह –
न चैकत्रेति ।
वसन्तादिवाक्ये हि ज्योतिषा यजेतेत्याख्याततन्त्रा संज्ञा , आख्यातं च कालादिविधिसंक्रान्तमिति पूर्वकर्मानुवदेत् , एषा तु प्रथमान्तत्वादतत्तन्त्रेति प्रकृतकर्मबुद्धिं विच्छिनतीत्यर्थः ।
यत्तु ज्योतिरिति प्रातिपदिकमुच्चार्यैतेनेति परामृश्य यजेतेति विधानाद् नामधेयं ज्योतिःशब्द इति , तदोमिति ब्रूमः ; तस्यैव नाम्नः कर्मान्तरवाचकत्वादित्याह –
भेदेऽपि चेति ।
अपिचेति समुच्चये । यथा नामधेयत्वमेवं भेदोऽपि प्रथममुल्लिखित इत्यर्थः ।
ननु कठेन प्रणीतत्वादध्यपितत्वाद्वा काठकमुच्यते , न विद्या प्रणीयते , तस्या अशाब्दत्वादत आह –
प्रणयनं चेति ।
प्रणयनं शिष्येभ्यो नयनमुपदेशः स ज्ञानेऽपि अविशिष्ट इत्यर्थः ।
ज्योतिःसंज्ञायाः सकाशात् काठकत्वादिसंज्ञाया भेदकत्वातिशयमाह –
तथा चेति ।
ज्योतिष्टोमस्य सन्निधो श्रुतत्वात्तदनुवादकत्वेन तन्नामैकदेशत्वेन च संभाव्यमानमपि ज्योतिरिति नाम यदा कर्मभेदकं , तदा शाखान्तरस्थत्वेन दूरस्थं संपूर्णं च काठकादिनामातितरां ज्ञानभेदकमित्यर्थः । अतत्प्रतीकभूतेति च्छेदः ।
तथा रूपभेदोऽपीत्यादिभाष्यमुपात्तं , तद्व्याचष्टे –
इदमाम्नायत इत्यादिना ।
नन्विह सिद्धानुवादमात्रं स आमिक्षेति प्रतीयते , न विधिः , तत्र कथं कर्मभेदाभेदचिन्तावकाशः ? तत्राह –
द्रव्यदेवतेति ।
वाजिनं गुणो विधीयत इति ।
यद्यप्यत्र वाजिनं देवता च गुणो विधीयते इति वक्तुं शक्यम् ; तथापि प्राप्ते कर्मण्यनेकगुणविध्यसंभवाद् द्रव्यमात्रविधिरुक्तः । वाजिपदेन तु विश्वेदेवा अभिधीयन्ते इति वक्ष्यति , सिद्धान्ते तु विशिष्टविधित्वादप्राप्तं कर्मानेकगुणविशिष्टं विधातुं शक्यमिति मत्वा द्रव्यदेवतान्तरविशिष्टमपूर्वकर्म विधीयते इत्युक्तम् ।
विशिष्टविधौ कर्म विधातव्यम् , विशेषणभूतं द्रव्यं देवता चेति गौरवमित्याह –
विधिगौरवेति ।
यदाऽऽमिक्षायागाद्वाजिनयागः कर्मान्तरं विधीयते , तदा तत्तावत् कल्प्यं तच्चान्यपूर्वं च कल्पनीयमित्याह –
कर्मान्तरापूर्वान्तरेति ।
ननु वैश्वदेव्यामिक्षेत्यत्र यागविधिप्रतीतिसमय एवाऽऽमिक्षा यागान्विता प्रतीयते , वाजिनं तु वाक्यान्तरेणाऽत उत्पत्तिशिष्टामिक्षाऽवरुद्धे कर्मणि वाजिनं दुर्बलमवकाशमलभमानं कर्मान्तरं गमयतीत्याशङ्क्याह –
न चोत्पत्तिशिष्टेति ।
किमिति न युक्तमत आह –
उभयोरपीति ।
अयमभिप्रायः - अत्र ह्यामिक्षायां वाजिने वा न प्रत्यक्षं विधिमुपलभामहे , न्यायबलात्तु कल्पयेमहि । तत्र वैश्वदेवीवाक्ये आमिक्षाविश्वेदेवसंबन्धः प्रतीयते , वाजिनवाक्ये तु वाजिनां तेषामेव विश्वेषां देवानां वाजिनस्य च संबन्धः । तत्र देवतैक्याद् द्रव्यद्वयस्य सहत्यागकल्पनया द्रव्यद्वययुक्तैकयागविधिरनुमीयते । तत्र कुत उत्पत्तिशिष्टत्वमामिक्षायाः ? कुतो वा वाजिनस्योत्पन्नशिष्टत्वमिति ? नन्वामिक्षावरुद्धयागस्य प्रथमं प्रत्यक्षविध्यभावेऽपि विश्वेदेवानां श्रौत आमिक्षासंबन्धः , तेषां पुनर्वाजिपदाभिधेयानां वाजिभ्यो वाजिनमिति वाक्यीयो वाजिनसम्बन्धः , स च श्रौतसम्बन्धाद्दुर्बल इति न विश्वे देवा वाजिनेन सम्बध्यन्ते ।
तत्र कर्मान्तरं वाजिभ्यो वाजिनमिति पदद्वयात्मकवाक्यगम्यं विधीयते , अत आह –
न च वैश्वदेवीत्यत्रेति ।
वैश्वदेव्यामिक्षेति पदद्वयात्मकवाक्यादेव विश्वेषां देवानामामिक्षासंबन्धः एवं वाजिनसंबन्धोऽपि तेषां वाजिभ्यो वाजिनमिति पदद्वयात्मकवाक्यगम्य इति तुल्यतेत्यर्थः ।
ननु वैश्वदेवीति तद्धितान्तपदश्रुतिमात्रादामिक्षासंबन्धो विश्वेषां देवानाम् अवगम्यत इत्याशङ्क्य तथा सत्यामिक्षापदवैयर्थ्यं स्यादित्याह –
नो खल्विति ।
ननु विश्वे देवा देवता अस्या इति तद्धितार्थः अस्या इति शब्देन च सन्निहिताऽऽमिक्षैवोच्यते , अतः श्रौतः एवामिक्षासंबन्धस्तत्राह –
अस्तु वेति ।
तत्संबन्धिनो विश्वान् देवानुपलक्षयतीति ।
उपलक्षितेषु चामिक्षासंबद्धेषु विश्वेषु देवेषु यत्फलिष्यति तत्ततश्चामिक्षासंबन्धोपजीवनेनेत्युपरितनग्रन्थे वक्ष्यति ।
ननु वाजिभ्य इति इन्प्रत्ययान्तं पदमामिक्षासंबन्धिनो विश्वेदेवानुपलक्षयितुं न शक्नोति , अधिकरणान्तरविरोधादित्याशङ्कते –
यद्यपीति ।
दशमे स्थितम् - विधिशब्दस्य मन्त्रत्वे भावः स्यात्तेन चोदना । (जै.सू.अ.१०.पा.४.सू.२३) दर्शपूर्णमासयोर्देवतापदान्याग्नेयादीनि सन्ति , सन्ति चाग्नेरभिधानानि लोकेऽग्निः पावक इत्यादीनि । तत्र संदेहः किं हविःप्रदानसमये येन केनचिदग्निवाचकपदेनाग्निरुद्देश्यः , उत विधिगताग्निपदेनैवेति । तत्रार्थरूपत्वाद्देवतात्वस्य तस्य च येन केनचिद्वाचकेन निर्देशसंभवादनियम इति प्राप्ते राद्धान्तः । सत्यमर्थात्मकं देवतात्वम् तत्तु न स्वर्गवासित्वादि संभवति ; मासेभ्यः स्वाहेत्यादौ मासादेरदेवतात्वप्रसङ्गात् , किंतु त्यज्यमानहविः प्रत्युद्देश्यत्वम् । उद्देशश्च हविः प्रति प्राधान्येन निर्देशः तत्राग्नेय इति विधिगतस्यैव मन्त्रत्वे देवताप्रकाशकत्वे भावो देवतात्वं हविस्त्यागकालेऽपि स्यात् ; तद्दितवर्त्यग्निशब्देन हविः प्रत्यग्नेः प्राधान्येन निर्देशाद्धविस्त्यागकालेऽपि तेनैव स निर्देश्यः । शब्दान्तरेण निर्देशे देवतात्वं न स्यात्तस्माद्विधिशब्दस्यैव मन्त्रत्वे देवताप्रकाशकत्वे भावः स्यात्तेन हि देवतामुद्दिश्य हविषश्चोदनेति । तत्र शब्दभेदेऽपि देवतैक्ये एतदधिकरणविरोध इत्यर्थः । यदि च शब्दभेदेऽपि देवतैक्यं , तर्हि सौर्त्यं चरुं निर्वपेदु ब्रह्मवर्चसकामः , आदित्यं चरुं निर्वपेदिति च सौर्यादित्यचर्वोरेकदेवतात्वं स्यादित्यर्थः ।
न चैतयोरेकदेवतात्वमेष्टुं शक्यम् ; सूर्याय जुष्टं निर्वपामीति , आदित्याय जुष्टं निर्वपामीति च सर्वसंमतानुष्ठानविरोधादिति आशङ्क्य परिहरति –
तथापीत्यादिना ।
तदस्यास्तीत्यर्थे हीनिप्रत्ययः स्मर्यते , अस्येति च सर्वनाम , तेन विश्वेदेवपदसन्निहितानां परामर्शान्न शब्दान्यत्वप्रयुक्तं देवतान्यत्वमित्यर्थः ।
आमिक्षासंबद्धविश्वदेवोपलक्षणे फलं वक्ष्यतीत्युक्तं , तत्राह –
ततश्चेति ।
वाक्येनैवामिक्षासंबन्धोपजीवनेन वाजिनविधानान्न वाजिनसंबद्धयाऽऽमिक्षया बाधितुं शक्यते ; श्रौतात्संबन्धाद्वाक्यीयः संबन्धो दुर्बल इति न्यायादवगन्तव्यम् । स च न्यायो वचनेन बाधिष्यत इत्यभिप्रायः । द्रव्यद्वयेन युक्तमेकं कर्म विधीयत इति यदवादिष्म वाजिनामिक्षयोः सहत्याग इति , तदिदमुत्थितम् ।
एवं च यत् संदेहप्रदर्शनावसरे उक्तं पूर्वस्मिन्नेव कर्मणि वाजिनं गुणो विधीयते इति तदापातप्रतिभानमादायाभिहितमिति विश्वेषां देवानामामिक्षासंबन्धस्य श्रौतत्वाद् वाजिनसंबन्धस्य च वाक्यीयत्वात् श्रुतिबलीयस्त्वन्यायमादाय सिद्धान्तयति –
स्यादेतदेवमित्यादिना ।
ननु तद्धित आमिक्षाविशिष्टान्विश्वान्देवानभिधत्ताम् , अथवा तेषामामिक्षासंबन्धमभिवदतु , यद्वा विश्वेषां देवानां यत्संबन्धिमात्रं तद्वा वक्तु , तथा च कुतोऽस्यामिक्षावाचकत्वमत आह – न तु विश्वेषु देवेष्वित्यादिना । अत्र सर्वत्र हेतुरुक्त एव सन्निहितविशेषस्य सर्वनामार्थत्वादिति ।
अथ यदुक्तं वैश्वदेवीपदादामिक्षाप्रतीतावामिक्षापदवैयर्थ्यमिति , तदनुभाषते –
नन्वेवं सतीति ।
उत्तरमाह –
तद्धितान्तस्येति ।
नात्र वैश्वदेवीपद एकस्मिन्नर्थे पर्यवसिते आमिक्षापदेन चापरस्मिन्नभिहिते तयोर्वैशिष्ठ्यं पदद्वयसमभिव्याहारादवगम्यते , किन्तु नामसन्निहितावलम्बिनः सर्वनाम्नोऽर्थः क इत्यज्ञायमान आमिक्षापदेन समर्प्यते , अतश्च यथाऽयं घट इत्युक्तेऽयमिति पदस्य सन्निहितावलम्बिनो विषयसन्निधापकप्रत्यक्षापेक्षायामपि न श्रुतित्वहानिरित्येवं तद्धितस्यापीत्यर्थः ।
एतदेव स्फुटीकरोति –
अवसिताभिधानं हीति ।
अवसिताभिधानत्वं नाम परिपूर्णविषयलाभः ।
द्वयं हि सर्वत्रापाद्यमभिमतविघातोऽनभिमतप्रसरश्चेति ।तत्रानभिमतप्रसरं वारयति –
कुत आमिक्षापदानपेक्ष इति ।
अभिमतविघातोऽपि नास्तीत्याह –
कुतो वेति ।
नन्वेवमामिक्षापदसापेक्षवैश्वदेवीपदादामिक्षासंबन्धो विश्वेषां देवानां गम्यते , तर्हि द्वे अपि पदे मिलित्वा प्रमाणं स्यात् , तथा च वाक्यत्वम् ।
अथ सत्यामप्यामिक्षापदापेक्षायां वैश्वदेवीपदमेव तत्र प्रमाणं , तर्ह्यामिक्षापदमेव किं न स्यादत आह –
अतश्चेति ।
यदिति द्वितीयान्तः शब्दः पदमिति च प्रथमान्तः । आमिक्षेत्युक्ते हि न क्वाप्यपेक्षाऽवभासते , वैश्वदेवीत्युक्ते त्वस्ति कासावित्यपेक्षा , अतो वैश्वदेवीपदमेव साकाङ्क्षमर्थमभिदधत् प्रमानम् , आमिक्षापदं तु तदीयार्थाभिधानकथंभावाकाङ्क्षापरिपूरकमितिकर्तव्यभावमनुभवतीति विनिगमकहेतुबलात् वैश्वदेवीपदमेव प्रमाणम् । ततश्च श्रुतित्वाद्वाक्यापेक्षया तत् प्रथमभावि , ततः पदान्तरापेक्षं वैश्वदेवीपदं यदामिक्षाविश्वदेवसंबन्धरूपं वस्त्वभिधत्ते ; तदुक्तप्रकारेण प्रमाणभूतप्रथमभाविवैश्वदेवीपदावगम्यत्वात् श्रौतं , ततश्च बलवदित्यर्थः ।
एतत्प्रकरवैपरीत्यं वाजिनविश्वदेवसंबन्धे दर्शयस्तस्य वाक्यीयतामाह –
यत्त्विति ।
वाजिभ्य इति वाजिनमिति च पदे पर्यवसिताभिधाने । यद्यपि वाजिपदं वैश्वदेवसापेक्षम् ; तथापि न वाजिनपदापेक्षम् । ततश्च पर्यवसिताभिधानाभ्यां पदाभ्यां यावभिहितौ पदार्थौ वाजिवाजिनरूपौ तदवगम्यं यद्विश्वदेववाजिनसंबन्धरूपं वस्तु तदामिक्षाविश्वदेवसंबन्धाच्चरमभावि , अतो वाक्यगम्यत्वेन दुर्बलमित्यर्थः ।
कर्मान्तरविधौ हेत्वन्तरमाह –
एवं चेति ।
पूर्वपक्षे हि विकल्पः समुच्चयो वा वक्तव्यः , स चायुक्तः ; नित्यवदवगतसाधनभावाया आमिक्षाया विकल्पायोगात् , अनपेक्षावगतसाधनभावायाश्च तस्याः समुच्चयायोगादित्यर्थः । नित्यमेवेति वक्तव्ये मृदूक्त्या वतिप्रयोगः ।
यत्तूक्तं वचनेनैव श्रुतिबलीयस्त्वन्याय (जै.सू.अ.३.पा.३.सू.१४) बाध इति तत्राह –
न चाश्वत्वे इति ।
विश्वे देवा इत्ययं शब्दो यस्याः सा तथोक्ता तां वैश्वदेवशब्दाम् । द्रव्यवचनादामिक्षाद्रव्यं प्रत्युपसर्जनभूतामवगतामेवं सति कर्मान्तरविधिपक्षे नोपलक्षयिष्यति उपलक्षणे हि नोपसर्जनन्यायबाधः स्यादित्यर्थः ।
ननूपसर्जनभूता अपि विश्वे देवा वाजिन इति तद्धितान्तर्वर्तिसर्वनाम्ना परामृश्यन्तां , सर्वनाम्नः सन्निहितगोचरत्वादत आह –
प्रकृतं हीति ।
यत्तु कर्मान्तरविधिपक्षे विधिगौरवमपूर्वकल्पनागौरवं चेति , तत्राह –
प्रामाणिके चेति ।
तत्त्वविषयत्वाद् यथार्थविपयत्वात् ।
एवं गुणात्कर्मभेदे व्यवस्थितमुदाहरणं दृष्टान्तमुक्त्वाऽत्रत्यपूर्वपक्षे गुणाज्ज्ञानभेदं दार्ष्टान्तिकमाह –
एवमिहापीति ।
अस्ति चात्रेति ।
भाष्येऽन्येषां शाखिनां शिरोव्रतस्यासत्त्वं नोक्तमतोऽध्याहरति –
अन्येषामिति ।
शिरस्यङ्गारपात्रधारणं शिरोव्रतम् । अभ्यासाधिकरणस्य (जै.सू.अ.२.पा.२.सू.२) शब्दान्तराधिकरणेन प्रत्युदाहरणलक्षणां सङ्गतिमाह ।
धात्वर्थानुबन्धेनेति ।
शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् । यजति ददाति जुहोति इत्यत्र किं यजत्यादय एकां भावनां विशिंषन्ति , उत प्रतिधात्वर्थ भावनाभेद इति संदेहे भावनायाः प्रत्ययार्थस्य प्रधानत्वात्तस्मिन् गुणभूतधात्वर्थानां समुच्चय इत्येकभावनाविशेषकत्वेन प्राप्ते राद्धान्तः - नियमेन धातुप्रत्यययोरन्विताभिधायित्वात् प्रत्ययस्य च ‘धातो’रिति सूत्रेण विवक्षितैकवचनेनैकन्मादेव धातोर्विधानादेकधात्वर्थानुरक्ता भावनाऽभिहिता , सा न धात्वर्थान्तरेण संबध्यते ; तत्संबन्धस्योत्पत्तिशिष्टत्वात् । यत्र पदान्तरोपात्तं प्रधानं तत्र भवति गुणानां समुच्चयः क्रये इवारुण्यादीनाम् । तस्मादपुनरुक्तधात्वात्मकशब्दान्तरे कर्मभेदो भावनाभेदः कृतानुबन्धत्वादुत्पत्त्यैव कृतधात्वर्थसबन्धत्वाद्भावनाया इत्यर्थः । धात्वर्थ एवानुबन्धोऽवच्छेदकः ।
ननु समिधो यजतीत्यादावैकभावनाविधाने एकत्र विधिरपरत्रानुवाद इति वक्तव्यं , तत्र को विधिरिति न ज्ञायतेऽत आह –
प्रथमभाविना वाक्येनेति ।
विपरिवर्तमाना बुद्धाविति शेषः । ततश्च प्रत्यभिज्ञायमानेत्यर्थः ।
विध्यनुवादाविनिगमेन सिद्धान्तमाह –
परस्परानपेक्षाणिति ।
एषां बोधकत्वे क्रमो न प्रयोजक इत्यर्थः ।
ननु पाठक्रमानादरणे कथं प्रयाजादीनां पाठानुष्ठानक्रमसिद्धिस्तत्राह –
परस्परापेक्षाणामिति ।
प्रयाजां ह्येकं करणोपकारं कुर्वन्तीति परस्परापेक्षाः । अतस्तेषामेककरणोपकारजनकतय एकवाक्यत्वे संभूयकारित्वे सति पाठक्रमोऽनुष्ठाने प्रयोजकः स्यादित्यर्थः । तद्वाक्यानि स्वार्थबोधने परस्परं नापेक्षन्ते इति न क्रमापेक्षा । यत एकत्वं पाठक्रमान्नियम्येतेत्यर्थः ।
ननु धात्वैक्यादितरेतरत्र च प्रत्यभिज्ञानमुक्तमत आह –
कथं चिदिति ।
समिदादिनामभिः कर्मभेदप्रतीतेः प्रत्यभिज्ञैव नास्तीति कथंचिदित्युक्तम् । आख्यातस्य हि सर्वत्र विधित्वमुत्सर्गः , स च बलवदपवादकेन बाधनीयः । न च इहैतदस्तीत्यर्थः ।
किं तद्बलवदपवादकं ? तदाह –
गुणश्रवणेहीति ।
यत्र हि वाक्ये गुणाः श्रूयते तत्र गुणविशिष्टकर्मविधाने विशेषणं विशेष्यं च विधातव्यं , तदा विधिगौरवं स्यात् । तत्र हि गुणमात्रविधानप्रत्युक्तलाघवाय विधिना विशेष्यकर्मणोऽनुवादोऽपेक्ष्यते , तदपेक्षायां बुद्धिसन्निधानस्योपकार इत्यर्थः ।
उदाहरति –
यथेति ।
ननु समिदादिवाक्यं नाभ्यासात् कर्मभेदे उदाहरणं , समिदादिगुणाद्भेदप्रतीतेरत आह –
न चात्रेति ।
समिधोऽग्न आज्यस्य व्यन्त्वित्यादिमन्त्रैरेव समिदादिदेवतासंबन्धसिद्धेस्तत्प्रख्यशास्त्रेः (जै.सू.अ.१.पा.४.सू.४) समिदादीनि नामधेयानीत्यर्थः ।
अङ्गीकृत्य गुणवचनत्वमाह –
अगृह्यामाणेति ।
केन वचनेन विहितमिति किंवचनविहितम् । किंवचनविहितं च तत् किंकर्म चेति किंवचनविहितकिंकर्म । तदनुवादेन कस्य वाक्यस्य गुणविधित्वमिति न विनिगम्यते इत्यर्थः । न चाग्नेयादिकर्मसु गुणविधिः ;तेषामुत्पत्तिशिष्टाग्न्याद्यविरोधादिति ।
यदि नामधेयानि समिदादीनि तर्हि नाम्न एव भेदो नाभ्यासादत आह –
न चापूर्वमिति ।
पूर्वकर्मानन्वयीत्यर्थः ।
अनन्वयित्वा हेतुः –
विधानाऽसंबद्धमिति ।
ननु ज्योतिरादेरपि विधिना संबन्धोऽसिद्धः ।
एतेनेत्यनुकृष्य यजेतेति विधिसंबन्धावगमादत आह –
प्रथममिति ।
ज्योतिरित्यादिनाम हि प्रथमं विधानेनासंबद्धमवगतं , पश्चात् तस्य विधिसंबन्धः । स च विधास्यमानकर्मनामधेयत्वेनाप्यविरुद्धः , समिदादि तु प्रथममेव विधिसंबद्धमिति न पूर्वकर्मबुद्धिविच्छेदकमित्यर्थः ।
तस्य देवतेति ।
तस्य पुरुषकृतस्य कृते त्यागस्यासेचनाधिकस्य प्रक्षेपाधिकस्य होमस्यावच्छेद्यो यः पुरुषप्रयत्न एकस्यां शाखायां चोद्यते स एव शाखान्तरे चोद्यते यथेत्यर्थः ।
दार्ष्टान्तिकमाह –
एवमिति ।
शाखान्तराधिकरणेनास्यापौनरुक्तयं सूत्रभाष्याभ्यामुक्तमुपपादयति –
युक्तमिति ।
शाखान्तराधिकरणे हि एकस्यां शाखायाम् अग्नीषोमीयस्यैकादशकपालत्वमपरस्यां द्वादशकपालत्वमिति रूपभेदात् कर्मभेदः शङ्कितः , सिद्धान्ते तु तयोर्विकल्प इत्युक्तम् । तद्युक्तम् । कपालसंख्ययोरुत्पन्नशिष्टयोरुत्पत्तावैकरूप्येणावगम्यमानकर्मप्रत्यभिज्ञाऽवाधकत्वेन कर्मभेदकत्वाभावात् । अग्निगतपञ्चसंख्यायास्तु उत्पत्तिशिष्टत्वाद् वाजिनवद् भेदकत्वमिति शङ्कोत्थानादगतार्थत्वमित्यर्थः । अग्निहोत्रस्येत्यशुद्धः पाठः अग्निहोत्रे कपालाभावात् । अथवा - अग्नौ होत्रं इति अग्नीषोमीय एवोच्यते । एकादशकपालत्वादेरुत्पन्नशिष्टत्वमिति वदता वाचस्पतिना कस्यांचिच्छाखायाम् अग्नीषोमीयो भवतीति केवलोत्पत्तिवाक्यं दृष्टमिति गम्यते । इतरथाऽग्नीषोमीयमेकादशकपालमित्यादौ संख्ययोरुत्पत्तिशिष्टत्वादिति ।
उत्पत्तिशिष्टा पञ्चसंख्यैव न षट्संख्या षष्ठस्यग्नेरनूद्यमानत्वादिति परिहरति –
पञ्चैवेति ।
सांपादिका उपास्याः । संपद्व्यतिरेकाय उपास्तिव्यतिरेकाय । अग्निरेवाग्निरित्यादिना मुख्याग्निसमिदादेरनुवादादुपास्यत्वव्यावृत्तिर्बोध्यत इत्यर्थः । एवं षष्ठाग्नेरनुवाद्यत्वमङ्गीकृत्य परिहारः उक्तः ।
इदानीं षडप्यग्नयः शाखाद्वयेऽप्युपास्याः , पञ्चसंख्या त्वमुख्यानग्नीन् योषिदादीनवच्छेत्तुमित्यभिप्रेत्याह –
अथा वा छान्दोग्यानामिति ।
छन्दोगेन दृष्टां शाखामधीयते इति छान्दोग्याः । इदानीं पञ्चसंख्या उपास्याग्निविशेषणत्वेन न विधीयते , किं त्वनूद्यते ।
अग्नयस्तु पञ्च शाखाद्वयेऽप्यविशेषेणोपास्यतया विधीयन्ते , अधिकस्तु षष्ठोऽग्निर्विकल्प्यते इति परिहरति –
अथ वा भवतु वाजसनेयिनामित्यादिना ।
प्रचयशिष्टेति ।
एकैकशोऽग्निषु विहितेषु तेषां प्रचयेनार्थात् ज्ञातेत्यर्थः ।
सांपादिकानिति ।
समारोप्याग्निभावानित्यर्थः ।
उत्पत्तिशिष्टत्व इति ।
प्राणगताधिकसंख्यादेरिति शेषः । असिद्ध इति च्छेदः ॥२॥॥३॥
दर्शयति चेति सूत्रं पूरयति –
विध्यैकत्वमिति ।
ननु सर्वे वेदा यत्पदमामनन्तीति वाक्यं वेद्यैक्यद्वारेण विद्यैक्यदर्शकं निर्गुणब्रह्मविषयं , कथमनेन सगुणविद्यैक्यसिद्धिः ? अत आह –
यत्रापीति ।
तत्प्रायपठितानामिति ।
निर्गुणविद्यासन्निधिपठितानामित्यर्थः । अग्न्यः श्रेष्ठः ।
ननु विद्यानामशब्दात्मकत्वात् कठादिप्रोक्तत्वाभावेऽपि कठाद्यनुष्ठितत्वात् काठकादिसंज्ञा किं न स्यादत आह –
न च काठादीति ।
अध्ययनं हि प्रतिशास्त्रं त्वरादिभिर्भिद्येत , न त्वनुष्ठानमिथर्थः ।
ननु किं कठप्रोक्तत्वादिनिमित्तानुसरणेन विद्यायां ग्रन्थे च काठकादिशब्दा रूढा भवन्तु , तत्राह –
न च कठप्रोक्ततेति ।
ग्रन्थे अवयवार्थयोगसंभवे ग्रन्थे रूढिर्न कल्पनीया ; ग्रन्थसंबन्धाद्विद्यायां च वृत्तिसंभवे तत्रापि रूढिर्न कल्पनीयेत्यर्थः ।
अङ्गीकृत्यापि काठकादिसंज्ञानां विद्याभिधायकत्वमप्रयोजकत्वमाह –
न च तद्भेदाभेदाविति ।
यदि काठकादिसंज्ञानां भेदाद्विद्या भिद्येत , तर्हि एकशाखागतदहरषोडशकलादिविद्यानामैक्यं प्रसज्येत , तच्च मा भूद् ; अयुक्तं हि तद् ; नानाधब्दादिभेदा (ब्र.अ.३.पा.३.सू.५८) दित्यत्र तन्निषेधादित्यर्थः ।
नित्यानित्यसंयोगविरोधाच्च संज्ञानां न विद्याभेदकत्वमित्याह –
कठादिपुरुषेति ।
यश्च तत्तच्छाखास्वोंकारसर्वात्म्यादो ब्रह्मविद्यासमाप्तिव्यपदेशोऽध्येतॄणां सोऽपि तत्तदंशसमाप्त्यभिप्रायस्ततो न शाखान्तरे विद्याया भेदक इत्याह –
समाप्तिश्चेति ।
शाखान्तराधिकरणेनास्य पौनरुक्तयमाशङ्क्याह – कंचिदिति श्लोकेन । पञ्चाग्निविद्यायामग्निगतपञ्चत्वषट्त्वसंख्ययोरुत्पत्तिशिष्टत्वं विशेषः , स च प्रागेव परिहृत इति । वक्ष्यमाणावर्थौ गुणोपसंहारानुपसंहारौ । रेतः प्रजननेन्द्रियं प्रजापतिः प्रजननम् ।
गुणविशिष्टतदुपास्तेः फलमाह –
प्रजायते हीति ।
तं यजमानं प्रेतं दिष्टं परलोकाय कर्मभिरादिष्टमितो ग्रामादग्नये अग्न्यर्थं हरन्ति नयन्त्यृत्विजः । शिरस्यङ्गारपूर्णपात्रधारणं शिरोव्रतम् । एतं ह्येवात्मानं बह्वृचा ॠग्वेदिनो महत्युक्थे शस्त्रविशेषे मीमांसन्ते । महाव्रते क्रतुविशेषे । महद्भयं भयहेतुर्वज्रमुद्यतं यथा तथा ब्रह्मेत्यर्थः । एषोऽधिकृतः पुरुष एतस्मिन्नात्मनि उद् अपि अरमल्पम् अन्तरं भेदम् । अल्पमपि भेदं यदा कुरुते , अथ तदा तस्य भयं भवति । तत्त्वेव ब्रह्मशब्देन विदुषो ज्ञातवतोऽमन्वानस्य अतर्कयतो मननमकुर्वतो भयं भयहेतुः ॥४॥