भामतीव्याख्या
वेदान्तकल्पतरुः
 

कञ्चिद्विशेषमाशङ्क्य पूर्वतन्त्रप्रसाधितम् । वक्ष्यमाणार्थसिद्ध्यर्थमर्थमाह स्म सूत्रकृत् ॥ चिन्ताप्रयोजनप्रदर्शनार्थं सूत्रम् –

उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ।

अत्रैदमाशङ्कते भवतु सर्वशाखाप्रत्ययमेकं विज्ञानं तथापि शाखान्तरोक्तानां तदङ्गान्तराणां न शाखान्तरोक्ते तस्मिन्नुपसंहारो भवितुमर्हति । तस्यैकस्य कर्मणो यावन्मात्रमङ्गजातमेकस्यां शाखायां विहितं तावान्मात्रेणैवोपकारसिद्धेरधिकानपेक्षणात् । अपेक्षणे चाधिकमपि तत्र विधीयेत । नच विहितम् । तस्माद्यथा नैमित्तिकं कर्म सकलाङ्गवद्विहितमपि अशक्तौ यावच्छक्यमङ्गमनुष्ठातुं तावन्मात्रजन्येनोपकारेणौपकृतं भवत्येवमिहाप्यङ्गान्तराविधानादेव भविष्यतीति । एवं प्राप्त उच्यते सर्वत्रैकत्वे कर्मणः स्थिते गृहमेधीयन्यायेन नोपकारावच्छेदो युज्यते । नहि तदेव कर्म सत्तदङ्गमपेक्षते नापेक्षते चेति युज्यते । नैमित्तिके तु निमित्तानुरोधादवश्यकर्तव्ये सर्वाङ्गोपसंहारस्य सदातनत्वासम्भवादुपकारावच्छेदः कल्प्यते । प्राकृतोपकारपिण्डे चोदकप्राप्ते आज्यभागविधानाद्गृहमेधीयेऽप्युपकारावच्छेदः स्यात् । इह तु शाखान्तरे कतिपयाङ्गविधानं तानि विधत्ते नेतराणि परिसञ्चष्टे । नच तदुपकारपिण्डे चोदकप्राप्ते आज्यभागवत्तन्मात्रविधानम् । तस्मात्तत्त्वेन कर्मणां सर्वाङ्गसङ्गम औत्सर्गिकोऽसति बलवति बाधके नापवदितुं युक्त इति ॥ ५ ॥

उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥५॥ सर्वशाखासु विद्यैक्ये सिद्धे गुण्याकृष्टगुणानामुपसंहारसिद्धेरधिकरणानारम्भ इत्याशङ्क्याह –

भवत्विति ।

करणं हि विद्याऽङ्गमाकाङ्क्षते , आकाङ्क्षा च सन्निधिसमाम्नातैः अङ्गैः शान्तेति न शाखान्तरीयाङ्गापेक्षेत्यर्थः ।

यद्यपेक्षा स्यात्तत्राह –

अपेक्षणे चेति ।

साकाङ्क्षस्य प्रयोगविधेरनुष्ठापकत्वासंभवातन्निराकाङ्क्षत्वाय सर्वमङ्गजातमेकस्यामेव शाखायां विधीयेतेत्यर्थः ।

ननु सर्वशाखासु विद्यैक्ये सति शाखान्तरगततदीयाङ्गाननुष्ठानेऽखण्डकरणोपकारासिद्धेरनुपकृता विद्या न श्रेयस्करी स्यादत आह –

तस्माद्यथा नैमित्तिकमिति ।

ननु नित्यकर्मणि यावज्जीवमित्यादिनियतनिमित्तवशाच्छक्याङ्गानुष्ठानमात्रेण परिपूर्णोपकारः कल्प्यते , उपासनासु तु स्वशाखाधीतैरेवाङ्गैः परिपूर्णोपकारकल्पनायां को हेतुरत आह –

अङ्गान्तराविधानादेवेति ।

गृहमेधीयेति ।

अस्ति चातुर्मास्येषु गृहमेधीयो मरूभ्द्यो गृहमेधिभ्यः सर्वासां दुग्धे सायमोदन इति । तत्रेदमामनन्त्याज्यभागौ यजतीति । तत्र संदेहः किमयमतिदेशप्राप्तयोराज्यभागयोरानुवादः , उताङ्गान्तरपरिसंख्या । अथवाऽतिदेशेनाज्यभागावेव प्राप्येते इत्येतदनेन वचनेन ज्ञाप्यते , किंवा सर्वाङ्गेभ्यो य उपकारः स आज्यभागाभ्यामेवाङ्गान्तरानपेक्षाभ्यां भवतीत्युपकारावच्छेद इति । अन्येऽपि पक्षाः प्रथमे काण्डे समाशङ्क्य निरस्तास्ते तु विस्तरभयान्न लिख्यन्ते । तत्रानुवादमात्रस्य वैफल्यात्परिसंख्यायाश्च प्रतिषेधविषयत्वादङ्गान्तरप्रतिषेधस्य च वाक्यादप्रतीतेः कल्पनायां चाज्यभागवाक्यस्य स्वार्थत्यागप्रसङ्गात् प्राप्तस्य चाङ्गान्तरस्य प्रतिषेधे प्रापकप्रमाणबाधापातात् । तदेवं स्वार्थहानिरस्वार्थकल्पनं प्राप्तबाधश्चेति त्रिदोषीप्रसङ्गात् । अतिदेशस्य च विकृत्यपेक्षितप्राकृताखण्डकरणोपकारातिदेशद्वारेणोपकारजनकपदार्थान् विकृतौ प्रापयतो युगपदेव सर्वाङ्गविषयत्वेन प्रवृत्तेराशुभावमात्रविषयत्वकल्पनस्यायोगादुपकारावच्छेद एवेति दशमे सिद्धान्तितम् । एतन्न्यायेनेह नोपकारावच्छेदो युज्यते ।

कुतः ? इत्यत आह –

न हीति ।

हृहमेधीये हि न्याये विकृतिकर्मैव गृहमेधीयः आज्यभागातिरिक्तमङ्गग्रामं स्वोपकाराय नापेक्षते , प्रकृतिस्त्वपेक्षते । अत्र पुनरेकमेव विज्ञानं शाखान्तरीयाङ्गमेतच्छाखिभिरनुष्ठीयमानं सन्नापेक्षते , शाखान्तरीभिरनुष्ठीयमानं सदपेक्षते । एतच्च विरुद्धमित्यर्थः ।

यच्चोक्तं यथा नैमित्तिकं कर्मेत्यादि , तत्राप्याह –

नैमित्तिके त्विति ।

यावज्जीवनिमित्तानुरोधात् प्रधानकर्तव्यत्वं नित्यमवगतं सर्वाङ्गोपसहारस्य च सर्वदा पुंसा संपादयितुमशक्यत्वाच्छक्यमात्राङ्गानुष्ठानादेव सकलाङ्गसाध्योपकारसिद्धिरित्युपकारस्यावच्छेदः । अशक्याङ्गेभ्योऽवच्छिद्य शक्येष्ववस्थापनं युज्यते , न तु तथेह शाखान्तरीयाङ्गोपसंहारस्याशक्यत्वम् । अशक्तेः प्रथमाधिकरणे निरस्तत्वात् । न चोपास्तीनां नित्यत्वावगतिः काम्यत्वादित्यर्थः ।

पूर्वमेकस्यैकस्मिन्विषयेऽपेक्षाऽनपेक्षयोर्विरोधाद् गृहमेधीयन्यायासंभव उक्तः , इदानीं वैषम्यान्तरेण प्रकृते तदसंभवमाह –

प्राकृतेति ।

चोदकोऽतिदेशः । तेन प्राकृत उपकारपिण्डो गृहमेधाय प्राप्यते तद्द्वारा च तज्जनकानि सकलप्राकृताङ्गानि । तत्राज्यभागावपि तन्मध्ये प्राप्नुत इति प्राप्तयोः पुनर्वचनात् सकलाङ्गजन्योपकारस्य तन्मात्रजन्यत्वेनावच्छेदः स्यादिह तु स्वशाखागताङ्गानां वचनाद्विना न प्राप्तिरिति तद्विधायकमेव वचनं नेतरपरिसंख्यायकमित्यर्थः । अनेन गृहमेधीयपूर्वपक्षगतपरिसंख्यापक्षोऽपि व्युदस्तः ।

तन्मात्रविधिपक्षस्यापि गृहमेधीयपूर्वपक्षगतस्यात्रासंभवमाह –

न च तदुपकारेति ।

तच्छब्देन प्राकृतमङ्गं परामृशति । आज्यभागतदितराङ्गसाध्ये उपकारस्तोमेऽतिदेशप्राप्तेऽप्याज्यभागविधानाद्धि तत्रातिदेशस्य तन्मात्रविधानपरत्वं कल्पितं , न त्विह विद्यासु स्वपरशाखागतधर्मसाध्योपकारपिण्डस्यास्तिकश्चिदतिदेशः , यस्य तत्प्राप्तधर्मस्य स्वशाखायां विधानात् स्वशाखागतधर्ममात्रविधायकत्वं कल्प्येतेत्यर्थः । तत्त्वेन एकत्वेन ।

बलवति बाधके इति ।

प्राप्तौ पुनर्विधानमेव बलवद् बाधकम् ॥५॥

इति द्वितीयं उपसंहाराधिकरणम् ॥