भामतीव्याख्या
वेदान्तकल्पतरुः
 

अन्यथात्वं शब्दादिति चेन्नाविशेषात् ।

द्वया द्विप्रकाराः प्राजापत्या देवाश्चासुराश्च । ततः कानीयसा एव देवा ज्यायसा असुराः । शास्त्रजन्यया सात्त्विक्या बुद्ध्या सम्पन्ना देवाः । ते हि दीव्यन्त इति देवाः । शास्त्रयुक्त्यपरिकल्पितमतयस्तामसवृत्तिप्रधाना असुरा असुभिः प्राणैरनिन्द्रियैरगृहीतैस्तेषु तेषु विषयेषु रमन्त इत्यसुरा अत एव ते ज्यायांसः । यतोऽमी तत्त्वज्ञानवन्तः कानीयसास्तु देवाः । अज्ञानपूर्वकत्वात्तत्त्वज्ञानस्य । प्राणस्य प्रजापतेः सात्त्विकवृत्त्युद्भवस्तामसवृत्त्यभिभवः कदाचित् । कदाचित्तामसवृत्त्युद्भवोऽभिभवश्च सात्त्विक्या वृत्तेः । सेयं स्पर्धा । ते ह देवा ऊचुः, हन्त असुरान् यज्ञ उद्गीथेनात्ययाम असुरान् जयामास्मिन्नाभिचारिके यज्ञ उद्गीथलक्षणसामभक्त्युपलक्षितेनोद्गात्रेण कर्मणेति । ते ह वाचमूचुरित्यादिना सन्दर्भेण वाक्प्राणचक्षुःश्रोत्रमनसामासुरपाप्मविद्धतया निन्दित्वा अथ हेममासन्यमास्ये भवमासन्यं मुखान्तर्बिलस्थं मुख्यं प्राणं प्राणाभिमानवतीं देवतामूचुस्त्वं न उद्गायेति । तथेत्यभ्युपगम्य तेभ्य एव प्राण उदगायत्तेऽसुरा विदुरनेन प्राणेनोद्गात्रा नोऽस्मान् देवा अत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाविध्यन्नसुरा यथाश्मानमृत्वा प्राप्य मृत्त्वाल्लोष्टो वा विध्वंसत एवं विध्वंसमाना विष्वञ्चोऽसुरा विनेशुः ।

तदेतत्सङ्क्षिप्याह –

वाजसनेयक इति ।

तथा छान्दोग्येऽप्येतदुक्तमित्याह –

तथा छान्दोग्येऽपीति ।

विषयं दर्शयित्वा विमृशति –

तत्र संशय इति ।

पूर्वपक्षं गृह्णाति –

विद्यैकत्वमिति ।

पूर्वपक्षमाक्षिपति –

ननु न युक्तमिति ।

एकत्रोद्गातृत्वेनोच्यते प्राण एकत्र चोद्गानत्वेन क्रियाकर्त्रोश्च स्फुटो भेद इत्यर्थः ।

समाधत्ते –

नैष दोष इति ।

बहुतररूपप्रत्यभिज्ञा नादप्रत्यभिज्ञायमानं किञ्चिल्लक्षणया नेतव्यम् ।

न केवलं शाखान्तरे, एकस्यामपि शाखायां दृष्टमेतन्न च तत्र विद्याभेद इत्याह –

वाजसनेयकेऽपि चेति ।

बहुतररूपप्रत्यभिज्ञानानुग्रहाय चोमित्यनेनापि उद्गीथावयवेन उद्गीथ एव लक्षणीय इति पूर्वपक्षः ॥ ६ ॥

न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ।

बहुतरप्रत्यभिज्ञानेऽपि उपक्रमभेदात्तदनुरोधेन चोपसंहारवर्णनादेकस्मिन्वाक्ये तस्यैव चोद्गीथस्य पुनःपुनः सङ्कीर्तनाल्लक्षणायां च छान्दोग्ये वाजसनेयके प्रमाणाभावाद्विद्याभेद इति राद्धान्तः । ओङ्कारस्योपास्यत्वं प्रस्तुत्य रसतमादिगुणोपव्याख्यानमोङ्कारस्य । तथाहि भूतपृथिव्योषधिपुरुषवागृक्साम्नां पूर्वस्योत्तरमुत्तरं रसतया सारतयोक्तम् । तेषां सर्वेषां रसतम ओङ्कार उक्तश्छान्दोग्ये ।

नच विवक्षितार्थभेद इति ।

एकत्रोद्गीथोद्गातारावुपास्यत्वेन विवक्षितावेकत्र तदवयव ओङ्कार इति । तथा ह्यभ्युदयवाक्ये इति । एवं हि श्रूयते “विवा एतं प्रजया पशुभिरर्धयति वर्धयत्यस्य भ्रातृव्यं यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति स त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं निर्वपेद्ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुं ये क्षोदिष्ठास्तान् विष्णवे शिपिविष्टाय शृते चरुम्” इति । तत्र सन्देहः किं कालापराधे यागान्तरमिदं चोद्यत उत तेष्वेव कर्मसु प्रकृतेषु कालापराधे निमित्ते देवतापनय इति । एष तावदत्र विषयः अमावास्यायामेव दर्शकर्मार्थं वेदिक्रियाग्निप्रणयनक्रिया व्रतादिश्च यजमानसंस्कारः । दध्यर्थश्च दोहः । प्रतिपदि च दर्शकर्मप्रवृत्तिरित्यनुष्ठानक्रमस्तात्त्विकः । यस्य तु यजमानस्य कुतश्चिद्भ्रमनिबन्धनाच्चतुर्दश्यामेवामावास्याबुद्धौ प्रवृत्तप्रयोगस्य चन्द्रमा अभ्युदीयते तत्रेदं श्रूयते “यस्य हविर्निरुप्तम्” इति । तेन यजमानेनाभ्युदितेनामावास्यायामेव निमित्ताधिकारं परिसमाप्य पुरस्तदहरेव वेद्युद्धरणादिकर्म कृत्वा प्रतिपदि दर्शः प्रवर्तयितव्यः । तत्राभ्युदये किं नैमित्तिकमिदं कर्मान्तरं दर्शाच्चोद्यत उत तस्मिन्नेव दर्शकर्मणि पूर्वदेवतापनयनेन देवतान्तरं विधीयत इति । तत्र हविर्भागमात्रश्रवणाच्चरुविधानसामर्थ्याच्च कर्मान्तरम् । यदि हि पूर्वदेवताभ्यो हवींषि विभजेदिति श्रूयते ततस्तान्येव हवींषि देवतान्तरेण युज्यमानानि न कर्मान्तरं गमयितुमर्हन्ति किन्तु प्रकृतमेव कर्म तद्धविष्कमपनीतपूर्तदेवताकं देवतान्तरयुक्तं स्यात् । अत्र पुनस्त्रेधा तण्डुलान् विभजेदिति हविष एव मध्यमादिक्रमेण विभागश्रवणादनपनीता हविषि पूर्वदेवता इति पूर्वदेवतावरुद्धे हविषि देवतान्तरमलब्धावकाशं श्रूयमाणं कर्मान्तरमेव गोचरयेत् । अपिच प्राप्ते पूर्वस्मिन् कर्मणि दध्नस्तण्डुलानां पयसस्तण्डुलानां चेन्द्रादिदेवता सम्बन्धश्च विधातव्यः । चरुत्वं चात्र विहितं नास्तीति तदपि विधातव्यम् । तथा प्राप्ते कर्मण्यनेकगुणविधानाद्वाक्यं भिद्येत । कर्मान्तरं त्वपूर्वं शक्यमेकेनैव प्रयत्नेनानेकगुणविशिष्टं विधातुमिति निमित्ते कर्मान्तरमेव विधीयते । दर्शस्तु लुप्यते कालापराधादिति प्राप्त उच्यते न कर्मान्तरम् । पूर्वदेवतातो हविषो विभागपूर्वं निमित्ते देवतान्तरविधानात् । चर्वर्थस्य चार्थप्राप्तेः । भवेदेतदेवं यदा त्रेधा तण्डुलान् विभजेदिति तण्डुलानां त्रेधा विभागविधानपरमेतद्वाक्यं स्यादपि तु वाक्यान्तरप्राप्तं तण्डुलानां त्रेधात्वमनूद्य विभजेदित्येतावद्विधत्ते तत्र वाक्यान्तरालोचनया पूर्वदेवताभ्य इति गम्यते तण्डुलानिति त्वविवक्षितं हविरुभयत्ववत् । तथा च ये मध्यमा इत्यादीनि वाक्यान्यपनीते पूर्ववत्देवतासम्बन्धे हविषस्तस्मिन्नेव कर्मण्यप्रत्यूहं देवतान्तरसम्बन्धं विधातुं शक्नुवन्ति । तथाच द्रव्यमुखेन प्रकृतमुखप्रत्यभिज्ञानाद्देवतान्तरसम्बन्धेऽपि न कर्मान्तरकल्पनाभवितुमर्हति । ततश्च समाप्तेऽपि नैमित्तिकाधिकारसिद्ध्यर्थं तान्येव पुनः कर्माण्यनुष्ठेयानि । नच दधनि चरुमिति चरुसप्तम्यर्थयोर्विधानं तयोरप्यर्थप्राप्तत्वात् । प्रकृते हि कर्मणि तण्डुलपेषणप्रथनं पुरोडाशपाकादि दधिपयसी च प्राप्तानि तत्राभ्युदयनिमित्ते दधियुक्तानां पयोयुक्तानां च तण्डुलानां विभजेदिति वाक्येन पूर्वदेवतापनयं कृत्वा ये मध्यमा इत्यादिभिर्वाक्यैर्देवतान्तरसम्बन्धः कृतः । नच प्रभूतदधिपयः संसक्तैरल्पैस्तण्डुलैः पुरोडाशक्रिया सम्भवति । इति पुरोडाशनिवृत्तौ तदर्थस्य प्रथनस्यापि निवृत्तिरनिवृत्तस्तु पाकोऽपवादाभावात्तथा चार्थप्राप्तश्चोद्यते । भवतु वा अनेकवाक्यकल्पनम् । प्रकृताधिकारावगमबलादस्यापि न्याय्यत्वादिति । तस्मात्तदेवेदं कर्म न तु कर्मान्तरमिति सिद्धम् । पशुकामवाक्ये त्वपूर्वकर्मविधिरभ्युदयवाक्यसारूप्येऽपि । “यः पशुकामः स्यात्सोऽमावास्यामिष्ट्वा वत्सानपाकुर्याद्ये स्थविष्ठास्तानग्नये सनिमतेऽष्ठाकपालं निर्वपेद्ये मध्यमास्तान् विष्णवे शिपिविष्टाय शृते चरुं ये क्षोदिष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुम्” इति । अत्र हि अमावास्यामिष्ट्वेति समाप्ते यागे पशुकामेष्टिविधानं नात्र पूर्वस्य कर्मणोऽननुवृत्तेर्यागान्तरविधिरिति युक्तम् ।

परोवरीयस्त्वादिवत् ।

यथोद्गीथोपासनासाम्येऽपि आदित्यगतहिरण्यश्मक्षुत्वादिगुणविशिष्टोद्गीथोपासनातः परोवरीयस्त्वगुणविशिष्टोद्गीथोपासना भिन्ना तद्वदिदमपीति । परस्मात्परो वराच्च वरीयानिति परोवरीयानुद्गीथः परमात्मरूपः सम्पन्नः । अत एव अनन्तः । परमात्मदृष्टिमुद्गीथे भवयितुम् “आकाशो ह्येवैभ्यो भूतेभ्यो ज्यायान्”(छा. उ. १ । ९ । २) इत्याकाशशब्देन परमात्मानं निर्दिशति ॥ ७ ॥

संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ।

स्फुटतरे भेदावगमे संज्ञैकत्वं नाभेदसाधनमतिप्रसङ्गपातात् । अपिच श्रुत्यक्षरालोचनया भेदप्रत्ययोऽन्तरङ्गश्चानपेक्षश्च । संज्ञैकत्वं तु श्रुतिबाह्यतया बहिरङ्गं च पौरुषेयतया सापेक्षं च । तस्माद्दुर्बलं नाभेदसाधनायालमिति ॥ ८ ॥

द्वया इत्यादिना ; यतोऽमी इति ; अज्ञानपूर्वकत्वादिति ; तदस्येत्यादिना ; निन्दित्वेति ; प्राणाभिमानेति ; न केवलं शाखान्तरे इति ; तथा हीति ; तेष्वेव कर्मस्विति ; एष तावदिति ; अमावास्यायामेवेति ; हविर्भागेत्यादिना ; यदि हीत्यादिना ; अपि चेति ; दर्शस्तु लुप्यते इति ; पूर्वदेवतात इति ; चर्वर्थस्येति ; वाक्यान्तरप्राप्तमिति ; तत्र च वाक्यान्तरेति ; तण्डुलानिति त्वविवक्षितमिति ; हविरुभयत्ववदिति ; यस्योभयम् हविरार्तिमार्च्छेदैन्द्रं पञ्चशरावमोदनं निर्वपेदिति ; तस्मादविवक्षितमुभयत्वमिति ; द्रव्यमुखेनेति ; ततश्चेति ; न च दधनि चरुमित्यादिना ; तत्राभ्युदयेति ; दधियुक्तानां पयोयुक्तानां चेति ; न च प्रभूतेति ; अनिवृत्तिस्त्विति ; प्रकृताधिकारेति ; परमात्मरूपेति ; परमात्मदृष्ठिमिति ;

अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥६॥ चोदनाद्यविशेषादित्यस्यापवादार्थमिदमधिकरणम् । भाष्ये वाजसनेयिशाखागतमुद्गीथब्राह्मणं छान्दोग्यगत उद्गीथाध्यायश्च विषयत्वेनोदाहृतः । तत्र वाजसनेयिब्राह्मणं तावद्व्याचष्टे –

द्वया इत्यादिना ।

‘‘द्वया ह प्राजापत्या देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुरास्त एषु लोकेष्वस्पर्धन्त ते ह देवा ऊचुर्हन्तासुरात् यज्ञ उद्गीथेनात्ययामेति ते ह वाचमूचुस्त्वं न उद्गायेति । तथेति तेभ्यो वागुदगायत्ते विदुरनेन वैत उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन् अथ हेममासन्यं प्राणमूचुस्त्वन्न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्ते विदुरनेने’’ त्याद्यभिधाय ‘‘तमभिद्रुत्य पाप्मनाऽविध्यन्त्सन्स यथाऽश्मानमृत्वा लोष्टो विध्वंसतैवं हैव विधंसमाना विश्वञ्चो विनेशु’’रिति श्रुतिः । तत्र प्रजापतिः कर्मज्ञानाधिकृतः पुरुषः । तदपत्यानीन्द्रियवृत्तयः प्राजापत्याः ।

असुराणां ज्यायस्त्वं वृद्धत्वं श्रुत्युक्तमुपपादयति –

यतोऽमी इति ।

कानीयसाः कनीयांसो देवाः ।

कनिष्ठत्वमुपपादयति –

अज्ञानपूर्वकत्वादिति ।

अनादि ह्यज्ञानं तत्त्वज्ञानं चरमभावि । अतस्तज्जन्यप्रवृत्तिरूपाणां देवानां कनिष्ठत्वमित्यर्थः ।

अस्पर्धन्तेत्येतद्व्याचष्टे –

तदस्येत्यादिना ।

प्राणस्येत्येतच्छ्रुतिगतप्रजापतिशब्दस्य व्याख्यानम् । प्राणप्रधानस्य क्षेत्रज्ञस्येत्यर्थः ।हन्तेत्यनुमतौ । यद्यनुमतिरस्ति सर्वेषामस्माकमसुरजये , तर्ह्यसुरानत्ययामातीत्यासुरान् देवभावमाप्नुवामेत्यर्थः । यज्ञो ज्योतिष्टोमः । सोऽसुराणां विध्वंसकत्वादाभिचारिकः । वाक् प्राणेत्यत्र प्राणो घ्राणेन्द्रियम् ।

निन्दित्वेति ।

तान्येव वागादीनीत्यर्थाल्लभ्यते ।

प्राणमात्रस्य संवादकर्तृत्वायोगाद्देवता लक्ष्यत इत्याह –

प्राणाभिमानेति ।

एष इति मुख्यप्राणस्य विशेषणं घ्राणव्यावृत्त्यर्थम् । अभिद्रुत्याधिगम्य । अविध्यंस्ताडितवन्तः । अविध्यन्त्सन्निति श्रुतिपदं तत्र सन्प्रत्ययमुपेक्ष्य प्रकृतिमात्रमुदाहृतम् । लोष्टः पांसुपिण्डः । स चान्यो वा दुर्बलः काष्ठादिरित्यर्थः । वाशब्दः श्रुतावविद्यमानोऽपि न्यायलभ्यत्वादुपन्यस्तः ।

उद्गीथकर्तृत्वम् , उद्गानक्रियारूपत्वं च शाखाभेदेन श्रूयमाणं न विद्याभेदकम् , एकस्यां शाखायां विधैक्यसंप्रतिपत्तावपि तद्दर्शनादित्याह –

न केवलं शाखान्तरे इति ।

एवं कर्तृक्रियात्वनिर्देवैषम्यं परिहृत्य सकलभक्तिनिर्देशो वाजसनेयके , भक्तयेकदेशप्रणवनिर्देशश्छान्दोग्ये इति वैषम्यं परिहरति – बहुतररूपेति ॥६॥ रसतमादिगुणोपव्याख्यानमोङ्कारस्य कृत्वेति शेषः । एतच्च भाष्यप्रतीकोपादानम् । एषां भूतानां पृथिवी रसः पृथिव्या आपो रसोऽपामोषधय ओषधीनां पुरुषो रसः पुरुषस्य वाग् रसो वाच ॠग्रसः , ॠचः सामरसः साम्न उद्गीथो रसः स एष रसानां रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथ इति श्रुतिः ।

एतच्छ्रुतिव्याख्यानेन भाष्योक्तरसतमादिगुणयोगं विवृणोति –

तथा हीति ।

यस्य यजमानस्य पुरस्तात् पूर्वं हविरुप्तं देवतार्थं सङ्कल्पितं भवति चन्द्रमाश्च पश्चादभ्युदेति स चतुर्दश्याममावस्याभ्रमवान् मध्यमादिभावेन त्रेधाभूतास्तण्डुलानग्न्यादिभ्यो दर्शदेवताभ्यः सकाशाद्विभजेद् । विभज्य च दात्रग्न्यादिदेवताभ्यो निर्वपेदित्यर्थः । दधन् दधनि । श्रुते दुग्धे ।

तेष्वेव कर्मस्विति ।

आग्नेयादिष्वित्यर्थः ।

कालापराधं विवरीतुं यथाकालमनुष्ठानं दर्शयति –

एष तावदिति ।

अभितः सन्निधौ उदितश्चन्द्रो यस्य स यजमानोऽभ्युदितः ।

अत्र सिद्धान्ते दर्शकर्मण्येव देवतापनयमात्रमित्यस्मिन् प्रयोजनमाह –

अमावास्यायामेवेति ।

तस्यैव कर्मणोनुवर्तमानत्वे हि स्वदेवतायुक्तं तत्परिसमापनीयं ततश्चतुर्दश्यां निरुप्तहविषा देवतान्तरेभ्यो नैमित्तिकप्रयोगं परिसमाप्य पुनरमावस्यायामेवाग्न्यादिभ्यो दर्शदेवताभ्यो हविर्निरुप्य प्रतिपदि दर्शः प्रवर्तयितव्यः । दर्शलोपे तु प्रायश्चित्तभूतमिदं कर्मामावास्यायां कृत्वोपरन्तव्यमिति चिन्ताप्रयोजनमित्यर्थः ।

पूर्वपक्षमाह –

हविर्भागेत्यादिना ।

उत्पत्तिशिष्टदेवतावरुद्धे कर्मणि देवतान्तरानवकाशात् कर्मान्तरत्वमित्येवमर्थं हविर्विभागमात्रश्रवणादिति संग्रहवाक्यं , प्राप्ते कर्मण्यनेकगुणविधौ वाक्यभेदप्रसङ्गात् कर्मान्तरत्वमित्येवमभिप्रायं चरुविधानसामर्थ्याच्चेति द्वितीयं संग्रहवाक्यम् ।

तत्राद्यं विभजते –

यदि हीत्यादिना ।

पूर्वदेवताभ्योऽग्न्यादिभ्यो हवींषि विभजेदिति वाक्येन विहिते उत्पत्तिशिष्टदेवतावरोधस्य वाक्येनैव वारितत्वात् पूर्वकर्मणि देवतान्तरनिवेशसंभवे सति न कर्मान्तरत्वं स्यात् । हविर्मात्रविभागविधाने तूत्पत्तिशिष्टदेवतावरोधाद् वाजिनेज्यावत् कर्मान्तरत्वमित्यर्थः ।

द्वितीयं संग्रहं विवृणोति –

अपि चेति ।

ननु कर्मान्तविधौ प्रारब्धदर्शप्रयोगस्य का गतिस्तत्राह –

दर्शस्तु लुप्यते इति ।

कर्मान्तरमिति प्रतिज्ञाय हेतुमाह –

पूर्वदेवतात इति ।

उत्पत्तिशिष्टदेवतावरोधं परिहृत्य वाक्यभेदं परिहरति –

चर्वर्थस्येति ।

वाक्यान्तरप्राप्तमिति ।

ये मध्यमा इत्यादिवाक्यैः प्राप्तमित्यर्थः ।

ननु विभजेदित्येतावन्मात्रविधौ कस्मादिति न ज्ञायते , तत्राह –

तत्र च वाक्यान्तरेति ।

ये मध्यमादिवाक्यैर्देवतान्तरेषु तत्प्रतियोगिनीनां देवतानामेव बुद्धिस्थानां विभागप्रतियोगित्वं गम्यते इत्यर्थः ।

ननु तण्डुलानामेव देवताभ्यो विभागश्रवणाद्दधिपयसोर्न पूर्वदेवतातो विभागोऽवगतोऽतस्तयोरुत्पत्तावैन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्यायामितीन्द्रदेवतावरुद्धयोर्न देवतान्तरावकाश इति कर्मभेद एव स्यादत आह –

तण्डुलानिति त्वविवक्षितमिति ।

हविर्मात्रं विभागविषयः । तस्य तण्डुलत्वेन विशेषणे विशिष्टोद्देशाद्वाक्यभेदः स्यादित्यर्थः ।

हविरुभयत्ववदिति ।

दर्शपूर्णमासयोराम्नायते –

यस्योभयम् हविरार्तिमार्च्छेदैन्द्रं पञ्चशरावमोदनं निर्वपेदिति ।

उभयं दधिपयः । तत्र श्रुतत्वाद्धविर्वदुभयत्वमपि निमित्तान्तर्भूतमिति प्रापय्य षष्ठे राद्धान्तितम् । अविवक्षितमुभयत्वम् । तद्विवक्षयां हि विशिष्टोद्देशनाद्वाक्यं भिद्येत – हविरार्तौ निर्वपेदुभयर्तौ चेति , विध्यावृत्तिप्रसङ्गात् । ननु तर्हि हविरप्यविवक्षितं स्याद्धविर्विशिष्टार्तेरुद्देश्यत्वे वाक्यभेदतादवस्थ्यात् ; न ; आर्तिमात्रस्य सर्वदा सर्वेषां संभवेन निमित्तत्वापर्यवसानात् । तत्पर्यवसानस्य हि मृष्यामहे हविषा विशेषणम् । उभयत्वं तु पर्यवसिते निमित्ते विशेषणं भविद्विध्यनाकाङ्क्षितं वाक्यं भिद्यादिति तन्न मृष्यामः ।

तस्मादविवक्षितमुभयत्वमिति ।

ननु शक्नुवन्तु वाक्यानि तस्मिन् कर्मणि देवतान्तरं विधातुं , तस्यैवत्वबुद्धिस्थत्वात्कथं तत्र देवताविधिरत आह –

द्रव्यमुखेनेति ।

पूर्वोक्तं सिद्धान्तप्रयोजनं निगमयति –

ततश्चेति ।

एवमुत्पत्तिशिष्टदेवतावरोधं परिहृत्य वाक्यभेदप्रसङ्गं परिहरति –

न च दधनि चरुमित्यादिना ।

प्राकृतकर्मणि तण्डुलादयः पाकान्ताः पुरोडाशसामर्थ्यात्सिद्धाः । दधिपयसी च स्वत एव सिद्धे ।

कथमेतावताऽधिकरणचर्वर्थयोः प्राप्तिरत आह –

तत्राभ्युदयेति ।

दध्नस्तण्डुलानां पयसस्तण्डुलानां च साहित्यं ये मध्यमादिवाक्यावगतादेकदेवताकत्वात्सिद्धम् ।

तदिदमुक्तं –

दधियुक्तानां पयोयुक्तानां चेति ।

नन्वेवमपि दधिपयसोस्तण्डुलानां च मिश्रणमेव भवति , कथमधिकरणार्थलाभस्तत्राह –

न च प्रभूतेति ।

त्र्यधिकगवां दोहविधानाद्दधिपयसोः प्रभूतत्वम् । अतश्चाल्पास्तण्डुलान् प्रत्याधारत्वं सप्तम्यर्थो दधिपयसोः सिद्धः ।

ननु पुरोडाशनिवृत्तौ पाकोऽपि निवर्ततां , तथा च कथं चरुसिद्धिरत आह –

अनिवृत्तिस्त्विति ।

साधनविशेषाश्रितत्वाद्धर्माणां तण्डुलेष्वपि पाकानुवृत्तिर्व्रीहि धर्माणामिवावधातादीनां यवेष्वित्यर्थः ।

प्रकृताधिकारेति ।

प्रकृतस्य दर्शपूर्णमासकर्मणो द्रव्यद्वारेणाधिकारावगमात् संबन्धावगमादगत्या वाक्यभेदस्य न्याय्यत्वादित्यर्थः । वत्सानपाकुर्याद्गोदेशाद्देशान्तरं नयेत् । इतरथा हि ते सर्वे सर्वं दुग्धं पिबेयुरिति ।

भवतु परस्मात्स्वरप्राणादेः परो वराच्च तस्मादेव वरीयान् वरतर उद्गीथः कथमनन्तस्तत्राह –

परमात्मरूपेति ।

परमात्मदृष्ठ्यध्यासात्तद्रूपसंपत्तिः ।

ननु ‘‘का साम्नो गतिः कारणं , स्वर इति होवाच स्वरस्य का गतिरिति प्राण’’ इतीत्युपक्रम्यास्य लोकस्य का गतिरित्यनन्ताकाशं निर्दिश्याकाशो ह्येवैभ्यो ज्यायानित्यादिनाऽऽकाशस्यैव परोवरीयस्त्वादिगुणयोगं दर्शयति । तत्कथं परमात्मदृष्ठ्यध्यास उद्गीथेऽत आह –

परमात्मदृष्ठिमिति ।

आकाशस्तल्लिङ्गा (ब्र.अ.१.पा.१.सू.२२) दित्युक्तं न प्रस्मर्तव्यमित्यर्थः ॥७॥८॥ तत् तत्र देवादुरसंग्रहे ह किल देवा उद्गीथम् उद्गीथावयवोङ्कारम् आजह्नुराहृतवन्तः । तस्य केवलस्याहरणायोगात् तदाश्रयं ज्योतिष्टोमादि आहृतवन्त इत्यर्थः । अनेन कर्मणा एतानसुरानभिभविष्याम इति स उद्गाता वाचा प्राणेन च वागुपसर्जनप्राप्नाणेनोद्गानं कृतवान् ॥

इति तृतीयमन्यथात्वाधिकरणम् ॥