भामतीव्याख्या
वेदान्तकल्पतरुः
 

व्याप्तेश्च समञ्जसम् । अध्यासो नामेति ।

गौणी बुद्धिरध्यासः । यथा माणवकेऽनिवृत्तायामेव माणवकबुद्धिव्यपदेशवृत्तौ सिंहबुद्धिव्यपदेशवृत्तिः सिंहो माणवक इति, एवं प्रतिमायां वासुदेवबुद्धिर्नाम्नि च ब्रह्मबुद्धिस्तथोङ्कार उद्गीथबुद्धिव्यपदेशाविति । अपवादैकत्वविशेषणानि चोक्तानि । एकार्थेऽपि च शब्दद्वयप्रयोगो दृश्यते । यथा वैश्वदेव्यामिक्षा विज्ञानमानन्दम् । व्याख्यायां च पर्यायाणमपि सहप्रयोगो यथा सिन्धुरः करी पिकः कोकिल इति ।

विमृश्यानध्यवसायलक्षणं पक्षं गृह्णाति –

तत्रान्यतम इति ।

सिद्धान्तमाह –

इदमुच्यते व्याप्तेश्च ।

प्रत्यनुवाकं प्रत्यृचमुपक्रमे च समाप्तौ चोकारः सर्दवेदव्यापीति किङ्गतोऽयमोङ्कारस्तत्तदाप्त्यादिगुणविशिष्टस्तस्मै तस्मै कामावाप्त्यादिफलायोपास्यत्वेनाधिक्रियत इत्यपेक्षायामुद्गीथपदेनेति विशिष्यते । उद्गीथपदेनोंकाराद्यवयवघटितसामभक्तिभेदाभिधायिना समुदायस्यावयवभावानुपपत्तेस्तत्सम्बन्ध्यवयव ओङ्कारो लक्ष्यते, न पुनरोङ्कारेणावयविन उद्गीथस्य लक्षणा । ओङ्कारस्यैवोपरिष्टात्तु तत्तद्गुणविशिष्टस्य तत्तत्फलविशिष्टस्य चोपव्याख्यास्यमानत्वात् । दृष्टश्च समुदायशब्दोऽवयवे लक्षणया यथा ग्रामो दग्धः पटो दग्ध इति तदेकदेशदाहे । अध्यासे तु लक्षणा फलकल्पना च । तथाहि आप्त्यादिगुणकप्रणवोपासनादिदमुद्गीथतोपासनं प्रणवस्यान्यत् । नचात्राप्यादि उपासनेष्विव फलं श्रूयते । तस्मात्कल्पनीयम् । उद्गीथसम्बन्धिप्रणवोपासनाधिकारपरे वाक्ये नायं दोषः । अपिच गौण्या वृत्तेर्लक्षणावृत्तिर्बलीयसी लाघवात् । लक्षणाया हि लक्षणीयपरत्वं पदस्य तस्यैव वाक्यार्थान्तर्भावात् । यथा गङ्गायां घोष इति लक्ष्यमाणस्य तीरस्य वाक्यार्थेऽन्तर्भावोऽधिकरणतया । गौर्वाहीक इत्यत्र तु गोसम्बन्धितिष्ठन्मूत्रपुरीषादिलक्षणया न तत्परत्वं गोशब्दस्य । अपितु तत्कक्षाध्यवसिततद्गुणयुक्तवाहीकपरत्वमिति गौण्या वृत्तेर्दुर्बलत्वम् ।

तदिदमुक्तं –

लक्षणायामपि त्विति ।

गौण्यपि वृत्तिर्लक्षणावयवत्वाल्लक्षणोक्ता । यद्यपि वैश्वदेवीपदमामिक्षायां प्रवर्तते तथाप्यर्थभेदः स्फुटतरः । आमिक्षापदं हि रूपेणामिक्षायां प्रवर्तते । वैश्वदेवीपदं तु तस्यामेव विश्वदेवविशिष्टायाम् । एवं हि विज्ञानानन्दयोरपि स्फुटतरः प्रवृत्तिनिमित्तभेदः सत्यपि ब्रह्मण्यैकार्थ्ये । नच व्याख्यानमुभयोरपि प्रसिद्धार्थत्वाद्भिन्नार्थत्वाच्च । शेषमतिरोहितार्थम् ॥ ९ ॥

व्याप्तेश्च समञ्जसम् ॥९॥ ओमित्येतदक्षरम् उद्गीथमिति वाक्ये ओंकारस्योद्गीथेन विशेषणमर्थं सिद्धवत्कृत्य प्रकमभेदाद्विद्याभेदो दर्शितः , इदानीं स एवार्थश्चिन्त्यते । भाष्ये भेदबुद्धावनुवर्तमानायामन्यतरबुद्धिरध्यास इत्यध्यासलक्षणमुक्तम् ।

तदयुक्तम् ; स्मृतिरूप इत्यत्राविवेकपूर्वकत्वस्य वर्णितत्वादत आह –

गौणी बुद्धिरध्यास इति ।

उक्तानीति ।

भाष्ये यथाश्रुतान्येव ग्राह्याणि न व्याख्यानापेक्षाणीत्यर्थः ।

उद्गीथोङ्कारशब्दयोरैकार्थ्ये पर्यायत्वात्सहप्रयोगादेकत्वपक्षानुत्थानमाशङ्क्याह –

ऐकार्थेऽपीति ।

भाष्यमुपादत्ते – इदमुच्यत इतीति शब्दो द्रष्टव्यः ।

ओंकारस्य शब्दविशेषस्य कथं वेदव्याप्तिरत आह –

प्रत्यनुवाकमिति ।

यजुर्वेदे अध्ययनप्रवचनयोः प्रत्यनुवाकमुपक्रमसमाप्तौ चोङ्कार उच्चार्यते , ऋग्वेदे तु प्रत्यृचम् ।

अत एव सामवेदेऽपि ऋगध्यूढत्वात् साम्न इति सर्ववेदे व्यापक कारः , प्रतिवेदंच स्वरादिभेदाद् भिद्यते ।तद्विशेषप्रतिपत्त्यर्थमुद्गीथविशेषणमित्याह –

किंगतोऽयमिति ।

विशेषणे च प्रयोजनमाह –

तत्तदाप्त्यादीति ।

आदिशब्देन समृद्धिरसतमत्वादि गृह्यते । आप्तिः कामप्रापकत्वम् । अधिक्रियते प्रतिपाद्यते ।

ननु संभवे व्यभिचारे च विशेषणमर्थवत् , तत्र सर्ववेदव्यापकत्वाद्विशेष्यस्योङ्कारस्य भवतु विशेषणेन व्यभिचारः , संभवस्तु विशेष्ये ओंकारे विशेषणस्योद्गीथत्वस्य नोपपद्यते ; उद्गीथशब्दस्य सकलभक्तिवाचित्वाद् भक्तित्वस्य च भक्तयवयवे ओंकारेऽनुपपत्तेरत आह –

उद्गीथपदेनेति ।

स्यादेतत् – उद्गीथशब्दस्य किमित्यवयवलक्षणार्थत्वम् ? औंकारशब्दस्य एवोद्गीथभक्तिनीमवयविनीं लक्षयतु , तदापि शब्दयोः सामानाधिकरण्यसंभवादत आह –

न पुनरोंकारेणेति ।

खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ; आपयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते इत्यादिना प्रणवस्यैवाप्त्यादिगुणविशिष्टस्य तादृक्फलविशिष्टस्य चोपव्याख्यास्यमानत्वात् , प्रधाने न लक्षणानुपपत्तेरुद्गीथशब्द एव लाक्षणिक इत्यर्थः । ओंकारेण भक्तिलक्षणायां वैयर्थ्यं च स्याद् , उद्गीथपदेन भक्तिविशेस्यैव व्यभिचाराभावादित्यपि द्रष्टव्यम् । निरूढा चेयं लक्षणा न सांप्रतिकी स्यादित्यर्थः । इयं च वक्ष्यमाणन्यायेन गौण्येव लक्षणेत्युक्तेति ।

ननु किमिति फलकल्पना ? आप्त्यादिफलस्य श्रुतत्वादत आह –

आप्त्यादिगुणकेति ।

ओंकार उद्गीथदृष्टेस्तस्मिन्नाप्त्यादिगुणदृष्टेस्तस्मिन्नाप्त्यादिदृष्टेश्चोपास्यरूपभेदाद्भेद इत्यर्थः ।

सिद्धान्ते फलकल्पनां वारयति –

उद्गीथसंबन्धीति ।

उद्गीथभक्तिसंबन्धिनः प्रणवस्योपासनाया अधिकारप्रतिपादनं , तत्परे तु वाक्ये न फलकल्पनादोषः । आप्त्यादिदृष्टीर्विधातुमोमित्येतदक्षरमिति वाक्येन विशिष्टप्रणवसमर्पणेन पृथगुपासनविध्यभावादाप्त्यादिगुणविशिष्टप्रणवोपास्तेश्चापयिता ह वै कामानां भवतीत्यादिना फलश्रवणाच्चेत्यर्थः । विषयतया ओंकार उद्गीथदृष्टिविधौ हि गौण्युद्गीथशब्दस्य वृत्तिः स्यात् । उद्गीथ दृष्टिविषयत्वं च गुणः । ततश्चोद्गीथदृष्टिदृष्टत्वादोङ्कार उद्गीथ इत्यर्थः संपद्यते । न पुनरुद्गीथेनोङ्कारलक्षणा तथा सति दृष्टिविध्यसिध्देः । सिद्धान्ते त्ववयविवचनेनोद्गीथशब्देनावयवलक्षणा ।

ततः किं जातमत आह –

गौण्या वृत्तेरिति ।

वाच्यमर्थं विहाय यद्वस्तु लक्ष्यते तन्मात्रपरत्वलक्षणायाम् इत्यव्यवधानमुक्त्वा गौण्या लक्षणीयार्थद्वाराऽर्थान्तरे शब्दस्य वृत्तेर्व्यवधानमाह –

गौर्वाहीक इति ।

लक्षणायामपीति ।

भाष्ये पूर्वपक्षेऽपि लक्षणाऽभ्युपगमो न युक्तः , तत्र गौणी वृत्तिरित्युक्तत्वादत आह –

गौण्यपीति ।

लक्षणा गुणविषयावयव एकदेशो यस्याः साः तथोक्ता ।

एवमध्यासपक्षं दूषयित्वैकत्वपक्षं दूषयति –

यद्यपीति ।

वैश्वदेव्यादिशब्दे लक्ष्यैक्येऽपि वाच्यभेदान्न पर्यायत्वं , तव तु वाच्याभेदात्पर्यायत्वमित्यर्थः । ननु पर्यायत्वेऽपि करिसिन्धुरादिशब्दानां सहप्रयोग उक्तस्तत्राह – न च व्याख्यानमिति ॥९॥

इति चतुर्थं व्याप्त्यधिकरणम् ॥