सर्वाभेदादन्यत्रेमे ।
एवंशब्दस्य सन्निहितप्रकारभेदपरामर्शार्थत्वात्साक्षाच्छब्दोपस्थापितस्य च संनिधानाच्छाखान्तरगतस्य चानुक्रमतया( ? ) संनिधानाभावान्न कौषीतकिप्राणसंवादवाक्ये प्राणस्य वसिष्ठत्वादिभिर्गुणैरुपास्यत्वमपि तु ज्येष्ठश्रेष्ठत्वमात्रेणेति पूर्वः पक्षः । सिद्धान्तस्तु - सत्यं संनिहितं परामृशति एवंकारो न तु शब्दोपात्तमात्रं संनिहितम् । किन्तु यच्छब्दाभिहितार्थनान्तरीयकतया प्राप्तं तदपि हि बुद्धौ संनिहितं संनिहितमेव । यथा “यस्य पर्णमयी जुहूर्भवति” इत्यव्यभिचरितक्रतुसमन्वयया जुह्वोपस्थापितः क्रतुः । तस्मादुपास्यफलप्रत्यभिज्ञानात्तदव्यभिचारिणः प्रकारभेदस्येहानुक्तस्यापि बुद्धौ संनिधानात्प्रकृतपरामर्शिनैवङ्कारेण परामर्शो युक्त इति सिद्धं कौषीतकिब्राह्मणगतेन तावदेवंकारेण शक्यते पराम्रष्टुम् ।
तथाप्यभ्युपेत्यापि ब्रूम इत्याशयवता भाष्यकृतोक्तम् –
तथापि तस्मिन्नेव विज्ञाने वाजसनेयिब्राह्मणगतेनेति ।
श्रुतहानिरिति ।
केवलस्य श्रुतस्य हानिरितरसहितस्य चाश्रुतस्य कल्पना न चेत्यर्थः । अतिरोहितमन्यत् ॥ १० ॥
सर्वाभेदादन्यत्रेमे ॥१०॥
ओंकारस्य सर्वस्य प्राप्तावुद्गीथमिति विशेषणादन्यव्यावृत्तिवदेवं विद्वानित्येवंशब्दात्संनिहितावलम्बनादसन्निहितस्य विद्यैक्यद्वाराऽनुमानात् प्राप्नुवतो वसिष्ठत्वादेर्व्यावृत्तिरिति पूर्वपक्षमाह –
एवंशब्दस्येति ।
ननु कौषीतकिवाक्यं , वसिष्ठत्वादिमत्प्राणविषयं , श्रैष्ठ्यादिगुणकप्राणोपास्तिपरत्वाद् , वाजसनेयिवाक्यवदित्यनुमानाद्वसिष्ठत्वादिकमपि सन्निहितमिति नेत्याह –
साक्षादिति ।
अशाब्दस्य शाब्देनाऽनन्वयात् । न हि गामानयेति वाक्यार्थे प्रत्यक्षदृष्टोघटोऽन्वेतीति । फलविधिपरे एवं विद्वानिति वाक्येऽन्यव्यावृत्तिपरत्वमेवंशब्दस्य न युक्तम् ; वाक्यभेदप्रसङ्गादिति केशवोक्तमयुक्तम् ; व्यावृत्तिपरेऽपि वाक्ये विद्यैक्यद्वारप्राप्तशाखान्तरीयफलसंबन्धानुवादात् कुतो वाक्यभेदः ? सत्यम् , अशाब्दं शाब्दे नान्वेति सन्निधिमात्रमभिदधतस्त्वेवंशब्दस्य शाखान्तरीयमपि वसिष्ठत्वादिकं गुणिद्वारेण सन्निहितमभिधेयमिति भवति शाब्दम् ।
अतश्च वाक्यार्थेऽन्वेतीति सिद्धान्तयति –
सत्यमित्यादिना ।
एवं च सिद्धान्ते सन्निहितसमस्तधर्मपरामर्शिन एवंशब्दस्यानुवादकत्वात् फलपरत्वमेव कौषीतकिवाक्यस्येति वेदितव्यम् । जुह्वोपस्थापितक्रतुः सन्निहितः , स च जुह्वपदस्य लक्ष्य इति नाशाब्द इत्यर्थः ।
उपास्यफलप्रत्यभिज्ञानादिति ।
उपास्यप्राणस्य प्रत्यभिज्ञानात्तदाप्तिलक्षणफलस्य प्रत्यभिज्ञानाच्चेत्यर्थः ।
भाष्ये कौषीतकीब्राह्मणगतेनैवंशब्देन वाजसनेयिब्राह्मणगतगुणपरामर्शाभावाङ्गीकारो न युक्तः ; उक्तप्रकारेण तत्परामर्शस्यापि संभवादत आह –
तथापीति ।
शाखान्तरीयगुणोपसंहारेऽपि स्वशाखागतगुणस्वीकारात्कथं श्रुतहानिप्रसक्तिर्यतो भाष्ये निषिध्यतेऽत आह –
केवलस्येति ।
केवला हि स्वशाखायां श्रुतास्तेषां कैवल्यहानिरश्रुतोपसंहारे सतीति शङ्केत्यर्थः ॥१०॥ निःश्रेयसं श्रैष्ठ्यं तस्यादानं निर्धारणं प्रस्तूयत इत्यर्थः । अहंश्रेयसे आत्मश्रेष्ठत्वाय । यथा प्राणो वागादिभ्यः श्रेष्ठस्तथा उ । तथा उशब्दोऽप्यर्थः । एवं विद्वानपि प्राणे श्रैष्ठ्यं विदित्वा उपास्यप्राणात्मत्वप्राप्त्या श्रैष्ठ्यादिगुणान्वितो भवति ॥