भामतीव्याख्या
वेदान्तकल्पतरुः
 

आनन्दादयः प्रधानस्य ।

गुणवदुपासनाविधानस्य वास्तवगुणव्याख्यानाद्विवेकार्थमिदमधिकरणम् । यथैकस्य ब्रह्मणः । संयद्वामत्वादयः सत्यकामादयश्च गुणा न सङ्कीर्येरन् । एवमानन्दविज्ञानत्वादयो विभुत्वनित्यत्वादिभिर्गुणैः प्रदेशान्तरोक्तैर्न सङ्कीर्येरन् । तत्सङ्करे वा संयद्वामत्वादयोऽपि सत्यकामादिभिः सङ्कीर्येरन् । नहि ब्रह्मणो धर्मिणः सत्त्वे कश्चिद्विशेष इति पूर्वः पक्षः । राद्धान्तस्तु वास्तवविधेययोर्वस्तुधर्मतया चानुष्ठेयतया चाव्यवस्थाव्यवस्थे व्यवतिष्ठेते । वस्तुधर्मो हि यावद्वस्तु व्यवतिष्ठते । नासावेकत्रोक्तोऽन्यत्रानुक्तो नास्तीति शक्यं वक्तुम् । विधेयस्तु पुरुषप्रयत्नतन्त्रः पुरुषप्रयत्नश्च यत्र यावद्गुणविशिष्टे ब्रह्मणि चोदितः स तावत्येवावतिष्ठते नाविहितमपि गुणं गोचरीकर्तुमर्हति । तस्य विधितन्त्रत्वाद्विधेश्च व्यवस्थानात् । तस्मादानन्दविज्ञानादयो ब्रह्मतत्त्वात्मतयोक्ता यत्र यत्र ब्रह्म श्रूयते तत्र तत्रानुक्ता अपि लभ्यन्ते । संयद्वामादयश्चोपासनाप्रयत्नविधिविषया यथाविध्यवतिष्ठन्ते न तु यथावस्त्विति सिद्धम् । प्रियशिरस्त्वादीनां तूपास्यत्वमारोप्य न्यायो दर्शितः । तस्य ( ? )तु संयद्वामादिरुक्तः । मोदनमात्रं मोदः । प्रमोदः प्रकृष्टो मोदस्ताविमौ परस्परापेक्षावुपचयापचयौ ॥ ११ ॥

प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ १२ ॥

इतरे त्वर्थसामान्यात् ॥ १३ ॥

आनन्दादयः प्रधानस्य ॥११॥ प्राणस्य सविशेषत्वाद्युक्तः शाखान्तरीयवसिष्ठत्वाद्युपसंहारः , ब्रह्मणस्तु निर्विशेषत्वात् स्वशाखागतधर्मैरेव प्रमितिसिद्धेर्नानन्दाद्युपसंहार इति प्रत्यवस्थानात्सङ्गतिः । ननु वेद्यब्रह्मैक्याद् गुणोपसंहार उत्सर्गप्राप्तः ।

न चात्रापवादकमेवंशब्दवत् किंचिदुपलभ्यते तत्किमर्थमधिकरणमारभ्यते ? अत आह –

गुणविधानस्येति ।

यद्यानन्दादयो ब्रह्मैक्यात्सर्वशाखासूपसंह्रियेरन् , तर्हि संयद्वामत्वादयः किमिति नोपसंहृता इति प्रतिबन्द्याशङ्कायां संयद्वामत्वादय उपासनार्थं विधेया विधिप्रयुक्तापूर्वस्य चानिर्ज्ञातपरिमाणत्वादपूर्वप्रयुक्तधर्माणां यथाविधि व्यवस्था , सत्यज्ञानादयस्तु वस्तुतत्त्वप्रमित्यर्था इति यत्र यत्र वस्तुतत्त्वप्रतिपत्तिस्तत्र तत्र नेतव्या इति विशेषप्रदर्शनेन प्रतिबन्दीं परिहर्तुमयमारम्भ इत्यर्थः । शिष्टं स्पष्टार्थम् । यत्तु - निर्विशेषे पदान्तरवैयर्थ्यादनुपसंहारः – इति , तत्रोच्यते ; सत्यज्ञानानन्दानन्तात्मत्वपदार्था इतरेतरं विशेषणविशेष्यभूता विरुद्धानृतजडदुःखपरिच्छेदानात्मताभ्रान्तीर्व्यावर्तयन्तः सत्तादिपरापरसामान्याधारभूतामेकामानन्दव्यक्तिं लक्षयन्ति सद् द्रव्यं कुम्भ इति पदानीव कुम्भव्यक्तिम् । एतादृशब्रह्मसिद्धिश्च नैकस्मात्पदात्तन्मात्रप्रयोगे विरोधाभावाल्लक्षणाया अनुत्थानात्प्रयोक्तव्ये च पदान्तरे यावन्त्यो भ्रान्तयः संभाव्यन्ते , तन्निरसनसमर्थपदवृन्दं प्रयोक्तव्यमिति समारोपितभ्रमनिरसनसमर्थं पदार्थवृन्दं सर्वत्रोपसंहर्तव्यमिति ॥११॥१२॥१३॥

इति षष्ठमानन्दाद्यधिकरणम् ॥