वेधाद्यर्थभेदात् ।
विचारविषयं दर्शयति –
आथर्वणिकानामिति ।
आथर्वणिकाद्युपनिषदारम्भे ते ते मन्त्रास्तानि तानि च प्रवर्ग्यादीनि कर्माणि समम्नातानि ।
संशयमाह –
किमिम इति ।
पूर्वपक्षं गृह्णाति –
उपसंहार एवैषां विद्यास्विति ।
सफला हि सर्वा विद्या आम्नातास्तत्सन्निधौ मन्त्राः । कर्माणि च समाम्नातानि “फलवत्सन्निधावफलं तदङ्गम्” इति न्यायाद्विद्याङ्गाभावेन विज्ञायन्ते ।
चोदयति –
नन्वेषामिति ।
नह्यत्र श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानानि सन्ति विनियोजकानि प्रमाणानि, नहि यथा दर्शपूर्णमासावारभ्य समिदादयः समाम्नातास्तथा काञ्चिद्विद्यामारभ्य मन्त्रा वा कर्माणि वा समाम्नातानि । न चासति सामान्यसम्बन्धे सम्बन्धिसंनिधानमात्रात्तादर्थ्यसम्भवः । नच श्रुतस्वाङ्गपरिपूर्णा विद्या एतानाकाङ्क्षितुमर्हति येन प्रकरणापदितसामान्यसम्बन्धानां संनिधिर्विशेषसम्बन्धाय भवेदित्यर्थः ।
समाधत्ते –
बाढमनुपलभमाना अपीति ।
मा नाम भूत्फलवतीनां विद्यानां परिपूर्णाङ्गानामाकाङ्क्षा ॥ मन्त्राणां तु स्वाध्यायविध्यापादितपुरुषार्थभावानां कर्मणां च प्रवर्ग्यादीनां स्वविध्यापादितपुरुषार्थभावानां पुरुषाभिलषितमाकाङ्क्षतां संनिधानादन्यतराकाङ्क्षानिबन्धो रक्तपटन्यायेन सम्बन्धः । तत्रापि च विद्यानां फलवत्त्वात्तादर्थ्यमफलानां मन्त्राणां कर्मणां च । नच प्रवर्ग्यादीनां पिण्डपितृयज्ञवत्स्वर्गः कल्पनास्पदं, फलवत्संनिधानेन तदवरोहात् ।
अनुमानस्यामहे संनिधिसामर्थ्यादिति ।
इदं खलु निवृत्ताकाङ्क्षाया विद्यायाः संनिधाने श्रुतमनाकाङ्क्षाया साकाङ्क्षस्यापि सम्बद्धुमसामर्थ्यात्तस्या अप्याकाङ्क्षामुत्थापयति । उत्थाप्य चैकवाक्यतामुपैति । असमर्थस्य चोपकारकत्वानुपपत्तेः प्रकरणिनं प्रति उपकारसामर्थ्यमात्मनः कल्पयति । नच सत्यपि सामर्थ्ये तत्र श्रुत्या अविनियुक्तं सदङ्गतामुपगन्तुमर्हतीत्यनया परम्परया संनिधिः श्रुतिमर्थापत्त्या कल्पयति ।
आक्षिपति –
ननु नैषां मन्त्राणामिति ।
प्रयोगसमवेतार्थप्रकाशनेन हि मन्त्राणामुपयोगो वर्णितः “अविशिष्टस्तु वाक्यार्थः” इत्यत्र । नच विद्यासम्बद्धं कञ्चनार्थं मन्त्रेषु प्रतीमः । यद्यपि च प्रवर्ग्यो न किञ्चिदारभ्य श्रूयते तथापि वाक्यसंयोगेन क्रतुसंयोगेन क्रतुसम्बन्धं प्रतिपद्यते । “पुरस्तादुपसदां प्रवर्ग्येण प्रचरन्ति” इति । उपसदां जुहूवदव्यभिचरितक्रतुसम्बन्धत्वात् । यद्यपि ज्योतिष्टोमविकृतावपि सन्त्युपसदस्तथापि तत्रानुमानिक्यो ज्योतिष्टोमे तु प्रत्यक्षविहितास्तेन शीघ्रप्रवृत्तितया ज्योतिष्टोमाङ्गतैव वाक्येनावगम्यते । अपिच प्रकृतौ विहितस्य प्रवर्ग्यस्य चोदकेनोपसद्वत्तद्विकृतावपि प्राप्तिः ।
प्रकृतौ वा अद्विरुक्तत्वादिति न्यायाज्ज्योतिष्टोमे एव विधानमुपसदा सह युक्तं, तदेतदाह –
कथं च प्रवर्ग्यादीनीति ।
संनिधानादर्थविप्रकर्षेण वाक्यं बलीय इति भावः ।
समाधत्ते –
नैष दोषः । सामर्थ्यं तावदिति ।
यथा “अग्नये त्वा जुष्टं निर्वपामि” इति मन्त्रे अग्नये निर्वपामीति पदे कर्मसमवेतार्थप्रकाशके । शिष्टानां तु पदानां तदेकवाक्यतया यथाकथञ्चिद्व्याख्यानमेवमिहापि हृदयपदस्योपासनायां समवेतार्थत्वात्तदनुसारेण तदेकवाक्यतापन्नानि पदान्तराणि गौण्या लक्षणया च वृत्त्या कथञ्चिन्नेयानीति नासमवेतार्थता मन्त्राणाम् ।
नच मन्त्रविनियोगो नोपासनेषु दृष्टो येनात्यन्तादृष्टं कल्प्यत इत्याह –
दृष्टश्चोपासनेष्विति ।
यद्यपि वाक्येन बलीयसा संनिधिर्दुर्बलो बाध्यते तथापि विरोधे सति । न चेहास्ति विरोधः । वाक्येन विनियुक्तस्यापि ज्योतिष्टोमे प्रवर्ग्यस्य संनिधिना विद्यायामपि विनियोगसम्भवात् । यथा “ब्रह्मवर्चसकामो बृहस्पतिसवेन यजेत” इति ब्रह्मवर्चसफलोऽपि बृहस्पतिसवो वाजपेयाङ्गत्वेन चोद्यते वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेति । अत्र हि क्त्वः समानकर्तृकत्वमवगम्यते धातुसम्बन्धे प्रत्ययविधानात् । धात्वर्थान्तरसम्बन्धश्च कथं च समानः कर्ता स्यात् । यद्येकः प्रयोगो भवेत् । प्रयोगाविष्टं हि कर्तृत्वम् । तच्च प्रयोगभेदे कथमेकम् । तस्मात्समानकर्तृकत्वादेकप्रयोगत्वं वाजपेयबृहस्पतिसवयोर्धात्वर्थान्तरसम्बन्धाच्च । नच गुणप्रधानभावमन्तरेणैकप्रयोगता सम्बन्धश्च तत्रापि वाजपेयस्य प्रकरणे समाम्नानाद्वाजपेयः प्रधानम् । अङ्गं बृहस्पतिसवः । नच “दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत” इत्यत्राङ्गप्रधानभावप्रसङ्गः । नह्येतद्वचनं कस्यचिद्दर्शपूर्णमासस्य सोमस्य वा प्रकरणे समाम्नातम् । तथाच द्वयोः साधिकारतया अगृह्यमाणविशेषतया गुणप्रधानभावं प्रति विनिगमनाभावेनाधिष्ठानमात्रविवक्षया लाक्षणिकं समानकर्तृकत्वमित्यदोषः । यदि तु कस्याञ्चिच्छाखायामारभ्याधीतं दर्शपूर्णमासाभ्यामिष्ट्वेति । तथाप्यनारभ्याधीतस्यैवारभ्याधीते प्रत्यभिज्ञानमिति युक्तम् । तथा सति द्वयोरपि पृथगधिकारतया प्रतीतं समप्रधानत्वमत्यक्तं भवेदितरथा तु गुणप्रधानभावेन तत्त्यागो भवेत् । तस्मात्कालार्थोऽयं संयोग इति सिद्धम् ।
सिद्धान्तमुपक्रमते –
एवं प्राप्त इति ।
हृदयं प्रविध्येत्ययं मन्त्रः स्वरसतस्तावदाभिचारिककर्मसमवेतं सकलैरेव पदैरर्थमभिदधदुपलभ्यते तदस्याभिधानसामर्थ्यलक्षणं लिङ्गं वाक्यप्रकरणाभ्यां क्रमाद्बलीयोभ्यामपि बलवत्किमङ्ग पुनः क्रमात् , तस्माल्लिङ्गेन संनिधिमपोद्याभिचारिककर्मशेषत्वमेवापाद्यते । यद्यपि चोपासनासु हृदयपदमात्रस्य समवेतार्थत्वम् । तथापि तदितरेषां सर्वेषामेव पदानामसमवेतार्थत्वम् । आभिचारिके तु कर्मणि सर्वेषामर्थसमवाय इति किमेकपदसमवेतार्थता करिष्यति । नच संनिध्युपगृहीतासूपासनासु मन्त्रमवस्थापयतीति युक्तम् । हृदयपदस्याभिचारेऽपि समवेतार्थस्येतरपदैकवाक्यतापन्नस्य वाक्यप्रमाणसहितस्याभिचारिकात्कर्मणः संनिधिनाचालयितुमशक्यत्वादेवं “देव सवितः प्रसुव यज्ञम्” इत्यादेरपि यज्ञप्रसवलिङ्गस्य यज्ञाङ्गत्वे सिद्धे जघन्यो विद्यासंनिधिः किं करिष्यति । एवमन्येषामपि श्वेताश्व इत्येवमादीनां केषाञ्चिल्लिङ्गेन केषाञ्चिच्छुत्या केषाञ्चित्प्रमाणान्तरेण प्रकरणेनेति ।
कस्मात्पुनः संनिधिर्लिङ्गादिभिर्बाध्यते इत्यत आह –
दुर्बलो हि संनिधिरिति ।
प्रथमतन्त्रगतोऽर्थः स्मार्यते । तत्र तु श्रुतिलिङ्गयोः समवाये समानविषयत्वलक्षणे विरोधे किं बलीय इति चिन्ता । अत्रोदाहरणमस्त्यैन्द्री ऋक् “कदाचन स्तरीरसि नेन्द्र” इत्यादिका श्रुतिर्विनियोक्त्री “ऐन्द्र्या गार्हपत्यमुपतिष्ठते” इति । अत्र हि सामर्थ्यलक्षणाल्लिङ्गादिन्द्रे विनियोगः प्रतिभाति । श्रुतेश्च गार्हपत्यमिति द्वितीयातो गार्हपत्यस्य शेषित्वमैन्द्र्येति चतृतीयाश्रुतेरैन्द्र्या ऋचः शेषत्वमवगम्यते । यद्यपि गार्हपत्यमिति द्वितीयाश्रुतेराग्नेयीमृचं प्रति गार्हपत्यस्य शेषित्वेनोपपत्तेः । यद्यपि चैन्द्र्येति च तृतीयाश्रुतेरैन्द्र्या इन्द्रं प्रति शेषत्वनोपपत्तेरविरोधः । पदान्तरसम्बन्धे तु वाक्यस्यैव लिङ्गेन विरोधो न तु श्रुतेः । तत्र च विपरीतं बलाबलम् । तथापि श्रुतिवाक्ययो रूपतो व्यापारभेदाददोषः । द्वितीयातृतीयाश्रुती हि कारकविभक्तितया क्रियां प्रति प्रकृत्यर्थस्य कर्मकरणभावमवगमयत इति विनियोजिके । क्रियां प्रति हि कर्मणः शेषित्वं करणस्य च शेषत्वमिति हि विनियोगः । पदान्तरानपेक्षे च क्रियां प्रति शेषशेषित्वे श्रुतिमात्रात्प्रतियेते इति श्रौते । सोऽयं श्रुतितः सामान्यावगतो विनियोगः पदान्तरवशाद्विशेषेऽवस्थाप्यते । सोऽयं विशेषणविशेष्यभावलक्षणः सम्बन्धो वाक्यगोचरः, शेषशेषिभावस्तु श्रौतः, तस्माद्वाक्यलभ्यं विशेषमपेक्ष्य श्रौतः शेषशेषिभावो लिङ्गेन विरुध्यत इति श्रुतिलिङ्गविरोधे किं लिङ्गानुगुणेन गार्हपत्यमिति द्वितीयाश्रुतिः सप्तम्यर्थे व्याख्यायतां गार्हपत्यसमीपे ऐन्द्र्येन्द्र उपस्थेय इति । आहो श्रुत्यनुगुणतया लिङ्गं व्याख्यायताम् । प्रभवति हि स्वोचितायां क्रियायां गार्हपत्य इतीन्द्र इन्द्रतेरैश्वर्यवचनत्वादिति । किं तावत्प्राप्तं श्रुतेर्लिङ्गं बलीय इति । नो खलु यत्रासमर्थं तच्छ्रुतिसहस्रेणापि तत्र विनियोक्तुं शक्यते । यथा अग्निना सिञ्चेत्पाथसा दहेदिति । तस्मात्सामर्थ्यं पुरोधाय श्रुत्या विनियोक्तव्यम् । तच्चास्या ऋचः प्रमाणान्तरतः शब्दतश्च इन्द्रे प्रतीयते । तथाहि विदितपदतदर्थः कदाचनेत्यृचः स्पष्टमिन्द्रमवगच्छति, शब्दाच्चैन्द्र्येत्यतः । तस्माद्दारुदहनस्येव दहनस्य सलिलदहने विनियोगो गार्हपत्ये विनियोग ऐन्द्र्याः । नच श्रुत्यनुरोधाज्जघन्यामास्थाया वृत्तिं सामर्थ्यकल्पनेति साम्प्रतम् । सामर्थ्यस्य पूर्वभावितया तदनुरोधेनैव श्रुतिव्यवस्थापनात् । तस्मादैन्द्र्येन्द्र एव गार्हपत्यसमीप उपस्थातव्य इति प्राप्तेऽभिधीयते “लिङ्गज्ञानं पुरोधाय न श्रुतेर्विनयोक्तृता । श्रुतिज्ञानं पुरोधाय लिङ्गं तु विनियोजकम्” । यदि हि सामर्थ्यमवगम्य श्रुतेर्विनियोगमवधारयेत्प्रमाता ततः श्रुतेर्विनियोगं प्रति लिङ्गज्ञानापेक्षत्वाद्दुर्बलत्वं भवेत् । न त्वेतदस्ति । श्रुतिर्विनियोगाय सामर्थ्यमपेक्षते नापेक्षते सामर्थ्यविज्ञानम् । अवगते तु ततो विनियोगे नासमर्थस्य स इति तन्निर्वाहाय सामर्थ्यं कल्प्यते । तच्छ्रुतिविनियोगात्पूर्वमस्ति सामर्थ्यम् । न तु पूर्वमवगम्यते । विनियोगे तु सिद्धे तदन्यथानुपपत्त्या पश्चात्प्रतीयत इति श्रुतिविनियोगात्पराचीना सामर्थ्यप्रतीतिस्तदनुरोधेनावस्थापनीया । लिङ्गं तु न स्वतो विनियोजकमपि तु विनियोक्त्रीं कल्पयित्वा श्रुतिम् । तथाहि न स्वरसतो लिङ्गादनेनेन्द्र उपस्थातव्य इति प्रतीयते, किन्त्वीदृगिन्द्र इति तस्य तु प्रकरणाम्नानसामर्थ्यात्सामान्यतः प्रकरणापादितैदमर्थ्यस्य तदन्यथानुपपत्त्या विनियोगकल्पनायामपि श्रौताद्विनियोगात्कल्पनीयस्य विनियोगस्यार्थविप्रकर्षाच्छ्रुतिरेव कल्पयितुमुचिता न तु तदर्थो विनियोगः । नहि श्रुतमनुपपन्नं शक्यमर्थेनोपपादयितुम् । नहि त्रयोऽत्र ब्राह्मणाः कठकौण्डिन्याविति वाक्यं प्रमाणान्तरोपस्थापितेन माठरेणोपपादयन्ति, उपपादयतो वा नोपहसन्ति । शाब्दाः । माठरश्चेति तु श्रावयन्तमनुमन्यन्ते । तस्माच्छ्रुतार्थसमुत्थानानुपपत्तिः श्रुतेनैवार्थान्तरेणोपपादनीया, नार्थान्तरमात्रेण प्रमाणान्तरोपनीतेनेति लोकसिद्धम् । नच लोकसिद्धस्य नियोगानुयोगौ युज्येते शब्दार्थज्ञानोपायभूतलोकविरोधात् । तस्माद्विनियोजिका श्रुतिः कल्पनीया । तथाच यावल्लिङ्गाद्विनियोजिकां श्रुतिं कल्पयितुं प्रक्रान्तव्यापारस्तावत्प्रत्यक्षया श्रुत्या गार्हपत्ये विनियोगः सिद्ध इति निवृत्ताकाङ्क्षं प्रकरणमिति कस्यानुपपत्त्या लिङ्गं विनियोक्त्रीं श्रुतिमुपकल्पयेत् । मन्त्रसमाम्नानस्य प्रत्यक्षयैव विनियोगश्रुत्योपपादितत्वात् । यथाहुः “यावदज्ञातसन्दिग्धं ज्ञेयं तावत्प्रमित्स्यते । प्रमिते तु प्रमातॄणां प्रमौत्सुक्यं विहन्यते” इति । तस्मात्प्रतीतश्रौतविनियोगोपपत्त्यै मन्त्रस्य सामर्थ्यं तदनुगुणत्वेन नीयमानं प्रथमां वृत्तिमजहज्जघन्ययापि नेयमिति सिद्धम् । लिङ्गवाक्ययोरिह विरोधो यथा “स्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्पयामि । तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः” इति । किमयं कृत्स्न एव मन्त्रः सदनकरणे पुरोडाशासादने च प्रयोक्तव्य उत कल्पयाम्यन्त उपस्तरणे तस्मिन्त्सीदेत्येवमादिस्तु पुरोडाशासादन इति । यदि वाक्यं बलीयः कृत्स्नो मन्त्र उभयत्र, सुशेवं कल्पयामीत्येतदपेक्षो हि तस्मिन्सीदेत्यादिः पूर्वेणैकवाक्यतामुपैति यत्कल्पयामि तस्मिन्त्सीदेति । अथ लिङ्गं बलीयस्ततः कल्पयाम्यन्तः सदनकरणे तत्प्रकाशने हि तत्समर्थम् । तस्मिन्सीदेति पुरोडाशासादने तत्र हि तत्समर्थमिति । किं तावत्प्राप्तम् । लिङ्गाद्वाक्यं बलीय इत्युभयत्र कृत्स्नस्य विनियोग इति । इह हि यत्तत्पदसमभिव्याहारेण विभज्यमानसाकाङ्क्षत्वादेकवाक्यतायां सिद्धायां तदनुरोधेन पश्चात्तदभिधानसामार्थ्यं कल्पनीयम् । यथा देवस्यत्वेतिमन्त्रेऽग्नये निर्वपामीति पदयोः समवेतार्थत्वेन तदेकवाक्यतया पदान्तराणां तत्परत्वेन तत्र सामर्थ्यकल्पना । तदेवं प्रतीतैकवाक्यतानिर्वाहाय तदनुगुणतया सामर्थ्यं कॢप्तं सन्न तद्व्यापादयितुमर्हति, अपि तु विनियोजिकां श्रुतिं कल्पयत्तदनुगुणमेव कल्पयेत् । तथा च वाक्यस्य लिङ्गतो बलीयस्त्वात्सदनकरणे च पुरोडाशासाधने च कृत्स्न एव मन्त्रः प्रयोक्तव्य इति प्राप्तम् । एवं प्राप्ते उच्यते - भवेदेतदेवं यद्येकवाक्यतावगमपूर्वं सामर्थ्यावधारणमपि तु अवधृतसामर्थ्यानां पदानां प्रश्लिष्टपठितानां सामर्थ्यवशेन प्रयोजनैकत्वेनेकवाक्यत्वावधारणम् । यावन्ति पदानि प्रधानमेकमर्थमवगमयितुं समर्थानि विभागे साकाङ्क्षाणि तान्येकं वाक्यम् । अनुष्ठेयश्चार्थो मन्त्रेषु प्रकाश्यमानः प्रधानम् । सदनकरणपुरोडाशासादने चानुष्ठेयतया प्रधाने । तयोश्च सदनकरणं कल्पयाम्यन्तो मन्त्रः समर्थः प्रकाशयितुं पुरोडाशासादनं च तस्मिन्सीदेत्यादिः । ततश्च यावदेकवाक्यतावशेन सामर्थ्यमनुमीयते तावत्प्रतीतं सामर्थ्यमेकैकस्य भागस्यैकैकस्मिन्नर्थे विनियोजिकां श्रुतिं कल्पयति । तथाच श्रुत्यैवैकैकस्य भागस्यैकत्र विनियोगे सति प्रकरणपाठोपपत्तौ न वाक्यकल्पितं लिङ्गं विनियोजिकां श्रुतिमपरां कल्पयितुमर्हतीत्येकवाक्यताबुद्धिरुत्पन्नाप्याभासीभवति लिङ्गेन बाधनात् । यत्र तु विरोधकं लिङ्गं नास्ति तत्र समवेतार्थैकद्वित्रिपदैकवाक्यता पदान्तराणामपि सामर्थ्यं कल्पयतीति भवति वाक्यस्य विनियोजकत्वम् । यथात्रैव स्योनं त इत्यादीनाम् । तस्माद्वाक्याल्लिङ्गं बलीय इति सिद्धम् ॥ वाक्यप्रकरणयोर्विरोधोदाहरणम् । अत्र च पदानां परस्परापेक्षावशात्कस्मिंश्चिद्विशिष्ट एकस्मिन्नर्थे पर्यवसितानां वाक्यत्वं, लब्धवाक्यभावानां च पुनः कार्यान्तरापेक्षावशेन वाक्यान्तरेण सम्बन्धः प्रकरणम् । कर्तव्यायाः खलु फलभावनाया लब्धधात्वर्थकरणाया इतिकर्तव्यताकाङ्क्षाया वचनं प्रकरणमाचक्षते वृद्धाः । यथा “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इति । एतद्धि वचनं प्रकरणम् । तदेतस्मिन् स्वपदगणेन कियत्यप्यर्थे पर्यवसिते करणोपकारलक्षणकार्यान्तरापेक्षायां ‘समिधो यजति’ इत्यादिवाक्यान्तरसम्बन्धः । समिदादिभावना हि स्वविध्युपहिताः पुरुषे हितं भाव्यमपेक्षमाणा विश्वजिन्न्यायेन वानुषङ्गतो वार्थवादतो वा फलान्तराप्रतिलम्भेन दर्शपूर्णमासभावनां निर्वारयितुमीशते । तस्मात्तदाकाङ्क्षायामुपनिपतितान्येतानि वाक्यानि स्वकार्यापेक्षाणि तदपेक्षितकरणोपकारलक्षणं कार्यमासाद्य निवन्ति च निर्वारयन्ति च प्रधानम् । सोऽयमनयोर्नष्टाश्वदग्धरथवत्संयोगः । तदेवं लक्षणयोर्वाक्यप्रकरणयोर्विरोधोदाहरणं सूक्तवाकनिगदः । तत्र हि पौर्णमासीदेवता अमावस्यादेवताः समाम्नाताः । ताश्च न मिथ एकवाक्यतां गन्तुमर्हन्तीति लिङ्गेन पौर्णमासीयागादिन्द्राग्नीशब्द उत्क्रष्टव्यः अमावास्यायां च समवेतार्थत्वात्प्रयोक्तव्यः । अथेदानीं सन्दिह्यते किं यदिन्द्राग्निपदैकवाक्यतया प्रतीयते “अविवृधेथां महो ज्यायोऽकाताम्” इति तन्नोत्क्रष्टव्यमुतेन्द्राग्निशब्दाभ्यां सहोत्क्रष्टव्यमिति । तत्र यदि प्रकरणं बलीयस्ततोऽपनीतदेवताकोऽपि शेषः प्रयोक्तव्योऽथ वाक्यं ततो यत्र देवताशब्दस्तत्रैव प्रयोक्तव्यः । किं तावत्प्राप्तमपनीतदेवताकोऽपि शेषः प्रयोक्तव्यः प्रकरणस्यैवाङ्गसम्बन्धप्रतिपादकत्वात् । फलवती हि भावना प्रधानेतिकर्तव्यतात्वमापादयति । तदुपजीवनेन श्रुत्यादीनां विशेषसम्बन्धापादकत्वात् । अतः प्रधानभावनावचनलक्षणप्रकरणविरोधे तदुपजीविवाक्यं बाध्यत इति प्राप्तम् । एवं प्राप्त उच्यते भवेदेतदेवं यदि विनियोज्यस्वरूपसामर्थ्यमनपेक्ष्य प्रकरणं विनियोजयेत् । अपि तु विनियोगाय तदपेक्षतेऽन्यथा पूषाद्यनुमन्त्रणमन्त्रस्य द्वादशोपसत्तायाश्च नोत्कर्षः स्यात् । तद्रूपालोचनायां च यद्यदेव शीघ्रं प्रतीयते तत्तद्बलवद्विप्रकृष्टं तु दुर्बलम् । तत्र यदि तद्रूपं श्रुत्या लिङ्गेन वाक्येन वान्यत्र विनियुक्तं ततः प्रकरणं भङ्क्त्वोत्कृष्यते, परिशिष्टैस्तु प्रकरणस्येतिकर्तव्यतापेक्षा पूर्यते । अथ स्वस्य शीघ्रप्रवृत्तं श्रुत्यादि नास्ति ततः प्रकरणं विनियोजकम् । यथा समिदादेः । तदिह प्रकरणाद्वाक्यस्य शीघ्रप्रवृत्तत्वमुच्यते । प्रकरणे हि स्वार्थपूर्णानां वाक्यानामुपकार्योपकारकाकाङ्क्षामात्रं दृश्यते । वाक्ये तु पदानां प्रत्यक्षसम्बन्धः । ततश्च सह प्रस्थितयोर्वाक्यप्रकरणयोर्यावत्प्रकरणेनैकवाक्यता कल्प्यते तावद्वाक्येनाभिधानसामर्थ्यं, यावदितरत्र वाक्येन सामर्थ्यं तावदितरत्र सामर्थ्येन श्रुतिर्यावदितरत्र सामर्थ्येन श्रुतिस्तावदिह श्रुत्या विनियोगस्तावता च विच्छिन्नायामाकाङ्क्षायां श्रुत्यनुमाने विहते प्रकरणेनान्तरा कल्पितं विलीयन्त इति वाक्यबलीयस्त्वात्तद्देवताशेषणामपकर्ष एवेति सिद्धम् ॥ क्रमप्रकरणविरोधोदाहरणम् । राजसूयप्रकरणे प्रधानस्यैवाभिषेचनीयस्य संनिधौ शौनःशेपोपाख्यानाद्याम्नातं, तत्किं समस्तस्य राजसूयस्याङ्गमुताभिषेचनीयस्य । यदि प्रकरणं बलीयस्ततः समस्तस्य राजसूयस्य, अथ क्रमस्ततोऽभिषेचनीयस्यैवेति, किं तावत्प्राप्तम् । नाकाङ्क्षामात्रं हि सम्बन्धहेतुः । गामानय प्रासादं पश्येति गामित्यस्य क्रियामात्रापेक्षिणः पश्येत्यनेनापि सम्बन्धसम्भवाद्विनिगमनाभावप्रसङ्गात् । तस्मात्संनिधानं सम्बन्धकारणम् । तथा चानयेत्यननैव गामित्यस्य सम्बन्धो विनिगम्यते । नच संनिधानमपि सम्बन्धकारणम् । अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यत्र राज्ञ इत्यस्य पुत्रपुरुषपदसंनिधानाविशेषान्मा भूदविनिगमना । तस्मादाकाङ्क्षा निश्चयहेतुर्वक्तव्या । अत्र पुत्रशब्दस्य सम्बन्धिवचनतया समुत्थिताकाङ्क्षस्यान्तिके यदुपनिपतितं सम्बन्ध्यन्तराकाङ्क्षं पदं तस्य तेनैवाकाङ्क्षापरिपूर्तेः पुरुषपदेन पुरुषरूपमात्राभिधायिना स्वतन्त्रेणैव न सम्बन्धः किन्तु परेणापसार्यतामित्यनेनापसरणीयापेक्षेणेति । सत्यपि संनिधाने आकाङ्क्षाभावादसम्बन्धः । तथा चाभाणकः “तप्तं तप्तेन सम्बध्यते” इति । तथा चाकाङ्क्षितमपि न यावत्संनिधाप्यते तावन्न सम्बध्यते । तथा संनिहितमपि यावन्नाकाङ्क्ष्यते न तावत्सम्बध्यत इति द्वयोः सम्बन्धं प्रति समानबलत्वात्क्रमप्रकरणयोः समुच्चयासम्भवाच्च विकल्पेन राजसूयाभिषेचनीययोर्विनियोगः शौनःशेपोपाख्यानादीनामिति प्राप्तम् । एवं प्राप्त उच्यतेराजसूयके कथम्भावापेक्षा हि पवित्रादारभ्य क्षत्रस्य धृतिं यावदनुवर्तते । यथा च “अविच्छिन्ने कथम्भावे यत्प्रधानस्य पठ्यते । अनिर्ज्ञातफलं कर्म तस्य प्रकरणाङ्गता” इति न्यायाद्राजसूयाङ्गता शौनःशेपोपाख्यानादीनाम् । अभिषेचनीयस्य तु स्ववाक्योपात्तपदार्थनिराकाङ्क्षस्य संनिधिपाठेनाकाङ्क्षोत्थापनीया यावत्तावत्सिद्धाकाङ्क्षेण राजसूयेनैकवाक्यता कल्प्यते । यावच्चाभिषेचनीयाकाङ्क्षया तदेकवाक्यता कल्प्यते तावत्कॢप्तया राजसूयैकवाक्यतया तदुपकारतया सामर्थ्यलक्षणं लिङ्गं यावच्चाभिषेचनीयैकवाक्यतया लिङ्गं कल्प्यते तावत्कॢप्तलिङ्गं विनियोक्त्रीं श्रुतिं कल्पयति यावद्वाक्यकल्पितेन लिङ्गेन श्रुतिरितरत्र कल्प्यते तावत्कॢप्तया श्रुत्या विनियोगे सति प्रकरणपाठोपपत्तौ संनिधानपरिकल्पितमन्तरा विलीयते । प्रमाणाभावेऽप्रतिभत्वात् । प्रकरणिनश्च राजसूयस्य सर्वदा बुद्धिसांनिध्येन तत्संनिधेरकल्पनीयत्वात् । तस्मात्प्रकरणविरोधे क्रमस्य बाध एव नच विकल्पो दुर्बलत्वादिति सिद्धम् ॥ क्रमसमाख्ययोर्विरोधोदाहरणम्पौरोडाशिक इति समाख्याते काण्डे सान्नाय्यक्रमे च शुन्धध्वं दैव्याय कर्मण इति शुन्धनार्थो मन्त्रः समाम्नातः, तत्र सन्दिह्यते किं समाख्यानस्य बलीयस्त्वात्पुरोडाशपात्राणां शुन्धने विनियोक्तव्यः, आहो सान्नाय्यपात्राणां शुन्धने क्रमो बलीयानिति । किन्तावत्प्राप्तम् । समाख्यानां बलीय इति पौरोडाशिकशब्देन हि पुरोडाशसम्बन्धीनीत्युच्यन्ते तान्यधिकृत्य प्रवृत्तं काण्डं पौरोडाशिकम् । ततश्च यावत्क्रमेण प्रकरणाद्यनुमानपरम्परया सम्बन्धः प्रतिपादनीयः यावत्समाख्यया श्रुत्यैव साक्षादेव स प्रतिपादित इति अर्थविप्रकर्षेण क्रमात्समाख्यैव बलीयसीति पुरोडाशपात्रशुन्धने मन्त्रः प्रयोक्तव्यः न सान्नाय्यपात्रशुन्धन इति प्राप्तम् । एवं प्राप्तेऽभिधीयते - समाख्यानात्क्रमो बलवानर्थविप्रकर्षादिति । तथाहि - समाख्या न तावत्सम्बन्धस्य वाचिका किन्तु पौरोडाशविशिष्टं काण्डमाह । तद्विशिष्टत्वान्यथानुपपत्त्या तु सम्बन्धः काण्डस्यानुमीयते न तु साक्षान्मन्त्रभेदस्य । तद्धारेण च तन्मध्यपातिनो मन्त्रभेदस्यापि तदनुमानम् । न चासौ सम्बन्धोऽपि श्रुत्यैव शेषशेषिभावः प्रतीयते । अपि तु सम्बन्धमात्रम् । तस्माच्छ्रुतिसादृश्यमस्य दूरापेतमिति क्रमेण नास्य स्पर्धोचिता । तत्रापि च सामान्यतो दर्शपूर्णमासप्रकरणापादितैदमर्थ्यस्य शौनःशेपोपाख्यानादिवच्चारादुपकारकतया प्रकृतमात्रसम्बन्धानुपपत्तिः । मन्त्रस्य प्रयोगसमवेतार्थस्मारणेन सामवायिकाङ्गत्वात् । तथाच यं कञ्चित्प्रकृतप्रयोगगतमर्थं प्रकाशयतोऽस्य प्रकरणाङ्गत्वमविरुद्धमिति विशेषापेक्षायां सान्नाय्यक्रमः सान्नाय्यं प्रति प्रकरणाद्यनुमानद्वारेण विनियोगं कल्पयितुमुत्सहते न तु समाख्यानम् । तस्य दुर्बलत्वात् । तथाहि - समाख्या सम्बन्धनिबन्धना सती तत्सिध्यर्थं संनिधिमुपकल्पयति यावत्ताद्वैदिकेन प्रत्यक्षदृष्टेन संनिधानेनाकाङ्क्षा कल्प्यते । यावच्च कॢप्तेन संनिधानेनाकाङ्क्षा कल्प्यते तावदितरत्र कॢप्तयाकाङ्क्षयैकवाक्यता यावच्च कॢप्तयाकाङ्क्षैकवाक्यता तावदितरत्रैकवाक्यतया कॢप्तयोपकारसामर्थ्यम् । यावच्चात्रैकवाक्यतयोपकारसामर्थ्यं तावदितरत्र लिङ्गेन विनियोजिका श्रुतिः । यावदत्र लिङ्गेन विनियोजिका श्रुतिस्तावदितरत्र कॢप्तया श्रुत्या विनियोग इति तावतैव प्रकरणपाठोपपत्तेः सर्वं समाख्यानकल्पितं विच्छिन्नमूलत्वाल्लूयमानसस्यमिव निर्बीजं भवति । पुरोडाशाभिधायकमन्त्रबाहुल्यात्काण्डस्य पौरोडाशिकसमाख्येति मन्तव्यम् । “एकद्वित्रिचतुष्पञ्चवस्त्वन्तरयकारितम् । श्रुत्यर्थं प्रति वैषम्यं लिङ्गादीनां प्रतीयते ॥' इत्यर्थविप्रकर्ष उक्तः । तत्रापि च “बाधिकैव श्रुतिर्नित्यं समाख्या बाध्यते सदा । मध्यमानां तु बाध्यत्वं बाधकत्वमपेक्षया ॥' इति विशेष उक्तो वृद्धैः । तद्वयं विस्तराद्बिभ्यतोऽपि प्रथमतन्त्रानभिज्ञानुकम्पया निघ्ना विस्तरे पतिताः स्म इत्युपरम्यते । तस्माद्यथानुज्ञापनानुज्ञयोः प्रज्ञातक्रमयोरुपहूत उपहूयस्वेत्येवं मन्त्रावाम्नातौ देशसामान्यात्तथैवाङ्गतया प्राप्नुतः । उपहूत इति लिङ्गतोऽनुज्ञामन्त्रो नानुज्ञापने उपहूयस्वेति च लिङ्गतोऽनुज्ञापने च मन्त्रो नानुज्ञायाम् । तदिह लिङ्गेन क्रमं बाधित्वा विपरीतं शेषत्वमापाद्यते । यावद्धि स्थानेन प्रकरणमुत्पाद्यैकवाक्यत्वं कल्प्यते तावल्लिङ्गेन श्रुतिं कल्पयित्वा साधितो विनियोग इति अकल्पितलिङ्गश्रुतेः क्रमस्य बाधः । तद्वदिहापि विनियोगे प्रत्येकान्तरितेन लिङ्गेन चतुरन्तरितस्य विद्याक्रमस्य बाध इति । यद्यपि प्रथमतन्त्र एवायमर्थ उपपादितस्तथापि विरोधे तदुपपादनमिह त्वविरोधः । नहि लिङ्गेनाभिचारिककर्मसम्बन्धः विद्यासम्बन्धेन क्रमकृतेन विरुध्यते । नच विनियुक्तविनियोगलक्षणोऽत्र विरोधो बृहस्पतिसवेऽपि तत्प्रसङ्गात् । अथैव प्रतीतिविरोधो नच वस्तुविरोधः स विद्यायां विनियोगेऽपि तुल्यः । तस्मादविरोधाद्वेधादिमन्त्रस्योपासनाङ्गत्वमित्यस्त्यभ्यधिका शङ्का । तत्रोच्यते “नहि लिङ्गविरोधेन क्रमबाधोऽभिधीयते । किन्तु लिङ्गपरिच्छिन्ने न क्रमः कल्पनाक्षमः” । प्रकरणपाठोपपत्त्या हि श्रुतिलिङ्गवाक्यप्रकरणैरविनियुक्तः क्रमेण प्रकरणवाक्यलिङ्गश्रुतिकल्पनाप्राणालिकया विनियुज्यते । तदा विनियुक्तस्य प्रकरणपाठानर्थक्यप्रसङ्गात् । उपपादिते तु श्रुत्यादिभि प्रकरणपाठे क्षीणत्वादर्थापत्तेः क्रमो न स्वोचितां प्रमामुत्पादयितुमर्हति प्रमित्साभावादिति । बृहस्पतिसवस्य तु क्त्वाश्रुतिरेव धातुसम्बन्धाधिकारकात्समानकर्तृकतायां विहिता संयोगपृथक्त्वेन विनियुक्तमपि विनियोजयन्ती न शक्या श्रुत्यन्तरेण निरोद्धुं स्वप्रमामिति वैषम्यम् ।
तदिदमुक्तम् –
वाजपेये तु बृहस्पतिसवस्य स्पष्टं विनियोगान्तरमिति ।
अपि चैकोऽयं प्रवर्ग्य इति ।
तुल्यबलतया बृहस्पतिसवस्य तुल्यताशङ्कापाकरणद्वारेण समुच्चयो न तु पृथगुक्तितया परस्परापेक्षत्वादिति ।
संनिधिपाठमुपपादयति –
अरण्यादिवचनवादिति ॥ २५ ॥
वेधाद्यर्थभेदात् ॥२५॥ अन्यत्रानुपसंहारसिद्ध्यर्थं मन्त्रकर्मणाम् । सन्निधौ श्रूयमाणानां विद्याङ्गत्वं निरस्यते ॥२॥ पूर्वत्रात्मविद्यासन्निधौ श्रवणात्तैत्तिरीयशाखागतः पुरुषयज्ञो विद्याङ्गमिति स्वीकृत्यायुर्वृद्धिफलविद्याया भेद उक्तः ।
तर्हि प्रवर्ग्यादीनामपि विद्यासन्निध्यविशेषाद्विद्याङ्गत्वमिति पूर्वपक्षमाह –
सफला हीति ।
ननु मा भूदाकाङ्क्षालक्षणं प्रकरणं , सन्निधिलक्षणं तु तत्किं न स्यादत आह –
न चाऽसति सामान्यसंबन्धे इति ।
काम्येष्टीनां काम्ययाज्याकाण्डस्य च समाख्यैक्यात्सिद्धे हि सामान्यसंबन्धे प्रथमेष्टेः प्रथमो मन्त्रो द्वितीयाया द्वितीय इति सन्निधेर्विशेषसंबन्धो दृष्टः , न तु सन्निधिमात्रं विनियोजकमित्यर्थः ।
अङ्गप्रधानयोरितरेतराकाङ्क्षालक्षणप्रकरणाऽनुपलम्भेऽप्यङ्गाकाङ्क्षया प्रधानस्याप्याकाङ्क्षामुत्थाप्य प्रकरणव्यक्तेः सामान्यसंबन्धसिद्धौ सन्निधेर्विद्याविशेषाङ्गत्वं मन्त्रकर्मविशेषाणामिति पूर्वपक्षमुपपादयति –
मा नामेति ।
रक्तपटन्यायेति ।
यथा पटो भवतीति वाक्यस्यानाकाङ्क्षत्वेऽपि सहोच्चारितरक्तपदस्याकाङ्क्षयेतरस्याप्याकाङ्क्षामुत्थाप्य रक्तः पटो भवतीति वाक्यपर्यवसानमेवमिहापीति ।
नन्वेवमुभयसंबन्धेऽपि कस्याङ्गत्वमत आह –
तत्रापीति ।
कल्पनास्पदं कल्पनालम्बनम् । अवरोहात् उत्तरान्निवर्तनादित्यर्थः । पिण्डपितृयज्ञाधिकरणं समन्वयसूत्रेऽनुक्रान्तम् ।
सन्निधिसामर्थ्यान्मन्त्रादीनां विद्याङ्गत्वविध्यनुमानं भाष्योक्तमुपपादयति –
इदं खल्विति ।
आकाङ्क्षोत्थापनात्प्रकरणव्यक्तिमुक्त्वा विद्यावाक्यस्य मन्त्रकर्मवाक्ययोश्चैकविशिष्टार्थबोधकत्वेन वाक्यैकवाक्यत्वकल्पनामाह –
उत्थाप्य चेति ।
वाक्याल्लिङ्गकल्पनामाह –
असमर्थस्य चेति ।
सामर्थ्यमात्रेणाप्यशाब्दस्यान्वयानुपपत्तेर्लिङ्गबलाच्छ्रुतिकल्पनामाह –
न च सत्यपीति ।
अविनियुक्तमिति च्छेदः । असौ सन्निधिरकस्माद्विना विषयेणाश्रयितुं न युक्त इति भाष्यार्थः । लोकवेदयोरविशिष्टस्तु वाक्यार्थः , तत्र मन्त्राणमनुष्ठेयार्थप्रकाशकत्वेनार्थवत्त्वं वक्तव्यं नाविवक्षितार्थत्वमिति सूत्रार्थः ।
प्रवर्ग्यादीनामन्यार्थत्वेन विनियोगं भाष्योक्तमुपपादयति –
यद्यपि चेति ।
नन्वेवमपि उपसत्संबन्धोऽस्तु प्रवर्ग्यस्य , कथं कर्मसंबन्धस्तत्राह –
उपसदामिति ।
यत्रोपसदस्तत्र कर्मणि प्रवर्ग्य इति वाक्येन सामान्यतोऽवगतं कर्म , विशेषेण तु केनास्य संबन्धः ? किं प्रकृतिविकृतिभ्यामुत प्रकृत्यैवेति । केवलविकृतिप्रवेशस्त्वनाशङ्क्यः ; प्रकृतावुपसदां प्रत्यक्षत्वेन तत्परित्यागकारणाभावात् ।
तत्र निर्णयमाह –
यद्यपीति ।
कर्मोपस्थापिका उपसदः प्रकृतावेव प्रत्यक्षाः , विकृतौ त्वतिदेशद्वारेणानुमानिका इति प्रकृतावेव प्रवर्ग्यनिवेश इत्यर्थः ।
आस्तामुपसदां प्रत्यक्षत्वाप्रत्यक्षत्वचिन्ता , अनारभ्याधीतत्वादेव प्रवर्ग्यस्य प्रकृतावेव निवेशः सिद्यतीत्याह –
अपि चेति ।
चोदकेन अतिदेशेन । शेषलक्षणे स्थितम् - तत्सर्वार्थमविशेषात् (जै.ब्र.अ ३ पा.३.सू.३५) । अनारभ्य कंचित्क्रतुमधीयते ‘यस्य खादिरः स्रुवो भवति छन्दसामेव रसेनावद्यति यस्य पर्णमयी जुहू’रित्यादि । तत्र किं खादिरत्वादि प्रकृतौ विकृतौ च निविशत उत प्रकृतावेवेति विशये तत् खादिरतादि सर्वार्थम् ; प्रकृत्यर्थं अप्रकरणात् । न हि कस्यचित्प्रकरणे इदं श्रुतम् । तत्र क्रतुमात्रनियतस्रुवादिद्वारेण वाक्यात् सर्वार्थमिति प्राप्ते – राद्धान्तः - प्रकृतौ वाऽद्विरुक्तत्वात् (ब्र.अ.३पा.३.सू.३५) प्रकृतिविकृतिगामित्वे हि खादिरतादेः विकृतावतिदेशतोऽनारभ्याधीतादप्यस्मादुपदेशात् प्राप्तेर्द्विरुक्तत्वं स्यात् , तच्चायुक्तमतिदेशतः प्राप्तौ प्राप्तप्रापणवैयर्थ्यात् । न चोपदेशतः प्राप्त्याऽतिदेशवैयर्थ्यमाशङ्क्यम् ; यतोऽयमुपदेशोऽतिदेशमन्तरेण न प्रवर्तितुमर्हति । तथा ह्ययं प्राप्तस्रुवाद्यनुवादेन खादिरत्वादिधर्ममात्रं विकृतौ विदधेद्विदध्याद् धर्मविशिष्टस्रुवादिविधानस्य गौरवादेवानुपपत्तेः । न चातिदेशेन विना विकृतौ स्रुवादिप्राप्तिः । तस्माद् द्विरुक्तत्वालाभाय प्रकृतावेव निवेश इति । एवमिहाप्यनारभ्याधीतत्वात्प्रवर्ग्यस्य प्रकृतौ विहितस्य सतोऽतिदेशेन विकृतावप्युपसदां प्राप्तिसिद्धेरद्विरुक्तत्वलाभाय प्रकृतौ वेति न्यायात् ज्योतिष्टोमे एवोपसदा सह विधानं युक्तमित्यर्थः । उपसद्वदुपसदा सहेति च निर्देश उपसदां तुल्ययोगक्षेमत्वं न प्रवर्ग्यसंबन्धविशेषहेतुत्वमिति ज्ञापनार्थः ।
ननु तर्हि सन्निधिवाक्याभ्यामुभयार्थत्वमस्तु , तत्राह –
सन्निधानादिति ।
नन्वेवमपि हृदयपदमात्रस्य विद्यायामङ्गत्वेन समवेतार्थप्रकाशकत्वेन सामर्थ्यं न पदान्तराणामत आह –
यथाऽग्नय इति ।
समवेतहृदयादिविशेषणीभूतस्वार्थप्रकाशकत्वद्वारा तद्विशिष्टसमवेतार्थप्रकाशकत्वादितरपदानामपि समवेतार्थत्वमिथर्थः ।
भाष्यकारैर्वाक्येन ज्योतिष्टोमे विनियुक्तस्यापि प्रवर्ग्यस्य सन्निधानाद्विद्यास्वपि विनियोगः बृहस्पतिसवस्येव स्वतन्त्राधिकारविहितस्य वाजपेये विनियोग इत्युक्तम् , तदयुक्तम् ; वाक्यात् सन्निधेर्दुर्बलत्वस्योक्तत्वादित्याशङ्क्याह –
यद्यपीति ।
प्रबलस्यापि वाक्यस्य न सन्निधिबाधकत्वम् ; विरोधाभावात् ; न हि बलवानित्येव राजा साधुजनान् बाधते । तदिह सन्निधिर्न वाक्यगम्यं ज्योतिष्टोमसंबन्धं प्रत्याचष्टे , अपि तु तमनुमत्यैव लिङ्गत्वमपि गमयति , इत्युभयाङ्गत्वं प्रवर्ग्यस्येत्यर्थः । तदनेन श्रुतिलिङ्गाधिकरण (ब्र.अ.३ पा.३ सू.७) मप्याक्षिप्तम् ।
ननु वाजपेयेनेत्यत्र न बृहस्पतिसवस्य वाजपेयाङ्गत्वं बोध्यते , किंतु कस्मिन् काले बृहस्पतिसवः कर्तव्य इत्यपेक्षायां वाजपेयानुष्ठानोत्तरकालता ; इष्ट्वेति क्त्वाप्रत्ययेन कालाभिधानादत आह –
अत्र हीति ।
अत्र हि पूर्वकालताऽभिधानमङ्गत्वेऽप्यविरुद्धम् । बृहस्पतिसवस्य वाजपेयोत्तराङ्गत्वात् , तत्र ‘‘धातुसंबन्धे प्रत्यया’’ इत्यधिकारविहितः समानकर्तृकत्ववाची च क्त्वाप्रत्ययो न कालमात्रविधौ घटत इत्यर्थः । क्त्वः क्त्वाप्रत्ययस्य । धातुसंबन्धे इत्युक्तेऽर्थाद् धात्वर्थान्तरसंबन्धो लभ्यते । धातोरित्येकत्वाधिकाराद्धातुस्वरूपसंबन्धे धातुद्वयापत्तेः । ततश्च धातुद्वयोपरि प्रत्ययविध्यनुपपत्त्या धातुशब्देन धात्वर्थलक्षणात् । एकस्य च धात्वर्थस्य स्वेन संबन्धायोगेन धात्वर्थान्तरलाभाच्चेति । समानकर्तृकत्वादेकप्रयोगतां तावदुपपादयति तत एवाङ्गाङ्गित्वसिद्ध्यर्थम् कथं च समान इति । कथं च समानः कर्ता स्यादेकप्रयोगतामन्तरेणेति शेषः ।
व्यतिरेकमुक्त्वाऽन्वयमाह –
यदीति ।
यद्येकः प्रयोगो भवेत्तर्ह्येव समानः कर्ता स्यादित्यनुषङ्गः ।
ननु भिन्नप्रयोगत्वेऽपि क्रिययोः कर्तृत्वाधिष्ठानपुरुषैक्यात् क्त्वाप्रत्ययोपपत्तिस्तत्राह –
प्रयोगाविष्टं हीति ।
करोतीति हि कर्ता भवति । अधिष्ठानलक्षणायां तु सैव दोष इत्यर्थः ।
धात्वर्थान्तरसंबन्धोऽपि प्रयोगैक्यगमकः , एकप्रयोगत्वमन्तरेण क्रिययोरसाधारणसंबन्धानिरूपणादित्याह –
धात्वर्थान्तरेति ।
भवत्वेकप्रयोगत्वं , ततः किं जातमत आह –
न चेति ।
प्रधानभेदे हि स्वतन्त्रत्वात्प्रयोगो भिद्येतेत्यर्थः । संबन्ध एकप्रयोगतां गमयतीत्युक्तम् ।
इदानीं स एव साक्षाद्गुणप्रधानभावं च गमयतीत्याह –
संबन्धश्चेति ।
ननु भवत्वङ्गाङ्गित्वं वाजपेयबृहस्पतिसवयोः , कस्य त्वङ्गत्वं ? कस्य वाङ्गित्वम् ? अत आह –
तत्रापीति ।
प्रकरणिनो वाजपेयस्य प्रधानत्वादङ्गित्वम् , बृहस्पतिसवस्य तु परप्रकरणे श्रूयमाणस्याङ्गत्वमित्यर्थः । नन्वेवं मीमांसकानां मुद्राभेदः कृतः । तथा हि – यदि बृहस्पतिसवेन यजेतेत्येतत् प्रकरणान्तरस्थबृहस्पतिसवविपरिवृत्त्यर्थम् , कस्तर्हि वाजपेयाङ्गत्वविधिः ? अथ विधिः , कथं प्रकरणान्तरस्थबृहस्पतिसवस्येह सन्निधिः ? न चैकमेव वाक्यं दूरस्थमपि कर्म सन्निधापयत्यन्याङ्गत्वेन च विधत्त इति युज्यते । तस्मात्प्रकरणान्तरे कौण्डपायिनवत्कर्मान्तरं बृहस्पतिसवः । बृहस्पतिसवनाम तु प्रसिद्धबृहस्पतिसवधर्मातिदेशार्थम् । तथा च तद्धर्मकं कर्मान्तरमेव वाजपेयाङ्गत्वेन विधीयते इति मतद्वयेऽपि संमतम् । एवं च कथं विनियुक्तविनियोगशङ्का ? सत्यम् ; अभ्युपेत्यवाद एषः । व्यवस्थितोदाहरणमिह खादिरत्वादिः ।
यदि साधिकारयोरपि कर्मणोः क्त्वाश्रुत्याऽङ्गाङ्गिभावः , तर्ह्यतिप्रसङ्ग इत्याशङ्क्य विशेषप्रदर्शनेन परिहरति –
न च दर्शेति ।
वाजपेयप्रकरणे समाम्नानाद्धि बृहस्पतिसवस्याङ्गत्वम् , इदं तु वाक्यमनारभ्याधीतमिति नाङ्गाङ्गित्वबोधकमित्यर्थः ।
ननु क्वचित्सोमयागप्रकरणे इदं वाक्यं श्रुतम् , अतः सोमाङ्गता दर्शपूर्णमासयोरिति , नेत्याह –
यदि त्विति ।
अनारभ्याधीतवाक्यार्थ एव तत्राप्यनूद्यत इत्यर्थः ।
अनुवादे लाभमाह –
तथा सतीति ।
अधिकरणं त्वत्रत्यमस्माभिः प्रथमसूत्रेऽनुक्रान्तम् ।
ननु यद्यप्येकपदसमवेतार्थता बहुपदसमवेतार्थताया दुर्बला ; तथापि विद्यासन्निध्यनुगृहीता हृदयमित्येकपदसमवेतार्थता विद्याङ्गत्वं मन्त्रस्य गमयिष्यतीत्यत आह –
न च सन्निध्युपगृहीतास्विति ।
मन्त्रमवस्थापयतीत्यत्रैकपदसमवेतार्थतेत्यनुषङ्गः । हृदयपदं विद्यायामभिचारे च समवेतार्थमिति साधारणम् , इतराणि तु पदानि विद्यायामसमवेतार्थानि , समवेतार्थानि त्वभिचारेऽतः कांस्यभोजिन्यायेन हृदयपदमितरपदानुरोधेनाभिचारमेव मन्त्रं गमयतीत्यर्थः ।
यत्त्वेकपदसमवेतार्थताया अस्ति सन्निधिरनुग्राहक इति , तन्न ; बहुपदसमवेतार्थतायाः सन्निधेरपि प्रबलेन वाक्येनानुगृहीतत्वादित्याह –
इतरपदैकवाक्यतापन्नस्येति ।
इतरपदैकवाक्यतापन्नस्याऽत एव वाक्यप्रमाणानुगृहीतस्याभिचारेऽपि समवेतार्थस्य हृदयपदस्याभिचारात्कर्मणोऽन्यत्र सन्निधिना चालयितुमशक्यत्वादिति योजना ।
यत्तु वाक्यलिङ्गाभ्यामन्यत्र विनियुक्तयोरपि मन्त्रकर्मणोः सन्निधानाद्विद्यायामपि तदविरोधेन विनियोगसंभवादुभयार्थत्वमित्युक्तं , तदनूद्य परिहरति –
कस्मात्पुनरित्यादिना ।
श्रुतिलिङ्गयोरिति ।
यत्र ह्येक एव शेष एकेन प्रमाणेनैकशेषिणा संबद्धत्वेन बोधितः स एव प्रमाणान्तरेण शेष्यन्तरार्थत्वेन बोध्यते , तत्रैकेनैव संबन्धे शेषस्य निराकाङ्क्षत्वादपरसंबन्धो विरुध्यते । तदनयोः प्रमाणयोः परस्परविषयापहारेण भवितव्यम् । अत एकशेषविषययोर्भिन्नशेषिसंबन्धबोधिनोः प्रमाणयोर्बाध्यबाधकत्वे स्थिते तदर्थे किं बलीय इति चिन्ता क्रियते श्रुतिलिङ्गसूत्रेणेत्यर्थः । अत एव विनियुक्तविनियोगेऽपि वैषम्यमुक्तम् । तत्र हि तुल्यबलत्वात्प्रमाणयोरुभयार्थत्वमिति । ननु नेदं श्रुतिलिङ्गविरोधोदाहरणम् । तथा हि – किमैन्द्र्या गार्हपत्यमिति द्वितीयातृतीयाश्रुत्योः पदान्तरानपेक्षयोर्मन्त्रगतेन्द्रप्रकाशनसामर्थ्येन विरोध उच्यते ? किंवा पदान्तरैर्वाक्यानापन्नयोः ? प्रथमकल्पानुपपत्तिमाशङ्कते – यद्यपीति ।
द्वितीया हि गार्हपत्यः किंचित्प्रतिशेषीति वक्ति , तच्च कांचिदाग्नेयीमृचं प्रति शेषित्वेऽपि चरितार्थमिति नैन्द्र्या इन्द्रप्रकाशनसामर्थ्यं बाधेत , ऐन्द्र्येति च तृतीयैन्द्र्याः किंचित्प्रति शेषत्वमाह , तच्च तस्या इन्द्रं प्रति शेषत्वेऽप्यविरुद्धमित्यर्थः ।
द्वितीयकल्पानुपपत्तिमाशङ्कते –
पदान्तरेति ।
वाक्यलिङ्गयोर्लिङ्गस्य बलवत्त्वाद्वाक्यस्यैव बाधा स्यादित्यर्थः ।
परिहरति –
तथापीति ।
श्रुत्योरेव लिङ्गेन विरोध इति वक्तुं श्रुतिवाक्ययोरभिधेयभेदमाह –
द्वितीयेत्यादिना ।
ऐन्द्र्येति तृतीयया क्रियायामैन्द्री शेषित्वेन बोधिता । गार्हपत्यमिति द्वितीयया गार्हपत्यः शेषत्वेन बोधितः , शेषशेषिभावश्च विनियोग इति ।
श्रुति विनियोगे निरपेक्षे चेत्तर्हि वाक्येन किं बोध्यतेऽत आह –
सोऽयमिति ।
ऐन्द्र्यादिपदार्थविशिष्टोपस्थानकर्तव्यता हि वाक्यार्थः । तेनैन्द्र्या यत्सामान्येन क्रियां प्रति शेषत्वमवगतं गार्हपत्यकर्मकोपस्थाने , यच्च गार्हपत्यस्य कर्मत्वं तदैन्द्रीकरणोपस्थान इति सामान्यावगतसंबन्धो वाक्यीयविशेषणविशेष्यभावबलाद्विशेषेऽवस्थाप्यते । न चैवं - वाक्यस्यैव लिङ्गेन विरोधो न श्रुतेरिति – वाच्यम् ; यतो यदि गार्हपत्यमिति द्वितीया सप्तम्यर्थं लक्षयेत् , सप्तम्यर्थश्च सामीप्यं , तदा नैव लिङ्गस्य का चित् क्षतिः ; गार्हपत्यसमीपे स्थित्वेन्द्रस्यैवोपस्थानसंभवात् । यदि तु द्वितीयेप्सिततमतां न मुञ्चति , तदैव विरोध इति श्रुतिरेव लिङ्गविरोधः ।
ननु श्रुतिमात्रमपि लिङ्गेन न विरुध्यते इत्युक्तम् , अत आह –
तस्मादिति ।
न ह्येकं पदं कदाचित्प्रयुज्यते ; वैयर्थ्यात् । अतः प्रतिनियतौ श्रुतिवाक्यसंबन्धौ । तत्र श्रुतिरेवं वदति वाक्यगम्यस्य विशेषणविशेष्यभावस्यैवंविधं शेषशेषित्वमिति । एवं च श्रौतेन शेषशेषिभावेन लिङ्गस्य विरोध इत्यर्थः । नन्वेवं श्रौतस्य शेषशेषिभावस्यायं विशेष्यविशेषणभाव इति वाक्येन बोधनात्तस्य च लिङ्गेन विरोधाद् लिङ्गवाक्यविरोधोदाहरणमिदं किं न स्यात् ; उच्यते स्वार्थबोधे श्रुतेः शीघ्रप्रवृत्तेर्लिङ्गविरोध्यर्थतया द्रागित्येव बोधित इति तद्विरोधत्वेनैवोदाह्रियत इति । ’यथा तदाहुः - शीघ्रप्रवृत्तत्वाल्लिङ्गादेर्बाधिका श्रुतिः । तथैव विनियोगेऽपि सैव पूर्वं प्रवर्तते ॥’ इति ।
एवमुदाहरणं परिशोध्याधिकरणमारचयति –
किं लिङ्गानुगुण्येनेत्यादिना ।
प्रभवति समर्थः ।
प्रमाणान्तरं वृद्धव्यवहार इत्याह –
विदितपदेति ।
लिङ्गबाधकत्वेनोक्ता तृतीया श्रुतिः । तदीयप्रातिपदिकमैन्द्रीत्येवं रूपं तद्धितान्तं शब्दत इत्युक्तम् ।
इन्द्रस्येयमितीन्द्रशेषत्वेनैतामृचं बोधयतीत्याह –
शब्दाच्चेति ।
दारु दहतीति दारुदहनः । दहनोऽग्निः । ऐन्द्र्या गार्हपत्ये यो विनियोगः स काष्ठदाहकस्याग्नेः सलिलदाहे विनियोग इव विरुद्ध इत्यर्थः ।
उपस्थापयितव्य इति ।
प्रकाशयितव्य इत्यर्थः । ॠचः प्रकाशनव्यतिरेकेण कार्याभावात् ।
यदि सामर्थ्यज्ञानं नापेक्षते श्रुतिः , तर्हि योग्यतावधारणं व्यर्थं स्यादित्यग्निना सिञ्चेदित्यपि प्रमाणं स्यादत आह –
अवगते त्विति ।
यथा स्फोटे जाते वह्नेर्दाहशक्तिर्ज्ञायते , न तु दाहकत्वं वह्नेः शक्तिज्ञानापेक्षमेवं श्रुतेः शेषत्वे ज्ञातेऽनन्तरमर्थे तादृशी शक्तिः कल्प्यते । अतो नार्थगतसामर्थ्यज्ञानं विनियोगकारणमित्यर्थः । तदिति तस्मादर्थे ।
ननु यदि विनियोगोत्तरकालमर्थसामर्थ्यं विनियोगनिर्वाहाय कल्प्यते , तर्हि तदैन्द्र्या गार्हपत्यप्रकाशने नास्तीति कथं विनियोगनिर्वाहस्तत्राह –
श्रुतिविनियोगादिति ।
मन्त्रो ह्यभ्रान्तया श्रुत्या विनियुज्यते । तत्र यदि मुक्यं सामर्थ्यं न दृश्यते , तर्हि प्रथमावगतविनियोगस्यासंजातविरोधत्वात्तस्य च सामर्थ्यकल्पकत्वेन तदनुगुणं गौणमपि सामर्थ्यं मन्त्रे कल्पनीयम् ।
तच्चोक्तं संदेहावसरे –
प्रभवति हि स्वोचितायामित्यादिनेति ।
एवं श्रुत्यनपेक्षत्वपरं श्लोकस्य पूर्वार्धं व्याख्याय लिङ्गस्य सापेक्षत्वेन दौर्बल्यप्रतिपादकं द्वितीयार्धं व्याचष्टे –
लिङ्गं त्वित्यादिना ।
तस्य त्विति ।
मन्त्रस्येत्यर्थः । अग्निचयनप्रकरणाम्नानसामर्थ्यादित्यर्थः ।
तदन्यथानुपपत्त्येति ।
इन्द्रस्वरूपाभिधानान्यथानुपपत्त्येत्यर्थः ।
ननु यथा प्रत्यक्षेणाग्निर्बोध्यते तथानुमानेनाऽपि , एवं लिङ्गश्रुतिभ्यां मन्त्रस्येन्द्रे गार्हपत्ये च विनियोगो बोध्यताम् , तथा च तुल्यबलत्वमत आह –
श्रौताद्विनियोगादिति ।
अर्थविप्रकर्षादिति ।
शब्दप्रकाशितार्थेन सहार्थिकस्यार्थस्य विप्रकर्षात् संबन्धायोग्यत्वादाकाङ्क्षितविनियोगप्रकाशिका श्रुतिरैन्द्र्येन्द्रं प्रकाशयेदित्येवंरूपा कल्पयितुमुचितेत्यर्थः । नियोग आज्ञा । अनुयोग आक्षेपः । प्रक्रान्तव्यापारः प्रतिपत्तेति शेषः । प्रथमां मुख्यवृत्तिं यद्यजहतिष्ठेत्तर्हि प्रसह्य जघन्ययाऽपि वृत्त्या नेयमित्यर्थः ॥
कल्पयाम्यन्त उपस्तरण इति ।
घृतस्य धारया सुशेवं कल्पयामीति लिङ्गादुपस्तरणं प्रतीयत इत्यर्थः । आसादनं स्थापनम् ।
उभयत्र कृत्स्नमन्त्रप्रयोगस्य प्रमाणभूतमेकवाक्यत्वमेव दर्शयति –
एतदपेक्षो हीति ।
एकवाक्यतापूर्वकं सामर्थ्यकल्पनाल्लिङ्गस्योपजीव्यं वाक्यं लिङ्गाद्बलवदिति सोदाहरणमाह –
इह हीत्यादिना ।
यत्तत्पदसमभिव्याहारो विभज्यमानसाकाङ्क्षत्वे हेतुः । विभज्यमानत्वे सति साकाङ्क्षत्वं चैकवाक्यत्वे हेतुः । आह हि परमर्षि ’’ रथैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्या’’ (जै.अ.२ पा.१ सू.४६) दिति ।
साकाङ्क्षत्वादित्युक्ते प्रकृतिप्रत्यययोरप्येकवाक्यता स्यात्तन्निवृत्त्यर्थं –
विभज्यमानेति ।
न हि प्रकृतिप्रत्यययोर्विभागो विद्यते । विभज्यमानत्वेन पदत्वापत्तिर्विवक्षिता । तावत्युक्ते ‘‘भगो वां विभज्यत्वर्यमा वां विभजत्वि’’त्यादौ निरपेक्षविभागेऽपि वाक्यत्वं स्यात् । तत्र हि प्रतिपदं विभजत्वित्यन्वयान्निराकाङ्क्षत्वम् , तन्निवृत्त्यर्थं साकाङ्क्षत्वविशेषणम् । अर्थैकत्वविशेषणस्य तु ‘‘स्योनं ते’’ इतीदमेव व्यावर्त्यम् । अत्र च वाक्यभेदोऽद्याप्यसिद्ध इति तन्नोपन्यस्तम् । ‘‘देवस्यत्वे’’ ति मन्त्रे हि ‘‘अग्नये निर्वपामी’’तिपदातिरिक्तपदानां न निर्वापे समवेतार्थत्वम् । एवमन्यत्रापि कर्मणि तेषां न समवेतार्थतोपलभ्यते , तेनागतीनां तेषां समवेतार्थाग्निनिर्वपामिपदाभ्यामेकवाक्यतां कल्पयित्वा तदनुरोधेन जघन्ययाऽपि वृत्त्याऽर्थाभिधानसामर्थ्यं कल्प्यताम् ।
मन्त्रभागयोस्त्वनयोरुपस्तरणासादनार्थयोः पृथगर्थाभिधानसामर्थ्यस्यैकवाक्यतामनपेक्ष्यैवार्थप्रतीतिकार्यवशेन सिद्धत्वान्न वाक्यपूर्वकत्वं लिङ्गस्येति सिद्धान्तयति –
भवेदेतदेवमिति ।
प्रयोजनैकत्वेनेति ।
विशिष्टैकार्थप्रमितिः प्रयोजनम् । प्रधानमेकमर्थमित्यत्रैकशब्दः प्रयुक्तः , तत्र ‘‘स्योनं ते’’ इत्यस्य वाक्यभेदप्रतिपादनात् एकस्मिन्वाक्ये पदार्थानां बहुत्वादेकार्थत्वम् । अयुक्तमित्याशङ्क्य विशिष्टार्थाभिप्रायेण प्रधानमित्युक्तम् ।
ननु भावनैव प्रधानं कथमुपस्तरणादेः प्रधान्यमत आह –
अनुष्ठेयार्थश्चेति ।
मन्त्रावयवावविनियुज्य हि नाऽवयविरूपं वाक्यं विनियोक्तुं शक्यते । अतश्चैकवाक्यत्ववादिनाऽव्यवयवौ विनियोज्यौ , तयोश्च मिलितयोर्नैकार्थप्रकाशनं सिद्धमिति । यत्र तु ‘‘देवस्य त्वे’’त्यादाविवैकवाक्यतावशेन कथंचित्सामर्थ्यमनुमेयम् , तत्रोपस्तरणे पूर्वभागार्थे उत्तरो मन्त्रभागो भङ्क्त्वा व्याख्येयः । पुरोडाशासादने चोत्तरभागार्थे पूर्वः । एवं यावदेकवाक्यतावशेन सामर्थ्यमनुमीयते तावत्पूर्वस्योत्तरस्य च मन्त्रभागस्यैकैकस्मिन्नपस्तरणे पुरोडाशासादने चार्थप्रतीतिकार्यवशेन प्रतीतं यत्सामर्थ्यं तन्मन्त्रभागद्वयस्य विनियोजिकां श्रुतिं पूर्वेणोपस्तृणुयादुत्तरेण पुरोडाशमासादयेदित्येवंरूपां कल्पयति ।
ततः किं जातमत आह –
तथा चेति ।
एकं विनियोगं कर्तुं वाक्यलिङ्गयोः सह प्रस्थितयोर्वाक्ये लिङ्गं कल्पयितुमुपक्रान्तवति एकैकमन्त्रभागगतं लिङ्गं वाक्यकल्प्यलिङ्गादपि विनियोगफलं प्रति प्रत्यासन्नां श्रुतिं कल्पयति । वाक्यकल्पिते च लिङ्गे श्रुतिं कल्पयितुमुपक्रान्ते लिङ्गकल्पिता श्रुतिर्विनियोगं गृह्णाति , गृहीते च तया तस्मिन् वाक्येन लिङ्गद्वारकल्पिता श्रुतिरेकसोपानान्तरितत्वात्फलमनवाप्य विलीयते । आह चात्र निदर्शनमाचार्यसुन्दरपाण्ड्यः – निःश्रेण्यारोहणप्राप्यं प्राप्तिमात्रोपपादि च । एकमेव फलं प्राप्तुमुभावारोहतो यदा ॥१॥ एकसोपानवर्त्येको भूमिष्ठश्चापरस्तयोः । उभयोश्च जवस्तुल्यः प्रतिबन्धश्च नान्तरा ॥२॥ विरोधिनोस्तदैको हि तत्फलं प्राप्नुयात्तयोः । प्रथमेन गृहीतेऽस्मिन्पश्चिमोऽवतरेन्मुधा ॥३॥ इति । एवमुत्तरत्रापि द्रष्टव्यम् । यदि लिङ्गाभ्यां मन्त्रभागयोरर्थभेदेन वाक्यं भङ्क्त्वा विनियोगस्तर्हि देवस्य त्वेत्यत्रापि लिङ्गाद्वाक्यं भङ्क्त्वा भेदेन विनियोगः स्यात् ।
तथाचात्रापि समवेतार्थसदनादिपदातिरिक्तपदानां मन्त्रभागाभ्यामेकवाक्यता न स्यादत आह –
यत्र त्विति ।
यत्र विरोधकं पृथक् कर्मसमवेतार्थप्रकाशनसामर्थ्यं नास्ति , तत्र समवेतार्थेनैकेन पदेन द्वाभ्यां त्रिभिर्वा पदैर्यैकवाक्यता सा क्वापि कर्मण्यसमवेतार्थानां पदान्तराणां वैयर्थ्यपरिहाराय स्वानुसारेण सामर्थ्यं कल्पयतीति भवति तत्र वाक्यस्य विनियोजकत्वं न त्वत्र , पृथक् कर्मवर्तिपदार्थप्रकाशनादित्यर्थः । उक्तं च - ‘पदान्तराणि यत्रार्थं वदेयुः कर्मवर्तिनम् । तत्रैवमितरेषां तु वाक्यमप्यगतेर्वरम्’॥ इति । एवमिति । लिङ्गाद्वाक्यभङ्ग इत्यर्थः ॥
प्रकरणवाक्ययोर्विरोधमुदाहर्तुं वाक्यलक्षणमाह –
अत्र चेति ।
प्रकरणलक्षणमाह –
लब्धेति ।
कार्यान्तरापेक्षावशेन प्रकरणत्वं शबरस्वामिसंमतमित्याह –
कर्तव्याया इति ।
प्रधानवाक्यस्याङ्गवाक्याकाङ्क्षामुक्त्वाऽङ्गवाक्यानां प्रधानवाक्याकाङ्क्षामाह –
समिदादीति ।
सन्निहितकरणोपकारे संभवति न विश्वजिन्न्यायेन (जै.सू.अ.४ पा.३ सू.१५) स्वर्गकल्पना , नापि दर्शपूर्णमासफलस्वर्गस्यानुषङ्गः ; प्रयाजादेः फलाकाङ्क्षायामपि स्वर्गस्यानाकाङ्क्षत्वादित्याह –
अनुषङ्गतो वेति ।
करणोपकारस्य सिद्धत्वादेव यज्ञवर्मकरणाद्यार्थवादिकं फलं सत्रन्यायेन न कल्प्यमित्याह –
अर्थवादतो वेति ।
निर्वारयितुं चरितार्थीकर्तुं । निर्वृण्वन्ति कृतार्थीभवन्ति । निर्वारयन्ति । स्वकृतोपकारेण प्रधानं दर्शपूर्णमासादीत्यर्थः ।
उक्तामितरेतरापेक्षां सदृष्टान्तमुपसंहरति –
सोऽयमिति ।
‘‘अग्निरिदं हविरजुषतावीवृधत महोज्ययोऽकृत प्रजापतिरिदं हविरजुषतावीवृधत महो ज्यायोऽकृत अग्नीषोमाविदं हविरजुषतावीवृधत महो ज्यायोऽक्राताम् । इन्द्राग्नी इदं हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम् । इन्द्र इदं हविरजुषतावीवृधत महो ज्यायोऽकृते’’ति सूक्तवाकनिगदः । देवतासंबोधनप्रधानः पदसमूहो निगद इत्याख्यायते । तत्राग्निः पौर्णमास्यमावास्ययोः साधारणः । प्रजापतिः पौर्णमास्यामेवोपांशुयाजस्य । ‘‘नाऽसोमयाजी सन्नये’’दित्यसोमयाजिनः सान्नाय्याभावात् । अमावास्ययोर्दधिपयसोरभावे ऐन्द्राग्नमेकादशकपाल विहितं तस्य देवतेन्द्राग्नी ।
इदमाह –
तत्र हीति ।
एकत्र सहपाठेऽपि लिङ्गादुत्कृष्ठेनेन्द्राग्निपदेनैकवाक्यतापन्नोऽवीवृधेतामित्यादिमन्त्रशेषो यत्रामावास्यायामिन्द्राग्निपदं नीतं तत्र नीयेतोतेन्द्राग्निपदमात्रममावास्यायां नीत्वा वाक्यशेष उभयत्र पौर्णमास्यमावास्ययोः प्रयोक्तव्य इति संदेहस्य प्रापकमाह –
तत्र यदीति ।
फलवती भावना प्रधाना सती इतिकर्तव्यत्वं सन्निधिपठितस्यापादयतीत्यर्थः ।
आकाङ्क्षात्मकं हि प्रकरणं न श्रुतिरिव विनियोगमभिधत्ते , किं तु विनियोज्यपदार्थशक्तिं प्रमाणान्तरप्रमितामपेक्षते , एवं च सति विनियोज्यस्य मन्त्रवाक्यशेषस्य वाक्येनान्यत्र विनियुक्तत्वान्न प्रकरणेन कृत्स्नार्थत्वेन विनियोग इत्याह –
भवेदेतदेवमिति ।
विपक्षे दण्डमाह –
अन्यथेति ।
द्वादशोपसत्ताधिकरणं ज्योतिर्दर्शना (व्या.सू.अ. १ पा. ३. सू.४०) दित्यत्रानुक्रान्तम् । पूषाद्यनुमन्त्रणमन्त्राश्च तत्रैवोदाहृताः ।
यद्यदेवेति ।
विनियोजकं प्रमाणमित्यर्थः ।
एकवाक्यतेति ।
वाक्यैकवाक्यतेत्यर्थः ।
यावदितरत्र सामर्थ्यमिति ।
वाक्यद्वयैकवाक्यताया कल्पितायाम् अन्यथानुपपत्त्या वाक्यद्वयार्थयोरितरेतरोपकार्योपकारकत्वसामर्थ्यं कल्प्यत इत्यर्थः ॥ नानेष्टिपशुसोमसमुदायो राजसूयः । तत्राभिषेचनीयः सोमयागविशेषः । शुनःशेपः किल ॠषिपुत्रो हरिश्चन्द्रपुत्रेण पुरुषमेधार्थं पशुत्वेन क्रीतः । स वरुणाय स्वस्यालम्भे कर्तुमारब्धे वरुणं तुष्टाव । स च तुष्ट एनं रक्षेत्याख्यानं बह्वृचब्राह्मणे पठ्यते । अक्षद्यूतादिकमभिषेचनीयसन्निधौ श्रुतमादिशब्दार्थः । यद्याकाङ्क्षामात्रात्पदानां संबन्धः , तर्ह्यानय प्रासादमिति पदद्वयव्यवहितेन पश्येत्यनेनापि गामित्यस्याभिसंबन्धः स्यात् , आनयेत्यनेन तु सन्निधानात्सबन्ध उपपन्न । तस्मान्नाकाङ्क्षामात्रं संबन्धहेतुरित्यर्थः ।
अत्र विकल्पेन पूर्वपक्षं वक्ष्यन् सन्निधेरपि केवलस्य न संबन्धे हेतुत्वमित्याह –
न चेति ।
अयमेतीति वाक्ये राज्ञः इत्येतत्पदं पुत्रपदस्योपरिष्टात्पुरुषपदस्य चाधस्ताद्दृश्यते । यदि सन्निधिमात्रं संबन्धकारणं तर्हि राज्ञ इति पदस्य पुत्रपदेन वा सबन्धः - राज्ञः पुत्र इति , किं वा पुरुषपदेन - राज्ञः पुरुष इत्यविनिश्चयः स्यादित्यर्थः ।
एवमनिश्चये सत्याकाङ्क्षायां निर्णयमाह –
तस्मादिति ।
अन्तिके यदुपनिपतितमिति ।
पितृसमर्पकं राजपदमित्यर्थः ।
यदि राज्ञ इति पदस्य पुरुषपदेनासबन्धः , तर्हि तेनासंबद्धस्य पुरुषपदस्य केन संबन्धस्तत्राह –
किं त्विति ।
ननु प्रकरणाद्राजसूयार्थत्वं क्रमादभिषेचनीयार्थत्वं च किं न स्यादत आह –
समुच्चयाऽसंभवाच्चेति ।
अभिषेचनीयस्यापि राजसूयमध्यपातित्वात्तदर्थमप्यनुष्ठितमाख्यानादि राजसूयाङ्गमपि भवति ; पृथक् प्रयोगाऽनपेक्षणाद् न समुच्चय इत्यर्थः । न चैवं चिन्तावैयर्थ्यम् ; अभिषेचनीयार्थत्वेनानुष्ठितस्य पवित्राद्यवयवान्तरानुपकारकत्वादवयविराजसूयार्थस्य तदीयसर्वावयवार्थत्वोपपत्तेस्तत्सिद्धये राजसूयाङ्गत्वस्याप्युपाख्यानादेश्चिन्तनीयत्वादिति । पवित्रः सोमयागविशेषः । क्षत्रस्य धृतिरिष्टि । प्रधानस्य कथम्भावे कथं भावना निष्पद्यत इत्यपेक्षायामितिकर्तव्यताकाङ्क्षायामित्यर्थः । एतस्यामवस्थायामनिर्ज्ञातफलं यदेतत्कर्म पठ्यते तस्य प्रकरणिनं प्रत्यङ्गता भवति , निर्ज्ञातफलस्य गोदोहनादेर्वाऽङ्गता , तस्य फलवत्त्वेनाकाङ्क्षाऽनुदयादित्यर्थः ।
प्रधानस्याकाङ्क्षायामनुवर्तमानायामाम्नातस्यासंबद्धैः पदैर्व्यवधानाभावाद्राजसूयाङ्गत्वमुक्त्वाऽभिषेचनीयं प्रति सन्निधेर्दुर्बलत्वादनङ्गत्वमाह –
अभिषेचनीयस्य त्विति ।
निराकाङ्क्षस्येति प्रकरणानुत्थाने हेतुः ।
ननु यथाऽभिषेचनीयस्य सन्निधिवशात्प्रकरणकल्पना , एवं राजसूयस्यापि प्रकरणात्संनिधिः कल्प्य इति तुल्यत्वमुभयोरित्याशङ्क्याह –
प्रकरणिनश्चेति ।
सर्वव्यापकत्वाद्राजसूयस्याभिषेचनीयस्यापि तदात्मकत्वात्संनिधिसिद्धिरित्यर्थः । पौरोडाशिककाण्डे आग्नेयादीनां कर्मणां क्रमे मन्त्राः श्रुताः , तत्राऽमावस्यिकसान्नाय्यक्रमे शुन्धध्वमिति मन्त्रः समाम्नात इत्यर्थः ।
यदुक्तं समाख्याश्रुतिः साक्षात्पुरोडाशपात्रमन्त्रसंबन्धबोधिनीति , तत्राह –
समाख्या न तावदिति ।
यौगिकशब्देन हि विशिष्टं द्रव्यमुच्यते , न संबन्धः ; तद्वाचकत्वे हि संबन्धिनौ संबन्धश्चेति त्रयो वाच्याः प्रसज्येरन् । अतः सबन्ध आनुमानिक इत्यर्थः ।
आनुमानिकोऽपि संबन्धो न विशेषस्य साक्षात्सिद्ध्यति , काण्डमात्रविषयत्वादित्याह –
न तु साक्षादिति ।
अपि च भवतु समाख्या श्रुतिः , सा श्रुत्या च संबन्धः वक्तुं , नासौ विशेषरूपो विनियोगः ।
स चेह विचार्यते , अतः संबन्धमात्राभिधानेऽपि नापेक्षितसिद्धिरित्याह –
न चासाविति ।
ननु यथा शौनःशेपोपाख्यानादिकमभिषेचनीयसन्निधिबाधेन प्रकरणात्समस्तराजसूयाङ्गं निर्णीतमेवमत्रापि सान्नाय्यक्रमं बाधित्वा समस्तदर्शपूर्णमासार्थत्वमेव मन्त्रस्यास्तु , वृथा क्रमसमाख्ययोः प्राबल्यदौर्बल्यचिन्तनमत आह –
तत्रापि चेति ।
सामान्यतो दर्शपूर्णमासप्रकरणेनापादितमैदमर्त्यं यस्य स मन्त्रः , तथोक्तस्य यथा आरादुपकारतया शोनःशेपोपाख्यानादेः प्रकृतमात्रार्थत्वमेवं प्रकृतमात्रसंबन्धानुपपत्तिरित्यर्थः ।
मन्त्रस्य दृष्टार्थत्वेन सन्निपत्योपकारकत्वमाह –
मन्त्रस्येति ।
ननु दृष्टार्थत्वेन स्थानादर्थविशेषसबन्धे प्रकरणं बाधितं स्यादत आह –
यं कंचिदिति ।
पदार्थशक्त्यपेक्षत्वात्प्रकरणस्य मन्त्रस्य क्वचिदेव प्रकाशनशक्तौ तन्मात्रोपकारकत्वेनापि प्रकरणस्वीकारो भवतीत्यर्थः । तदेवं प्रकरणापेक्षितविशेषसंबन्धः स्थानेन वा बोधनीयः समाख्यया वेति संदेहे निर्णयमाह – सान्नाय्यक्रम इति ।असन्निहितयोः संबन्धायोगात् संबन्धसिद्ध्यर्थं सन्निधिमुपकल्पयतीत्यर्थः ।
वैदिकेनेति ।
पौरोडाशिकसमाख्या हि पाठकैः कृता , सान्नाय्यपात्रमन्त्रयोस्तु क्रमो वेदेनैव कृत इत्यर्थः । आकाङ्क्षा कल्प्यते सान्नाय्यपात्रमन्त्रयोरित्यर्थः ।
यावच्च क्लृप्तेनेति ।
पुरोडाशपात्रमन्त्रयोरित्यर्थः । एवमुत्तरत्र योज्यम् ।
अधिकरणपञ्चकार्थं वृद्धोक्त्या संकलयति –
एकेति ।
लिङ्गस्यैकया श्रुत्या श्रुत्यर्थं विनियोगं प्रति अन्तरयो व्यवधानं प्रतीयते । वाक्यस्य द्वाभ्यां लिङ्गश्रुतिभ्यां , प्रकरणस्य वाक्यलिङ्गश्रुतिभिः तिसृभिः स्थानस्य प्रकरणवाक्यलिङ्गश्रुतिभिश्चतसृभिः , समाख्यायाः स्थानप्रकरणवाक्यलिङ्गश्रुतिभिः पञ्चभिः श्रुत्यर्थं प्रत्यन्तरयः प्रतीयते इत्यर्थः ।
सौकर्यार्थं बाध्यबाधकभावमपि विभज्यते –
बाधिकैवेति ।
मध्यमानां तु लिङ्गादीनामुत्तरापेक्षया बाधकत्वं पूर्वापेक्षया बाध्यत्वम् । तद्यथा - लिङ्गं वाक्यस्य बाधकं तदेव श्रुतेर्बाध्यमित्यादीति । निघ्नाः परवशीताः ।
एवं श्रुत्यादिषु बलाबले निरूप्य प्रस्तुते लिङ्गात्सन्निधिबाधे उपयुक्तमुदाहरणमाह –
तस्मादिति ।
यः सोमं पिबति स इतरान् प्रत्यनुज्ञा याचते ते चानुज्ञा ददति । तत्रानुज्ञापनमनुज्ञायाचनम् , अनुज्ञेत्यनुज्ञानदानम् । उपह्वयस्व अनुजानीहीत्यर्थः । उपहूतः अनुज्ञातोऽसीत्यर्थः । देशसामान्यात्पाठक्रमादित्यर्थः ।
लिङ्गेनेति ।
आदौ ह्यनुज्ञापनं पश्चादनुज्ञेति लोकसिद्धम् । तत्रोपहूत इति मन्त्रो यद्यपि प्रथमपठितत्वादनुज्ञापने प्राप्तः ; तथापि लिङ्गादनुज्ञायां शेषत्वेन प्रतिपाद्यते । उपह्वयस्वेति च मन्त्रो यद्यपि चरमपठितत्वादनुज्ञायां प्राप्तः ; तथाप्यनुज्ञायाचनप्रकाशनसामर्थ्यात्तच्छेषत्वेन प्रतिपाद्यते इत्यर्थः ।
प्रथमतन्त्रोक्तस्मारणस्य प्रयोजनमाशङ्कान्तरनिवृत्तिरित्याह –
तथापीत्यादिना ।
विनियुक्तविनियोगो न वस्तुनि विरुध्यते ; दध्ना जुहोति दध्नेन्द्रियकामस्य जुहोतीत्येकस्य दध्न उभयार्थत्वदर्शनात् , अथ प्रतीतौ विरोधः अन्यशेषस्यान्यशेषत्वविरोधाद्यद्देवदत्तीयं तद्यज्ञदत्तशेष इतिवत् , तर्ह्यधिष्ठानलक्षणया सोऽपि विरोधः शमयिष्यत इति चेद्विद्यायां मन्त्रस्य विनियोगेऽपि तत्तुल्यमित्याह –
स विद्यायामिति ।
न चैवमैन्द्र्या अपीन्द्रे गार्हपत्ये च विनियोगशङ्का ; एकस्मिन्प्रयोगे मन्त्रावृत्तिप्रसङ्गादिति । बृहस्पतिसवोदाहरणं तु कृत्वा चिन्तयेत्युक्तमेव । अस्य पुनः स्मारणस्याभ्यधिकाशङ्केत्यर्थः ।
प्रथमतन्त्रे हि श्रुत्यादिभिर्लिङ्गादीनां बाध उक्तः , अत्र तु लिङ्गात् क्रमस्य बाधो नोच्यते , किंतु शीघ्रं लिङ्गेनान्यत्र विनियुक्ते मन्त्रे विलम्बेन क्रमस्य परिच्छेदकत्वमेव नास्तीति प्रतिपाद्यते तत्र क्रमस्यापरिच्छेदकत्वे ज्ञाते कुतो विनियुक्तविनियोगशङ्केत्याह –
नेहेति ।
श्लोकं विवृणोति –
प्रकरणेति ।
यद्यपि प्रथमेऽपि काण्डे लिङ्गादीनां श्रुत्यादिभिरप्राप्तबाध एव दर्शितः ; तथापि तत्र दुर्बलप्रमाणात् प्राप्तिः शङ्कितुं शक्यते । गार्हपत्यस्य इन्द्रस्य च स्वस्वप्रकाशकत्वेन मन्त्राकाङ्क्षत्वात् । इह तु विद्याया निराकाङ्क्षत्वाद् मन्त्रकर्मणां चान्यत्र विनियुक्तत्वेन रक्तपटन्यायाभावाच्च प्राप्तिरेव नास्तीति वैषम्यम् । भाष्ये बृहस्पतिसवस्य तुल्यबलप्रमाणद्वयादुभयार्थत्वे स्थिते प्रवर्ग्यस्यापि बृहस्पतिसवेन तुल्यत्वाशङ्कायां सन्निधेर्दुर्बलत्वादतुल्यत्वं प्रतिपादनीयम् ।
तथा च सति अपिचशब्दानुपपत्तिरित्याशङ्क्य नाभ्युच्चायार्थः सः , किं त्वेतदुपपत्तिसाहित्यं पूर्वोक्तन्यायस्य वदतीत्याह –
तुल्यबलतयेति ।
प्रमाणयोस्तुल्यबलतया बृहस्पतिसवेन प्रवर्ग्यस्य या तुल्यताशङ्का तदपाकरणद्वारेणेत्यर्थः । बृहस्प्ततिसवस्येति षष्ठी चन्द्रस्य तुल्यं मुखमितिवत्तुल्यार्थयोगनिबन्धना । अभिधातुं पदेऽन्यस्मिन्ननपेक्षो रवः श्रुतिः । सर्वभावगता शक्तिर्लिङ्गमित्यभिधीयते ॥ संहत्यार्थं ब्रुवन् वृन्दं पदानां वाक्यमुच्यते । प्रधानवाक्यमङ्गोक्त्याकाङ्क्षं प्रकरणं मतम् ॥ स्थानं समानदेशत्वं समाख्या यौगिको रवः । इति श्रुत्यादिलक्ष्योक्तं मीमांसाबुद्धिपारगैः ॥२५॥ अभिचारकर्मदेवतामभिचारकर्ता प्रार्थयते हे देव मद्रिपोः सर्वमङ्गं प्रविध्य दारय हृदयं च दारय धमनीः सिराः प्रवृञ्ज विभज त्रोटय शिरश्च अभितो विदारय । एवं मद्रिपुस्त्रिधा विपृक्तो विश्लिष्टो भवत्वित्यर्थः । हरिरिन्द्रनीलस्तद्वन्नीलोऽसीतीन्द्रः संबोध्यते । मित्र आदित्यः । शं सुखम् करत् भूयादिति विद्यार्थ्याशास्ते । अग्निष्टोमो ब्रह्म स यस्मिन्नहनि क्रियते तदपि ब्रह्मात एव तदहरहर्निर्वर्त्यं कर्म य उपयन्ति अनितिष्ठन्ति ते ब्रह्मणैव साधनेन ब्रह्मापरमुपयन्ति प्राप्नुवन्ति , ते चामृतत्वं परं ब्रह्म चाप्नुवन्ति । पुत्रस्य दीर्घायुष्ठ्वसिद्धये छान्दोग्ये त्रैलोक्यं कोशत्वेन परिकल्प्योपासनमुक्तम् । तत्रायं पितुः प्रार्थनामन्त्रः । अमुनेति पुत्रस्य त्रिर्नाम गृह्णाति । अमुना डित्थानाम्ना सह भूरितीमं लोकं प्रपद्य इत्यर्थः ॥