साम्पराये तर्तव्याभावात्तथा ह्यन्ये ।
ननु पाठक्रमादर्धपथे सुकृतदुष्कृततरणे प्रतीयेते । विद्यासामर्थ्याच्च प्रागेवावगम्येते । तथा शाठ्यायनिनां ताण्डिनां च श्रुतेः । श्रुत्यर्थौ च पाठक्रमाद्बलीयांसौ, “अग्निहोत्रं जुहोति यवागूं पचति” इत्यत्र यथा । तस्मात्पूर्वपक्षाभावादनारभ्यमेतत् । अत्रोच्यते । नैतत्पाठक्रममात्रमपि तु श्रुतिस्तत्सुकृतदुष्कृते विधूनुत इति । तदिति हि सर्वनाम तस्मादर्थे सन्निहितपरामर्शकं तस्य हेतुभावमाह । सन्निहितं च यदनन्तरं श्रुतम् । तच्चार्धपथवर्ति विरजानदीमनोऽभिगमनमित्यर्धपथ एव सुकृतदुष्कृतत्यागः । नच श्रुत्यन्तरविरोधः । अर्धपथेऽपि पापविधूनने ब्रह्मलोकसम्भवात्प्राक्कालतोपपत्तेः । एवं शाठ्यायनिनामप्यविरोधः । नहि तत्र जीवन्निति वा जीवत इति वा श्रुतम् । तथा चार्धपथ एव सुकृतदुष्कृतविमोकः । एवंच न पर्यङ्कविद्यातस्तत्प्रक्षय इति पूर्वः पक्षः । राद्धान्तस्तु विद्यासामर्थ्यविधूतकल्मषस्य ज्ञानवत उत्तरेण पथा गच्छतो ब्रह्मप्राप्तिर्न चाप्रक्षीणकल्मषस्योत्तरमार्गगमनं सम्भवति । यथा यवागूपाकात्प्राग्नाग्निहोत्रम् । यमनियमाद्यनुष्ठानसहिताया विद्याया उत्तरेण मार्गेण पर्यङ्कस्थब्रह्मप्राप्त्युपायत्वश्रवणात् । अप्रक्षीणपाप्मनश्च तदनुपपत्तेः । विद्यैव तादृशी कल्मषं क्षपयति क्षपितकल्मषं चोत्तरमार्गं प्रापयतीति कथमर्धपथे कल्मषक्षयः । तस्मात्पाठक्रमबाधेनार्थक्रमोऽनुसर्तव्यः । ननु न पाठक्रममात्रमत्र, तदिति सर्वनामश्रुत्या संनिहितपरामर्शादित्युक्तम् । तदयुक्तं, बुद्धिसंनिधानमात्रमत्रोपयुज्यते नान्यत् , तच्चानन्तरस्येव विद्याप्रकरणाद्विद्याया अपीति समाना श्रुतिरुभयत्रापीति । अर्थपाठौ परिशिष्येते तत्र चार्थो बलीयानिति । नच ताण्ड्यादिश्रुत्यविरोधः पूर्वपक्षे । अश्व इव रोमाणि विधूयेति हि स्वतन्त्रस्य पुरुषस्य व्यापारं ब्रूते, नच परेतस्यास्ति स्वातन्त्र्यम् , तस्मात्तद्विरोधः ॥ २७ ॥
छन्दत उभयाविरोधात् ।
केभ्यश्चित्पदेभ्य इदं सूत्रम् । ननु यथा परेतस्योत्तरेण पथा ब्रह्मप्राप्तिर्भवतीति विद्याफलमेवं तस्यैवार्धपथे सुकृतदुष्कृतहानिरपि भविष्यतीति शङ्कापदानि तेभ्य उत्तरमिदं सूत्रम् ।
तद्व्याचष्टे –
यदि च देहादपसृप्तस्येति ।
विद्याफलमपि ब्रह्मप्राप्तिर्नापरेतस्य भवितुमर्हति शङ्कापदेभ्यः । यथाहुः - नाजनित्वा तत्र गच्छन्तीति । सुकृतदुष्कृतप्रक्षयस्तु सत्यपि नरशरीरे सम्भवतीति समर्थस्य हेतोर्यमनियमादिसहिताया विद्यायाः कार्यक्षयायोगाद्युक्तो जीवत एव सुकृतदुष्कृतक्षय इति सिद्धम् । छन्दतः स्वच्छन्दतः स्वेच्छयेति यावत् । स्वेच्छयानुष्ठानं यमनियमादिसहिताया विद्यायाः । तस्य जीवतः पुरुषस्य स्यान्न मृतस्य । तत्पूर्वकं च सुकृतदुष्कृतहानं स्याज्जीवत एव । समर्थस्य क्षेपायोगात् । एवं कारणानन्तरं कार्योत्पादे सति निमित्तनैमित्तकयोस्तद्भावस्योपपत्तिस्ताण्डिशाठ्यायनिश्रुत्योश्च सङ्गतिरितरथा स्वातन्त्र्याभावेनासङ्गतिरुक्ता स्यात् । तदनेनोभयाविरोधो व्याख्यातः । ये तु परस्य विदुषः सुकृतदुष्कृते कथं परत्र सङ्क्रामत इति शङ्कोत्तरतया सूत्रं व्याचख्युः । छन्दतः सङ्कल्पत इति श्रुतिस्मृत्योरविरोधादेव । न त्वत्रागमगम्येऽर्थे स्वातन्त्र्येण युक्तिर्निवेशनीयेति । तेषामधिकरणशरीरानुप्रवेशे सम्भवत्यर्थान्तरोपवर्णनमसङ्गतमेवेति ॥ २८ ॥
सांपराये तर्तव्याभावात्तथा ह्यन्ये ॥२७॥ सिद्धं कृत्वा विद्यायाः कर्मक्षयहेतुत्वं हानसन्निधावुपायनोपसंहार उक्तः , इदानीं तदेवासिद्धं मार्गमध्ये श्रूयमाणस्य कर्मक्षयस्य विद्याहेतुकत्वाभावादित्याशङ्क्यते । अग्निहोत्रं जुहोतीत्यत्र पाठादर्थो बलीयानत एव श्रुतिरतिबलीयसी अर्थादपि तस्याः प्रबलत्वादित्यर्थः ।
ताण्डिनां श्रुतिविरोधं परिहरति –
अर्धपथेऽपीति ।
विधूय पापमिति हि ब्रह्मलोकप्राप्तेः प्राक्कालतोच्यते , सा चार्धपथे विधूननेऽप्युपपद्यत इत्यर्थः ।
एवं शाट्यानिनामिति ।
अर्धपथ एवोपायनसंभवादित्यर्थः ।
ननु जीवत एव विधूननोपायने , न ; एवं श्रुत्यभावादित्याह –
न हि तत्रेति ।
सर्वनामश्रुतेरन्यथासिद्धिमभिधास्यन्पाठक्रमभञ्जकमर्थक्रमं तावदाह –
विद्यासामर्थ्येत्यादिना ।
यवागूपाकस्याग्निहोत्रात्पूर्वकालत्वे सामर्थ्यं होमस्य द्रव्यापेक्षत्वेनावगतम् ।
विद्यायाः पापक्षयहेतुत्वे किं प्रमाणमित्यत आह –
यमनियमादीति ।
श्रवणात् कौषीतकिशाखायामिति शेषः ।
यमाद्यङ्गसहिताया विद्याया उत्तरमार्गद्वारेण ब्रह्मलोकप्राप्तिहेतुत्वमस्तु , तावता कथं पापक्षयहेतुत्वमत आह –
अप्रक्षीणेति ।
तदनुपपत्तेः । ब्रह्मलोकमार्गप्राप्त्यनुपपत्तेरित्यर्थः ।
तादृशीति ।
यमादिसहितेत्यर्थः ।
कथमेकस्या विद्याया उभयार्थत्वमत आह –
क्षपितेति ।
ब्रह्मलोकप्रापणार्थमेव पापक्षयं करोतीत्यर्थः ।
तच्छब्दश्रुतिविरोधमुक्तमनूद्य निराचष्टे –
ननु न पाठेत्यादिना ।
प्रधानरूपपरामर्शित्वात्सर्वनाम्नो विद्यैव परामृश्यते , नानन्तरनिर्दिष्टोऽपि विरजानद्यतिक्रमः । अभ्युपेत्य तु समानश्रुतिरित्युक्तम् ॥२७॥
शङ्काग्रन्थोक्तदृष्टान्ताद्वैषम्यमाह –
विद्याफलमपीति ।
अजनित्वा देवभावेनानुत्पद्येत्यर्थः । स्याज्जीवत एवेत्यत्र ग्रन्थच्छेदः ।
असङ्गतिरुक्तेति ।
विधूयेति हि स्वतन्त्रस्य पुरुषस्य व्यापारं ब्रूते इति ग्रन्थे उक्ता याऽसङ्गतिः सा स्यादित्यर्थः ।
भास्करमतमनुवदति –
ये त्विति ।
छन्दः संकल्पः ।
विदुषि यः शुभं संकल्पयति तस्य तदीयं शुभं भवति अशुभं संकल्पयतस्तदीयं पापमित्यर्थतया छन्दत इत्येतत्पदं तन्मतेन व्याख्यायोभयाविरोधपदं व्याचष्टे –
श्रुतिस्मृत्योरिति ।
‘ते नः कृतादकृतादेनसो देवासः पिपृत स्वस्तये’ इति श्रुतिर्भास्करोदाहृता । ते यूयं देवासो देवाः नः अस्मानद्य कृतात्स्वकृतादकृतादन्यकृतादेनसः पापात्पिपृत पालयत स्वस्तये क्षेमायेति श्रुतेरर्थः । अन्यकृतादपि भयश्रुतेरस्त्यन्यकृतस्य कर्मणोऽन्यत्र प्राप्तिरिति । ‘‘प्रियेषु त्वेषु सुकृतमप्रियेषु च दुष्कृतम् । “विसृज्य ध्यानयोगेन ब्रह्माप्येति सनातनम्’’ इति मनुस्मृतिः ।
ननु श्रुतिस्मृतिभ्यामपि कथममूर्तयोः सुकृतदुष्कृतयोराश्रयान्तरसंचारस्तत्राह –
न त्वत्रेति ।एतद्व्याख्यानं दूषयति – तेषामिति ।
अयं हि विचारो भवन्नपि हानौ त्वित्यधिकरणे संगच्छते , नात्र ; ततः शङ्कोत्तरत्वेनास्मत्कृतमेव व्याख्यानं भद्रम् । तस्य प्रियाः सुकृतमुपयन्त्यप्रिया दुष्कृतमिति तदधिकरणोदाहृतवाक्यादेव निर्णीते वृथा च वाक्यान्तरोदाहरणम् । यस्तु केशवेनास्य विचारस्यैवं तदधिकरणसङ्गम उक्तः । विद्वद्वर्तिसुकृतदुष्कृताकर्षणहेतुर्जनानां विदुषि शुभाशुभसंकल्पो जीवत्येव च विदुषि युक्तः ; ततश्च जीवदवस्थायामेव विदुषः कर्महानं नार्धपथ इति । सोऽसाधुः ; मार्गमध्यगतमपि विद्वांसं प्रति जनानां प्रीत्यप्रीतिसंभवात्तदापि सुकृतादिसंक्रमोपपत्तेरित्यास्तां तावत् ॥२८॥