भामतीव्याख्या
वेदान्तकल्पतरुः
 

गतेरर्थवत्त्वमुभयथान्यथा हि विरोधः ।

यथा हानिसंनिधावुपायनमन्यत्र श्रुतमिति, यत्रापि केवला हानिः श्रूयते तत्रापि उपायनमुपस्थापयत्येवं तत्सन्निधावेव देवयानः पन्थाः श्रुत इति यत्रापि सुकृतदुष्कृतहानिः केवला श्रुता तत्रापि देवयानं पन्थानमुपस्थापयितुमर्हति । नच निरञ्जनः परमं साम्यमुपैतीत्यनेन विरोधः । देवयानेन पथा ब्रह्मलोकप्राप्तौ निरञ्जनस्य परमसाम्योपपत्तेः । तस्माद्धानिमात्रे देवयानः पन्थाः सम्बध्यत इति प्राप्तम् । एवं प्राप्त उच्यते - विद्वान् पुण्यपापे विधूयनिरञ्जनः परमं साम्यमुपैतीति हि विदुषो विधूतपुण्यपापस्य विद्यया क्षेमप्राप्तिमाह । भ्रमनिबन्धनोऽक्षेमो याथात्म्यज्ञानलक्षणया विद्यया विनिवर्तनीयः । नासौ देशविशेषमपेक्षते । नहि जातु रज्जौ सर्पभ्रमनिवृत्तये समुत्पन्नं रज्जुतत्त्वज्ञानं देशविशेषमपेक्षते । विद्योत्पादस्यैव स्वविरोध्यविद्यानिवृत्तिरूपत्वात् । नच विद्योत्पादाया ब्रह्मलोकप्राप्तिरपेक्षणीया । यमनियमादिविशुद्धसत्त्वस्येहैव श्रवणादिभिर्विद्योत्पादात् । यदि परमारब्धकार्यकर्मक्षपणाय शरीरपातावध्यपेक्षेति न देवयानेनास्तीहार्थ इति श्रुतिदृष्टविरोधान्नापेक्षितव्य इति । अस्ति तु पर्यङ्कविद्यायां तस्यार्थ इत्युक्तं द्वितीयेन सूत्रेणेति । ये तु यदि पुण्यमपि निवर्तते किमर्था तर्हि गतरित्याशङ्क्य सूत्रमवतारयन्ति । गतेरर्थवत्त्वमुभयथा दुष्कृतनिवृत्त्या सुकृतनिवृत्त्या च । यदि पुनः पुण्यमनुवर्तेत ब्रह्मलोकगतस्यापीह पुण्यफलोपभोगायावृत्तिः स्यात् । तथा चैतेन प्रतिपाद्यमानागत्यनावृत्तिश्रुतिविरोधः । तस्माद्दुष्कृतस्येव सुकृतस्यापि प्रक्षय इति तैः पुनरनाशङ्कनीयमेवाशङ्कितम् । विद्याक्षिप्तायां हि गतौ केयमाशङ्का यदि क्षीणसुकृतः किमर्थमयं यातीति । नह्येषा सुकृतनिबन्धना गतिरपि तु विद्यानिबन्धना । तस्माद्वृद्धोक्तमेवोपवर्णनं साध्विति ॥ २९ ॥

गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥२९॥

विद्योदयसमनन्तरक्षण एव कर्मदहनमिति प्रसङ्गागतं निरूप्य प्रस्तुतगुणोपसंहारचिन्ताया अपवादकत्वेनाधिकरणं संबन्धयन् पूर्वपक्षयति –

यथेत्यादिना ।

मोक्षार्थमर्चिराद्यपेक्षा विद्योत्पत्त्यर्थं वा , विदुषोऽपि द्वैतदर्शनेन यत्नान्तरापेक्षणाद्वा ।

नाद्यः ; विद्ययैव मोक्षश्रवणादित्याह –

विद्वानित्यादिना ।

अन्यायमप्याह –

भ्रमनिबन्धन इति ।

द्वितीयं प्रत्याह –

न च विद्योत्पादायेति ।

न तृतीय इत्याह –

यदि परमिति ।

भोगादारब्धकर्मक्षये द्वैतदर्शनोपरमसिद्धेर्न मार्गापेक्षेत्यर्थः ।

उक्तमर्थं निगमयति –

इति श्रुतिदृष्टविरोधादिति ।

श्रुतिर्निरञ्जनः परममिति । दृष्टं न्यायः ।

भास्करमतमाह –

ये त्विति ।

विदुषः पुण्यमपि निवर्तते चेद् भोगप्रयोजकाभावाद् गतिर्वृथा स्यादित्यर्थः ।

अन्यथा हि विरोध इति सूत्रभागं तन्मतेन योजयति –

यदि पुनरिति ।

पुण्यक्षयेऽप्युपास्तेर्भोगप्रयोजिकाया विद्यमानत्वादाशङ्कानुत्थानेन दूषयति – तैरिति ॥२९॥ ।३०॥

इति सप्तदशं गतेरर्थवत्त्वाधिकरणम् ॥