अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ।
प्रकरणं हि धर्माणां नियामकम् । यदि तु तन्नाद्रियते ततो दर्शपूर्णमासज्योतिष्टोमादिधर्माः सङ्कीर्येरन् । नच तेषां विकृतिषु सौर्यादिषु द्वादशाहादिषु चोदकतः प्राप्तिः । सर्वत्रौपदेशिकत्वात् । नच दर्विहोमस्याप्रकृतिविकारस्याधर्मकत्वम् । नच सर्वधर्मयुक्तं कर्म किञ्चिदपि शक्यमनुष्ठातुम् । न चैवं सति श्रुत्यादयोऽपि विनियोजकास्तेषामपि हि प्रकरणेन सामान्यसम्बन्धे सति विनियोजकत्वात् । यत्रापि विनाप्रकरणं श्रुत्यादिभ्यो विनियोगोऽवगम्यते तत्रापि तन्निर्वाहाय प्रकरणस्यावश्यं कल्पनीयत्वात् । तस्मात्प्रकरणं विनियोगाय तन्नियमाय चावश्याभ्युपेतव्यमन्यथा श्रुत्यदीनामप्रामाण्यप्रसक्तेः । तस्माद्यास्वेवोपासनासु देवयानः पितृयाणो वा पन्था आम्नातस्तास्वेव न तूपासनान्तरेषु तदनाम्नानात् । नच “ये चेमेऽरण्ये श्रद्धा तप इत्युपासते”(छा. उ. ५ । १० । १) इति सामान्यवचनात्सर्वविद्यासु तत्पथप्राप्तिः । श्रद्धातपःपरायणानामेव तत्र तत्पथप्राप्तिः श्रूयते, न तु विद्यापरायणानाम् । अपिचैवं सत्येकस्यां विद्यायां मार्गोपदेशः सर्वासु विद्यास्वित्येकत्रैव मार्गोपदेशः कर्तव्यो न विद्यान्तरे । विद्यान्तरे च श्रूयते । तस्मान्न सर्वोपासनासु पथिप्राप्तिरिति प्राप्तम् । एवं प्राप्ते उच्यते “ये चेमेऽरण्ये श्रद्धा तप इत्युपासते”(छा. उ. ५ । १० । १) इति न श्रद्धातपोमात्रस्य पथिप्राप्तिमाहापि तु विद्यया तदारोहन्तीत्यत्र नाविद्वांसस्तपस्विन इति केवलस्य तपसः श्रद्धायाश्च तत्प्राप्तिप्रतिषेधाद्विद्यासहिते श्रद्धातपसी तत्प्राप्युपायतया वदन् विद्यान्तरीलानामपि पञ्चाग्निविद्याविद्भिः समानमार्गतां दर्शयति । तथान्यत्रापि पञ्चाग्निविद्याधिकारेऽभिधीयते “य एवमेताद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते”(छा. उ. ५ । २ । १५) इति । सत्यशब्दस्य ब्रह्मण्येवानपेक्षप्रवृत्तित्वात् । तदेव हि सत्यमन्यस्य मिथ्यात्वेन कथञ्चिदापेक्षिकसत्यत्वात् । पञ्चाग्निविदां चेत्थंवित्तयैवोपात्तत्वात् । विद्यासाहचर्याच्च विद्यान्तरपरायणानामेवेदमुपादानं न्याय्यम् । मार्गद्वयभ्रष्टानां चाधोगतिश्रवणात् । तत्रापि च योग्यतया देवयानस्यैवेहाध्वनोऽभिसम्बन्धः । एतदुक्तं भवति - भवेत्प्रकरणं नियामकं यद्यनियमप्रतिपादकं वाक्यं श्रौतं स्मार्तं वा न स्यादस्ति तु तत्तस्य च प्रकरणाद्बलीयस्त्वम् । तस्मादनियमो विद्यान्तरेष्वपि सगुणेषु देवयानः पन्था असकृन्मार्गोपदेशस्य च प्रयोजनं वर्णितं भाष्यकृतेति ॥ ३१ ॥
अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥३१॥ सगुणनिर्गुणविद्यासु गतिभावाऽभावव्यावस्थावत्सगुणास्वपि व्यवस्थाप्राप्तौ तदपवादार्थमारभ्यते ।
ननु ब्रह्मलोकप्राप्तेर्गत्यपेक्षत्वात्तत्फलासु सकलसगुणविद्यासु लिङ्गाद्गतिसिद्धेः कथं प्रकरणेन दुर्बलेन गतिव्यवस्था शङ्क्यते ? तत्राह –
प्रकरणं हीति ।
लिङ्गस्य सामान्यसंबन्धसापेक्षत्वात्प्रकृते च तदभावादविनियोजकत्वे प्रकरणाद्व्यवस्थेत्यर्थः ।
यदि पञ्चाग्निविद्यासु श्रुतापि गतिर्विद्यान्तरे संचार्येत , ततोऽतिप्रसङ्ग इत्याह –
यदि त्विति ।
प्रकरणस्यानियामकत्वे यत्र क्वचिच्छ्रुतं सर्वत्र श्रुतिमेवेति दर्शपूर्णमासविकृतिषु सौर्यादिषु ज्योतिष्टोमविकृतिषु द्वादशाहादिषु च प्राकृतधर्माणामतिदेशतः प्राप्तिर्न स्यात्सर्वेषां सर्वत्रौपदेशिकत्वप्रसङ्गादित्याह –
न च तेषामिति ।
अतिप्रसङ्गान्तरमाह –
न च दर्विहोमस्येति ।
‘‘यदेकया जुहुयाद्दर्विहोमं कुर्यादि’’ति श्रूयते । यत्रैकया ऋचा जुहुयाद् होतुमारभेत , तत्र दर्विहोमं कुर्यादित्यर्थः । ये होमाः कुतश्चित्प्रकृतेर्धर्मं न गृह्णन्ति , न च केभ्यश्चित्स्वधर्मं प्रयच्छन्ति , तेषां दर्विहोम इति नाम , तेषु नाऽऽरादुपकारकमङ्गमस्ति । तत्र दर्विहोमा धर्मग्राहिणो न वेति संदेहे उत्पत्तावश्रुतदेवतात्मकाऽव्यक्तत्वेन सोमयागसाम्यात् तद्विकृतित्वात्तद्धर्मप्राप्तावष्टमे सिद्धान्तितम् - अग्निहोत्रं जुहोतीत्यादेरिव दर्विहोमस्य होमत्वात् सोमस्य च यागत्वाद् वैषम्येण न प्रकृतिविकृतिभावः । अव्यक्तत्वं च सति यागत्वे विशेषसंबन्धनिमित्तं न यागहोमत्वरूपात्यन्तवैलक्षण्ये प्रकृतिविकृतिभावमवगमयितुमर्हति । अस्तु तर्हि नारिष्टहोमप्रकृतिकत्वं दर्विहोमानाम् ? तदपि न ; न तावदग्निहोत्रस्य नारिष्टप्रकृतिकत्वमुभयत्रापि कतिपयधर्मसद्भावेनागृह्यमाणविशेषत्वात् । नच होमान्तराणां नारिष्टप्रकृतिकत्वम् ; तेषां नारिष्टप्रकृतिकत्वमग्निहोत्रप्रकृतिकत्वं वेत्यविनिगमप्रसङ्गात् । तस्मादपूर्वो दर्विहोम इति । तदेवमप्रकृतिविकृतिभूतस्य दर्विहोमस्याधर्मकत्वं सिध्यति । प्रकरणस्यानियामकत्वे यत्र क्वापि श्रुतस्य दर्विहोमशेषत्वापत्तेरित्यर्थः ।
अपि च प्रकरणस्याऽनियामकत्वे सर्वे धर्माः सर्वकर्मणां स्युः , तथा चाशक्यानुष्ठानतेत्याह –
न च सर्वधर्मेति ।
ननु प्रकरणस्यानियामकत्वेऽपि श्रुत्यादिभिः शेषशेषिभावावगमः स्यादत आह –
न चैवं सतीति ।
श्रुत्यादयो हि द्विप्रकाराः केचित्सामान्येन प्रवर्तन्ते यथा व्रीहीन् प्रोक्षतीति , केचिद्विशेषतो यथेन्द्र्या गार्हपत्यमिति ।
आद्येष्वाह –
तेषामपीति ।
इतरथाऽऽनर्थक्यादित्यर्थः ।
द्वितीयेष्वाह –
यत्रापीति ।
विशेषतस्तु श्रुतिविनियुक्तस्यापि धर्मस्य प्रकरणानपेक्षायामानर्थक्यमेव स्यात् । न ह्यैन्द्र्या गार्हपत्यप्रकाशनमात्रेण किंचित्फलं लभ्यमित्यर्थः । यत्र स्वयमेव प्रकरणं विनियोजकं यथा प्रयाजादिषु , तत्र विनियोगाय यत्र श्रुत्यादीनि विनियोजकानि तत्र विनियोगनिर्वाहाय प्रकरणमवश्याभ्युपेयमित्यर्थः ।
प्रकरणस्य वाक्याद्बाधमाशङ्क्याह –
न च ये चेति ।
छान्दोग्यस्थपञ्चाग्निविद्यावाक्यगतश्रद्धातपसोर्वाक्यान्तरवशेन विद्यालक्षणार्थत्वं व्याख्याय वाक्येन प्रकरणबाधया सर्वसगुणाहंग्रहविद्यानामर्चिरादिद्वारा ब्रह्मलोकप्राप्तिसाधनत्वमुक्तम् , इदानीं वाजसनेयकगतपञ्चाग्निविद्यायां साक्षात्सत्यब्रह्मोपासनस्यार्चिरादिप्राप्तिसाधनत्वप्रतीतेरप्येवमेवेत्याह –
तथान्यत्रापीति ।
ननु सत्यशब्देन फलाऽव्यभिचारात्पञ्चाग्नय एवोच्यन्ताम् , अत आह –
पञ्चाग्निविदां चेति ।
न केवलं लौकिकसत्यस्यापेक्षिकत्वाद् ब्रह्मणश्च निरङ्कुशसत्यत्वात्सत्यमुपासत इति ब्रह्मोपासनाया ग्रहणमपि तु पञ्चाग्निविद्यासन्निधानादपीत्याह –
विद्यासाहचर्याच्चेति ।
दक्षिणोत्तरमार्गहीनानाम’’थ य एतौ पन्थानौ न विदु’’रित्यधोगतिश्रवणाद्विद्यान्तरशीलानां मार्गद्वयेऽन्तर्भावश्चेत्तर्ह्युपासकानां दक्षिणमार्गप्राप्तिरस्तीति , नेत्याह –
तत्रापि च योग्यतयेति ।
विद्यया तदारोहन्तीति विद्यादेवयानयोः सबन्धुं योग्यतयेत्यर्थः ।
यत्तु प्रकरणस्यानियामकत्वे दूषणजातमुक्तं , तदनङ्गीकारपरास्तमित्याह –
भवेत्प्रकरणमिति ।
वाक्यबाधितविषयादन्यत्र प्रकरणस्य नियामकत्वमिष्यत इत्यर्थः । श्रौतं वाक्यं ये चेमेऽरण्ये श्रद्धा सत्यमुपासत इत्यादि , स्मार्ते शुक्लकृष्णे गती ह्येते इत्यादि । विद्यान्तरेष्वपि देवयानः पन्था अस्तीति शेषः ।
यत्तूक्तमेकस्य श्रुतस्य मार्गस्य सर्वत्रोपसंहारश्चेत्तर्ह्युपकोसलविद्यायां पञ्चाग्निविद्यायां चानेकत्र मार्गोक्तिवैयर्थ्यमिति , तत्राह –
असकृदिति ।
उभयत्रानुचिन्तनं भाष्योक्तं प्रयोजनम् ॥३१॥ यत्र यस्मिन्प्राप्ते कामाः क्षुद्रविषयाः परागता निवृत्ता भवन्ति तद् ब्रह्मलोकाख्यं स्थानं विद्ययाऽऽरोहन्ति तत्र च स्थाने दक्षिणा दक्षिणमार्गगा न यन्ति । तपस्विनोऽप्यविद्वांसो न यन्ति , ये एतत्पञ्चाग्निरूपं विदुः ये चारण्ये स्थित्वा इमे वनस्थादयः श्रद्धां कृत्वा सत्यमवितथं परं ब्रह्मोपासते , उभयेऽप्यर्चिरादिमार्गं प्राप्नुवन्तीति शेषः । एतौ पन्थानौ दक्षिणोत्तरौ ये न विदुरेतत्प्राप्तिसाधनं नानुतिष्ठन्तीत्यर्थः । ते कीटादयो भवन्ति , कीटा गोमयादिसंभवाः । पतङ्गाः शलभाः । दन्दशूकः सर्पः ॥