भामतीव्याख्या
वेदान्तकल्पतरुः
 

यावदधिकारमवस्थितिराधिकारिकाणाम् ।

सगुणायां विद्यायां चिन्तां कृत्वा निर्गुणायां चिन्तयति । निर्गुणायां विद्यायां नापवर्गः पलं भवितुमर्हति । श्रुतिस्मृतीतिहासपुराणेषु विदुषामप्यपान्तरतमःप्रभृतीनां तत्तद्देहपरिग्रहपरित्यागौ श्रूयेते । तदपवर्गफलत्वे नोपपद्यते । अपवृक्तस्य तदनुपपत्तेः । उपपत्तौ वा तल्लक्षणायोगात् । अपुनरावृत्तिर्हि तल्लक्षणम् । तेन सत्यामपि विद्यायां तदनुपपत्तेर्न मोक्षः फलं, विद्यायां विभूतयस्तु तास्तास्तस्याः फलम् । अपुनरावृत्तिश्रुतिः पुनस्तत्प्रशंसार्थेति मन्यते । नच “तावदेवास्य चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य”(छा. उ. ६ । १४ । २) इति श्रुतेर्विदुषो देहपातावधिप्रतीक्षावद्वसिष्ठादीनामपि प्रारब्धकर्मफलोपभोगप्रतीक्षेति साम्प्रतम् । येन हि कर्मणा वसिष्ठादीनामारब्धं शरीरं तत्प्रतीक्षा स्यात् । तथाच न शरीरान्तरं ते गृह्णीयुः । नच तावदेव चिरमित्येतदप्यार्जवेन घटते । समर्थहेतुसंनिधौ क्षेपायोगात् । तस्मादेतदपि विद्यास्तुत्यैव गमयितव्यम् । तस्मान्नापवर्गो विद्याफलम् । तथा चापवर्गाक्षेपेण पूर्वः पक्षः । अत्र च पाक्षिकं मोक्षहेतुत्वमित्यापाततः, अहेतुत्वं वेति तु पूर्वपक्षतत्त्वम् । राद्धान्तस्तु विद्याकर्मस्वनुष्ठानतोषितेश्वरचोदितम् । अधिकारं समाप्यैते प्रतिशन्ति परं पदम् ॥ निर्गुणायां विद्यायामपवर्गलक्षणं श्रूयमाणं न स्तुतिमात्रतया व्याख्यातुमुचितम् । पौर्वापर्यपर्यालोचने भूयसीनां श्रुतीनामत्रैव तात्पर्यावधारणात् । नच यत्र तात्पर्यं तदन्यथयितुं युक्तम् । उक्तं हि “न विधौ परः शब्दार्थ” इति । नच विदुषामपान्तरतमःप्रभृतीनां तत्तद्देहसञ्चारात्सत्यामपि ब्रह्मविद्यायामनिर्मोक्षान्न ब्रह्मविद्या मोक्षस्य हेतुरिति साम्प्रतम् । हेतोरपि सति प्रतिबन्धे कार्यानुपजनो न हेतुभावमपाकरोति । नहि वृन्तफलसंयोगप्रतिबद्धं गुरुत्वं न पतनमजीजनदिति प्रतिबन्धापगमे तत्कुर्वन्न तद्धेतुः । नच न सेतुप्रतिबन्धानामपां निम्नदेशानभिसर्पणमिति सेतुभेदे न निम्नमभिसर्पन्ति । तद्वदिहापि विद्याकर्माराधनावर्जितेश्वरविहिताधिकारपदप्रतिबद्धा ब्रह्मविद्या यद्यपि न मुक्तिं दत्तवती तथापि तत्परिसमाप्तौ प्रतिबन्धविगमे दास्यति । यथा हि प्रारब्धविपाकस्य कर्मणः प्रक्षयं प्रतीक्षमाणश्चरमदेहसमुत्पन्नब्रह्मसाक्षात्कारोऽपि ध्रियतेऽथ तत्प्रक्षयान्मोक्षं प्राप्नोति । एवं प्रारब्धाधिकारलक्षणफलविद्याकर्मा पुरुषो वसिष्ठादिर्विद्वानपि तत्क्षयं प्रतीक्षमाणो युगुपत्क्रमेण वा तत्तद्देहपरिग्रहपरित्यागौ कुर्वन्मुक्तोऽप्यनाभोगात्मिकया प्रख्यया सांसारिक इव विहरति ।

तदिदमुक्तम् –

सकृत्प्रवृत्तमेव हि ते कर्माशयमधिकारफलदानायेति ।

प्रारब्धविपाकानि तु कर्माणि वर्जयित्वा व्यपगतानि ज्ञानेनैवातिवाहितानि ।

न चैते जातिस्मरा इति ।

यो हि परवशो देहं परित्याज्यते देहान्तरं च नीतः पूर्वजन्मानुभूतस्य स्मरति स जन्मवाञ्जातिस्मरश्च । गृहादिव गृहान्तरे स्वेच्छया कायान्तरं सञ्चरमाणो न जातिस्मर आख्यायते । व्युद्य विवादं कृत्वा ।

व्यतिरेकमाह –

यदि ह्युपयुक्ते सकृत्प्रवृत्ते प्रारब्धविपाके कर्मणि कर्मान्तरमप्रारब्धविपाकमिति ।

स्येदेतत् । विद्ययाविद्यादिक्लेशनिवृत्तौ नावश्यं निःशेषस्य कर्माशयस्य निवृत्तिरनादिभवपरम्पराहितस्यानियतविपाककालस्यासङ्ख्येयत्वात्कर्माशयस्येत्यत आह –

न चाविद्यादिक्लेशदाहे सतीति ।

नहि समाने विनाशहेतौ कस्यचिद्विनाशो नापरस्येति शक्यं वदितुम् । तत्किमिदानीं प्रवृत्तफलमपि कर्म विनश्येत् । तथाच न विदुषो वसिष्ठादेर्देहधारणेत्यत आह –

प्रवृत्तफलस्य तु कर्मण इति ।

तस्य तावदेव चिरमिति श्रुतिप्रामाण्यादनागतफलमेव कर्म क्षीयते न प्रवृत्तफलमित्यवगम्यते ।

अपिच नाधिकारवतां सर्वेषामृषीणामात्मतत्त्वज्ञानं तेनाव्यापकोऽप्ययं पर्वपक्ष इत्याह –

ज्ञानान्तरेषु चेति ।

तत्किन्तेषामनिर्मोक्ष एव, नेत्याह –

ते पश्चादैश्वर्यक्षय इति ।

निर्विण्णा विरक्ताः । प्रतिसञ्चरः प्रलयः । अपिच स्वर्गादावनुभवपथमनारोहति शब्दैकसमधिगम्ये विचिकित्सा स्यादपि मन्दधियामामुष्मिकफलत्वं प्रति । यथा चार्थवादः “को हि तद्वेद यदमुष्मिंल्लोकेऽस्ति वा न वेति” ।

अद्वैतज्ञानफलत्वे मोक्षस्यानुभवसिद्धे विचिकित्सागन्धोऽपि नास्तीत्याह –

प्रत्यक्षफलत्वाच्चेति ।

अद्वैततत्त्वसाक्षात्कारो हि अविद्यासमारोपितं प्रपञ्चं समूलघातं निघ्नन्घोरं संसाराङ्गारपरितापमुपशमयति पुरुषस्येत्यनुभवादिति स्फुटमुपपत्तिद्रढिम्नश्च श्रुतिर्दर्शिता । तच्चानुभवाद्वामदेवादीनां सिद्धम् ।

ननु तत्त्वमसि वर्तस इति वाक्यं कथमनुभवमेव द्योतयतीत्यत आह –

नहि तत्त्वमसीत्यस्येति ।

वर्तमानापदेशस्य भविष्यदर्थता मृतशब्दाध्याहारश्चाशक्य इत्यर्थः ॥ ३२ ॥

यावदधिकारमवस्थितिराधिकारिकाणाम् ॥३२॥ निर्गुणविद्यायां गतिंप्रतिषिध्य सगुणविद्यायां गतिप्रयोजकैश्वर्यविशेषदर्शनाद्गतिरर्थवतीत्युक्तम् । सगुणासु च गतेः सार्वत्रिकत्वं वर्णितम् । इदानीं निर्गुणविद्याया अपि मोक्षहेतुत्वाऽनुपपत्तेरैश्वर्यफलत्वं वक्तव्यम् , ऎश्वर्यविशेषश्च न गतिमन्तरेणेति सगुणास्विति विशेषणं च व्यर्थमित्यभिहितव्यवस्थाक्षेपेण प्रत्यवस्थीयते ।

तत्रोपरितनकतिपयाधिकरणानां तात्पर्यमाह –

सगुणायामिति ।

अपुनरावृत्तिर्हीति ।

पुनर्देहानुपादानमित्यर्थः । ननु पुनर्देहानुपादानं नापवर्गः , किंत्विदानीं प्रवृत्तफलकर्मजन्यभाविदेहसंबन्धाभावः ।

वसिष्ठादीनां च सोऽस्तीति कथं नापवर्ग इत्याशङ्क्याह –

न च तावदेवेति ।

भाविदेहस्य सर्वस्याप्रवृत्तफलकर्मजन्यत्वाद्वसिष्ठादयो यदि देहान्तरं गृह्णीयुस्तर्ह्यप्रवृत्तफलकर्मजन्यदेहत्वान्मुक्त्वा न स्युः । अतश्च यदि प्रवृत्तफलं कर्ममात्रं प्रतीक्षेरंस्तर्हि वसिष्ठादिदेहमात्रारम्भकं प्रतीक्षेरन्निति देहान्तरग्रहणानुपपत्तिरित्यर्थः ।

यच्च वसिष्ठादीनां प्रारब्धकर्मप्रतीक्षायामस्मदादिविद्वन्निदर्शनं , तदप्यसिद्धमित्याह –

न च तावदिति ।

विद्याकर्मणोः सुष्ट्वनुष्ठानं विद्याकर्मस्वनुष्ठानम् । प्रतिबन्धापगमे गुरुत्वं न न हेतुरपि तु हेतुरेवेत्यर्थः । सेतुभेदेन हेतुनाऽपि निम्नदेशमापो नाभिसर्पन्तीति न ,अपि तु अभिसर्पन्त्येवेत्यर्थः । आवर्जितो वशीकृतः । ध्रियते प्रतिबध्यते । प्रारब्धमधिकारलक्षणं फलं याभ्यां विद्याकर्मभ्यां ते प्रारब्धाधिकारलक्षणफले विद्याकर्मणी इत्येको बहुव्रीहिः तादृशे विद्याकर्मणि यस्य स प्रारब्धाधिकारलक्षणफलविद्याकर्मा पुरुष इत्यपरः । सौभरिवद्युगपत्क्रमेण वेति प्रवृत्तफलादेव कर्मणो नानादेहप्राप्तिरुक्ता । मुक्तो जीवन्मुक्तः ।

अनाभोगात्मिकयेति ।

अविस्तारात्मिकया । प्रख्यया प्रतीत्या दृढाभिमानेन रहितयेत्यर्थः । विहरति चेष्टते ।

सकृत्प्रवृत्तमिति भाष्ये किमर्थं प्रवृत्तः कर्मसमूह इति न ज्ञायतेऽतः पूरयति –

अधिकारेति ।

ननु प्रवृत्तफलं कर्माशयं भोगेनातिवाहयन्तु , अप्रवृत्तफलानां तु कथं निवृत्तिरत आह –

प्रारब्धविपाकानि त्विति ।

व्यपगतानि निवृत्तानि ।

तत्र हेतुः –

ज्ञानेनैवेति ।

जातिस्मरस्याधिकारिकपुरुषाद्वैषम्यमाह –

यो हीति ।

परित्याज्यते परित्यक्तत्वेन क्रियते ।पूर्वजन्मानुभूतस्येति कर्मणि षष्ठी ।

स जन्मवानिति ।

जातोऽहमित्यबाधिताभिमानवानित्यर्थः ।

आधिकारिकपुरुषस्य जातिस्मराद्वैषम्यमाह –

गृहादिवेति ।

बाधितदेहाभिमान इति प्रदर्शनार्थं गृहोदाहरणम् ।

व्युद्येति भाष्यपदमुपादाय व्याचष्टे –

विवादं कृत्वेति ।

व्यतिरेकमाहेति ।

प्रवृत्तफलमेव कर्म भोगेन क्षपयन्त्याधिकारिका इत्युक्तं , तस्य व्यतिरेकमुपन्यस्य दूषयतीत्यर्थः ।

प्रवृत्तफलाऽनेककर्मजन्यफलभोगस्याधिकारिष्वपीष्टत्वात्कर्मान्तरशब्दं व्याख्याति –

अप्रारब्धेति ।

त्वं तदसि वर्तस इति ब्रह्मात्मत्वं जीवस्य वर्तत इत्युक्तेऽनुभवारूढत्वं ब्रह्मात्मत्वस्य न प्रतीत्यतेऽर्थसत्तामात्रस्योक्तत्वादित्याशङ्कायाः परिहारमाह –

वर्तमानापदेशस्येति ।

स्वप्रकाशं ब्रह्मात्मत्वमत उपदिष्टे तस्मिन्ननुभवेन भाव्यम् ; अज्ञानस्य प्रतिबन्धकस्यापनीतत्वात् । न चेदनुभूयेत , तर्हि तदिदानीं नास्तीति मृतस्त्वं तद् भविष्यसि इत्यध्याहार्यम् । अतोऽध्याहारभयाद् वर्तमानापदेश उत्तमाधिकारिणं प्रत्यनुभवपर्यन्ततामपि गमयतीत्यर्थः ॥ अथ आधिकारिकैश्वर्यप्रापककर्मक्षयानन्तरं ततः पदादूर्ध्वः विलक्षणः सन् साक्षादेत्य उद्गम्य नैवोदेता नास्तमेताऽऽदित्यः किं तर्ह्येकल एव मध्ये स्वात्मनि स्थाता ॥३२॥

इत्येकोनर्विशं यावदधिकाराधिकरणम् ॥