अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ।
अक्षगविषयाणां प्रतिषेधधियां सर्ववेदवर्तिनीनामवरोध उपसंहारः प्रतिषेधसामान्यादक्षरस्य तद्भावप्रत्यभिज्ञानात् । आनन्दादयः प्रधानस्येत्यत्रायमर्थो यद्यपि भावरूपेषु विशेषणेषु सिद्धस्तन्त्र्यायतया च निषेधरूपेष्विति सिद्ध एव । तथापि तस्यैवैष प्रपञ्चोऽवगन्तव्यः ।
निदर्शनम् । जामदग्न्येऽहीन इति ।
यद्यपि शाबरे दत्तोत्तरमत्रोदाहरणान्तरं तथापि तुल्यन्यायतयैदपि शक्यमुदाहर्तुमित्युदाहरणान्तरं दर्शितम् । तत्र शाबरमुदाहरणमस्त्याधानं यजुर्वेदविहितम् “य एवं विद्वानग्निमाधत्त” इति । तदङ्गत्वेन यजुर्वेद एव “य एवं विद्वान्वारवन्तीयं गायति य एवं विद्वान्यज्ञायज्ञीयं गायति य एवं विद्वान्वामदेव्यं गायति” इति विहितम् । एतानि च सामानि सामवेदेषूत्पन्नानि । तत्रेदं सन्दिह्यतेकिमेतानि यत्रोत्पद्यन्ते तत्रत्यैनेवोच्चैष्ट्वेन स्वरेणाधाने प्रयोक्तव्यान्यथ यत्र विनियुज्यन्ते तत्रत्येनोपांशुत्वेन स्वरेण “उच्चैः साम्नोपांशु यजुषा” इति श्रुतेः । किं तावत्प्राप्तम् । उत्पत्तिविधिनैवापेक्षितोपायत्वात्मना विहितत्वादङ्गनां तस्यैव प्राथम्यात्तन्निबन्धन एवोच्चैःस्वरे प्राप्त उच्यते गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः । अयमर्थः उत्पत्तिविधिर्गुणो विनियोगविधिस्तु प्रधानं, तदनयोर्व्यातिक्रमे विरोधे उत्पत्तिविध्यालोचनेनोच्चैष्ट्वं विनियोगविध्यालोचनेन चोपांशुत्वं सोऽयं विरोधो व्यतिक्रमस्तस्मिन्वयतिक्रमे मुख्येन प्रधानेन नियुज्यमानत्वरूपेण तस्य वारवन्तीयादेर्वेदसंयोगो ग्राह्यो नोत्पद्यमानत्वेन गुणेन । कुतः, विनियुज्यमानत्वस्य मुख्यत्वेनोत्पद्यमानत्वस्य गुणत्वेन तदर्थत्वाद्विनियुज्यमानार्थत्वादुत्पद्यमानत्वस्य । एतदुक्तं भवतियद्यप्युत्पत्तिविधावपि चातूरूप्यमस्ति विधित्वस्याविशेषात् । तन्मात्रनान्तरीयकत्वाच्च चातूरूप्यस्य । तथापि वाक्यानामैदम्पर्यं भिद्यते । एकस्यैव विधेरुत्पत्तिविनियोगाधिकारप्रयोगरूपेषु चतुर्षु मध्ये किञ्चिदेव रूपं केनचिद्वाक्येनोल्लिख्यते यदन्यतोऽप्राप्तम् । तत्र यद्यपि सामवेदे सामानि विहितानि तथापि तद्वाक्यानां तदुत्पत्तिमात्रपरता विनियोगस्य याजुर्वैदिकैरेव वाक्यै प्राप्तत्वात् । तथाचोत्पत्तिवाक्येभ्यः समीहितार्थाप्रतिलम्भाद्विनियोगवाक्येभ्यश्च तदवगतेस्तदर्थान्येवोत्पत्तिवाक्यानि भवन्तीति तत्र येन वाक्येन विनियुज्यन्ते तस्यैव स्वरस्य साधनत्वंसंस्पर्शिनो ग्रहणं न तु रूपमात्रस्पर्शिन इति । भाष्यकारीयमप्युदाहरणमेवमेव योजयितव्यम् ।
उद्गातृवेदोत्पन्नानां मन्त्रणामुद्गात्रा प्रयोगे प्राप्ते अध्वर्युप्रदानकेऽपि पुरोडाशे विनियुक्तत्वात्प्रधानानुरोधेनाध्वर्युणैव तेषां प्रयोगो नोद्गात्रेति दार्ष्टान्तिके योजयति –
एवमिहापीति ॥ ३३ ॥
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥३३॥ पूर्वत्राधिकारिणां प्रारब्धकर्मण एव शरीरान्तरारम्भसंभवेन कर्मान्तरस्य निमित्ततेत्युक्तम् , एवमिहापि तत्तत्प्रकरणपठितनिषेधेभ्य एवोपलक्षणतया सर्वप्रपञ्चनिषेधसिद्धेर्न शाखान्तरीयनिषेधानां तत्र ब्रह्मप्रमितिहेतुत्वमित्याशङ्क्यते । अक्षरस्य धियोऽक्षरधियः ।
अक्षरे धर्मिणि प्रपञ्चप्रतिषेधधिय इत्यर्थे सूत्रपदं व्याचष्टे –
अक्षरविषयाणामिति ।
प्रतिषेधसामान्यादिति ।
प्रतिषेधानां भूमनिवर्तकत्वसामान्यादित्यर्थः ।
तस्यैवैष प्रपञ्च इति ।
अस्यार्थः - भवेद् ब्रह्मस्वरूपत्वादानन्दाद्युपसंहृतिः । निषेधानामनात्मत्वान्नोपसंहारसंभवः ॥१॥ आनन्त्याच्च निषेध्यानां तन्निषेधधियामपि । असंख्येयतयैकत्र कथं शक्योपसंहृतिः ॥२॥ स्थालीपुलाकवत्किंचिन्निषेधेनान्यलक्षणे । यथाश्रुतेन तत्सिद्धेरुपसंहरणं वृथा ॥३॥ इत्याशङ्कानिवृत्त्यर्थमेतदधिकरणम् ॥
निवृत्तिप्रकारस्तु - प्रतिषेधा अनात्मानोऽप्यात्मलक्षणतां गताः । आत्मप्रमितिसिद्ध्यर्थं संयास्यन्त्यश्रुतस्थले ॥४॥ न च निषेधानन्त्यादनुपसंहारः ; प्रपञ्चो हि निषेध्योऽत्र भूतं वा भौतिकानि वा । इन्द्रियाणि शरीरं वाऽविद्या वा विश्वकारणम् ॥५॥ एषां परिमितत्वेन निषेधपरिमेयतः । साकाङ्क्षेषु निषेधेषु गच्छेयुः पूर्तये परे ॥६॥ तत्राप्यस्थूलवाक्यपरिपूर्णो निषेधः ; अस्थूलमित्याद्यदीर्घमित्यन्तेन शरीरनिषेधात् , अतम इत्यविद्यानिषेधात् ; अबाह्यमनाकाशमिति भूतनिषेधात् , अचक्षुष्कमित्यादिनेन्द्रियनिषेधात् , अन्यत्र त्वस्मादुपसंहार इति सूचयितुं भगवता सूत्रकारेणाक्षरधियामित्युक्तम् । भाष्यकारेणौपसदवदिति सूत्रोक्तदृष्टान्तविवरणाय जामदग्न्याहीनगतमन्त्रा उदाहृताः । त एव गुणा मुख्याधिकरणविषया इति च सूचितम् । प्रधानकर्मत्वाच्चाङ्गानामिति तत्रैव सूत्रयोजनात् ।
शाबरतन्त्रे चान्यदुदाहृतमिति विरोधमाशङ्क्याह –
यद्यपीति ।
वारवन्तादिपदवन्ति सामानि वारवन्तीयादीनि वारयन्तीयादेर्वेदसंयोग इति वेदसंयोगे सिद्धे तत्रत्येनैव स्वरेण स्वरवत्त्वं च सिद्ध्यतीत्यभिप्रायः । विनियुज्यमानत्वस्य मुख्यत्वेनेति । तद्धि फलसन्निकर्षान्मुख्यमिति ।
ननु सर्वेषां विधीनामुत्पत्तिविनियोगाधिकारप्रयोगात्मकत्वात्कथं विधीनां शेषशेषित्वमित्यत्राह –
एतदुक्तमिति ।
विधित्वं हि अपेक्षितोपायत्वरूपम् । तत्रानुष्ठेयभावार्थज्ञानादुत्पत्तिरस्ति । अस्ति च किंचित्प्रतिशेषत्वाद्विनियोगः । अस्ति च फलसाधने स्वामित्वं पुरुषस्याधिकारः अस्ति चानुष्ठेयत्वबोधात् प्रयोग इत्युत्पत्तिविधावपि विद्यते चातूरूप्यमिति ।
ऐदंपर्यभेदे हेतुमाह –
एकस्यैव हि विधेरिति ।
विधेर्विध्यर्थस्य उत्पत्त्यादिषु मध्ये यद्येकमप्राप्तमितराणि प्राप्तानि , तर्हि तदेव रूपं वाक्येनोल्लिख्यते नेतराण्यन्यतः प्राप्तेः । यदि सर्वाण्यन्यतोऽप्राप्तानि , तर्ह्यगत्या सर्वाण्युल्लिख्यन्ते इत्यर्थः ।
प्रकृते तु विनियोगादेरन्यतः प्राप्तेरुत्पत्तिमात्रपरत्वमित्याह –
तत्रेति ।
समीहितार्थाप्रतिलम्भादिति ।
समीहितशेषः समीहितार्थः । भावप्रधानो निर्देशः । हितसाधनत्वं तदप्रतिलम्भादित्यर्थः ।
तदर्थान्येवेति ।
विनियोगवाक्यार्थान्येवेत्यर्थः ।
भवतु साम्नः सामवेदे उत्पत्तिर्यजुर्वेदे च विनियोगस्ततः किं जातमत आह –
तत्र येन वाक्येनेति ।
येन वाक्येन सामानि विनियुज्यन्ते तस्यैव तद्वाक्यप्रकाशितत्वकृतस्य उपांशुस्वरस्य ग्रहणं युक्तम् । तस्य साधनत्वसंस्पर्शात् , विनियोगदशायां हि साम्नां साधनत्वं ज्ञायते नोत्पत्तिदशायां , साधनत्वं च प्रधानम् । उत्पत्तिवाक्यप्रकाशितत्वनिमित्तः स्वरः सामरूपमात्रसंस्पर्शी , उत्पत्तिवाक्यस्य रूपमात्रप्रकाशकत्वादित्यर्थः ॥३३॥