अन्तरा भूतग्रामवत्स्वात्मनः ।
कौषीतकेयकहोलचाक्रायणोषस्तप्रश्नोपक्रमयोर्विद्योर्नैरन्तर्येणाम्नातयोः किमस्ति भेदो न वेति विशये भेद एवेति भ्रूमः । कुतः यद्यप्युभयत्र प्रश्नोत्तरयोरभेदः प्रतीयते, तथापि तत्स्यैवैकस्य पुनः श्रुतेरविशेषादानर्थक्यप्रसङ्गाद्यजत्यभ्यासवद्भेदः प्राप्तः । न चैकस्यैव ताण्डिनां नवकृत्व उपदेशेऽपि यथा भेदो न भवति “स आत्मा तत्त्वमसि श्वेतकेतो”(छा. उ. ६ । १४ । ३) इत्यत्र तथेहाप्यभेद इति युक्तम् । भूय एव मा भगवान् विज्ञापयतु, इति हि तत्र श्रूयते तेनाभेदो युज्यते । न चेह तथास्ति । तेन यद्यपीह वेद्याभेदोऽवगम्यते तथाप्येकत्र तस्यैवाशनायादिमात्रात्ययोपाधेरुपासनादेकत्र च कार्यकरणविरहोपाधेरुपासनाद्विद्याभेद एवेति प्राप्ते प्रत्युच्यते । नैतदुपासनाविधानपरमपि तु वस्तुस्वरूपप्रतिपादनपरं प्रश्नप्रतिवचनालोचनेनोपलभ्यते । किमतो यद्येवम् । एतदतो भवतिविधेरप्राप्तप्रापणार्थत्वात्प्राप्तावनुपपत्तिः । वस्तुस्वरूपं तु पुनःपुनरुच्यमानमपि न दोषमावहति शतकृत्वोऽपि हि पथ्यं वदन्त्याप्ताः । विशेषतस्तु वेदः पितृभ्यामप्यभ्यर्हितः । नच सर्वथा पौनरुक्त्यम् । एकत्राशनायाद्यत्ययादन्यत्र च कार्यकारणप्रविलयात् । तस्मादेका विद्या प्रत्यभिज्ञानात् । उभाभ्यामपि विद्याभ्यां भिन्न आत्मा प्रतिपाद्यते इति यो मन्यते पूर्वपक्षैकदेशी तं प्रति सर्वान्तरत्वविरोधो दर्शितः ॥ ३५ ॥
अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवदिति।
अस्य तु पूर्वपक्षतत्त्वाभिप्रायो दर्शितः । सुगममन्यत् ॥ ३६ ॥
अन्तरा भूतग्रामवत्स्वात्मनः ॥३५॥ बृहदारण्यके पञ्चमेऽध्याये ‘‘अथ हैनं याज्ञवल्क्यमुषस्तश्चाक्रायणः पप्रच्छ यत् साक्षादपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वे’’त्युपक्रममेकं ब्राह्मणम् । ‘‘अथ हैनं कहोलः कौषीतकेयः पप्रच्छ यदेव साक्षीदि’’त्याद्यपरम् । उषस्त इति नामतः । चक्रस्यापत्यं चाक्रः । चाक्रस्यापत्यं चक्रस्य युवा चाक्रायणः । कहोल इत्यपि नामतः । कुषीतकस्यापत्यं कौषीतकः । तस्यापत्यं कुषीतकस्य युवा कौषीतकेयः । घटादीनां हि वृत्तिकर्मत्वेनापरोत्वम् , ब्रह्म तु साक्षात्स्वत एवापरोक्षादपरोक्षमित्यर्थः ।
तदेव ब्रह्म प्रत्यगात्मेत्याह –
य आत्मेति ।
स च सर्वान्तरः ; ब्रह्मणि सिद्धस्य सर्वान्तरत्वस्यात्मनि निर्देशादात्मनि स्थितस्य चापरोक्षत्वस्य ब्रह्मणि संकीर्तनादुभयोरेकत्वं सुदृढीकृतम् ।
अत्राभ्यासात्सर्वान्तरत्वप्रत्यभिज्ञानाच्च संशयमाह –
किमस्ति भेद इति ।
पूर्वत्र पिबन्तावित्यस्य लाक्षणिकत्वमुपादाय मन्त्रद्वयेऽपि भोक्त्रभोक्तृपरत्वेनार्थैक्याद्विद्यैक्यमुक्तम् , इह त्वर्थैक्येऽपि न विद्यैक्यमभ्यासादिति पूर्वपक्षमाह –
भेद एवेति ।
न चेह तथास्तीति ।
यदेव साक्षादित्येवकारो यत्साक्षादपरोक्षादेव न कदाचिदपि परोक्षमित्येवं योज्यत इति मन्यते , सिद्धान्ते तु व्यवहितान्वयप्रसङ्गान्नेयं साध्वी योजनेति प्रक्रान्तस्यैवानुवृत्त्यर्थ एवकार इत्युक्तं भाष्ये ।
नन्वपरोक्षत्वादिरूपविद्यैक्यप्रत्यभिज्ञाने कथं विद्याभेदस्तत्राह –
तेनेति ।
उषस्तिब्राह्मणे कार्यकारणविरहः प्रतिपाद्यः ; प्राणेन प्राणितीत्यादिनिर्देशात् । कहोलब्राह्मणेऽशनायादिविरहः । अयं चाभ्याससिद्धोपासनभेदनिर्वाहक उपाधिः समिदादीनामिव देवतादिः ।
प्रश्नप्रतिवचनालोचनेनेति ।
तन्मे व्याचक्ष्वेति हि प्रवृत्तिरुपलभ्यते । प्रतिवचनस्य च न दृष्टेर्द्रष्टारं पश्येरित्यविषयवस्तुप्रतिपादनपरत्वं दृश्यते न तूषस्तिपरत्वमिति ।
ननु सिद्धवस्तुप्रतिपादनपरत्वेऽप्यभ्यासवैयर्थ्यस्य का गतिरिति परिचोद्यं परिहरति –
किमत इत्यादिना ।
समिधो यजति इत्यादौ विधेः प्रवृत्त्युत्पादकत्वात् ज्ञाते च स्वत एव प्रवृत्तेर्विधिवैयर्थ्यादज्ञातं वस्तु ज्ञाप्यम् , सिद्धवस्तुज्ञापनं तु प्राप्तेप्यर्थे श्रोतुरादरार्थं पुनः पुनः कृतमपि प्रमित्यतिशयफलत्वाददुष्टमित्यर्थः । पितृभ्यां मातापितृभ्याम् । ननु यद्यस्मिन्नधिकरणेऽभ्यासाद्विद्याभेद इति पूर्वः पक्षः । तर्ह्यन्तराम्नानाविशेषादिति सिद्धान्ते हेतुर्न वक्तव्यः ।
अर्थैक्यस्याभ्याससाधकत्वेन पूर्वपक्षानुगुण्यादत आह –
उभाभ्यामपीति ।
प्रथमं सूत्रं पूर्वपक्षैकदेशिमतनिरासार्थं , साक्षात्पूर्वपक्षसिद्धान्तौ तून्नीतौ भाष्यटीकाभ्यामवगन्तव्यावित्यर्थः । तथा च पूर्वपक्षभाष्यमभ्याससामर्थ्यादित्यादि वस्तुस्वरूपं त्वित्यादिका च सिद्धान्तटीका । तत्र वस्तुस्वरूपं त्वित्यादिनाऽभ्यासहेतोरन्यथासिद्धिरुक्ता । न च सर्वथा पौनरुक्त्यमित्यादिनाभ्यास एवासिद्धोऽर्थभेदादित्युक्तम् ॥३५॥
नन्वेकविधेऽपि तत्त्वमसीतिवत्पुनःश्रुत्युपपत्तेर्न द्वितीयसूत्रगतशङ्काभागस्योत्थानमित्याशङ्क्याह –
अस्य त्विति ।
भूय एव मा भगवान्विज्ञापयत्विति वाक्यात् , तत्र विद्यैक्यं नात्र तदिति पूर्वपक्षाभिप्रायो दर्शित इत्यर्थः । यदेव साक्षादित्येवकारादत्रापि वद्यैक्यमिति भगवता भाष्यकारेण प्रतिपादितं , तत् स्फुटमिति न व्याख्यायत इत्याह – सुगममन्यदिति ॥३६॥