सैव हि सत्यादयः ।
तद्वै तदेतदेव तदास सत्यमेव स यो हैतन्महद्यक्षं प्रथमजं वेदं सत्यं ब्रह्मेति जयतीमांल्लोकाञ्जित इत्यसावसद्य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म । पूर्वोक्तस्य हृदयाख्यस्य ब्रह्मणः सत्यमित्युपासनमनेन सन्दर्भेण विधीयते । तदिति हृदयाख्यं ब्रह्मैकेन तदा परामृशति । एतदेवेति वक्ष्यमाणं प्रकारान्तरमस्य परामृशति । तत्तादाग्रे आस बभूव । किं तदित्यत आहसत्यमेव । सच्च मूर्तं त्यच्चामूर्तं च सत्त्यम् । तदुपासकस्य फलमाहस यो हैतमिति । यः प्रथमजं यक्षं पूज्यं वेद । कथं वेदेत्यत आह - सत्यं ब्रह्मेतीति । स जयतीमान् लोकान् । किञ्च जितो वशीकृत इनुशब्द इत्थंशब्दस्यार्थे वर्तते । विजेतव्यत्वेन बुद्धिसंनिहितं शत्रुं परामृशति असाविति । असद्भवेन्नश्येत् । उक्तमर्थं निगमयतिय एवमेतदिति । एवं विद्वान्कस्माज्जयतीत्यत आहसत्यमेव यस्माद्ब्रह्मेति । अतस्तदुपासनात्फलोत्पादोऽपि सत्य इत्यर्थः । तद्यत्तत्सत्यं किमसौ । अत्रापि तत्पदाभ्यां रूपप्रकारौ परामृष्टौ । कस्मिंन्नालम्बने तदुपासनीयमित्यत उत्तरम् - स आदित्यो य एष इत्यादिना तस्योपनिषदहरहमिति । हन्ति पाप्मानं जहाति च य एवं वेदेत्यन्तेन । उपनिषत्रहस्यं नाम । तस्य निर्वचनं - हन्ति पाप्मानं जहाति चेति । हन्तेर्जहातेर्वा रूपमेतत् । तथाच निर्वचनं कुर्वन्फलं पापहानिमाहेति ।
तमिमं विषयमाह भाष्यकारः –
यो वै हैतमिति ।
सनामाक्षरोपासनामिति ।
तथाच श्रुतिः “तदेतदक्षरं सत्यमिति स इत्येकमक्षरं तीत्येकमक्षरं यमित्येकमक्षरं प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं तदेतदनृमुभयतः सत्येन परिगृहीतं सत्यभूयमेव भवति नैवंविद्वांसमनृतं हिनस्ति”(बृ. उ. ५ । ५ । १) इति । तीतीकारानुबन्ध उच्चारणार्थः । निरनुबन्धस्तकारो द्रष्टव्यः । अत्र हि प्रथमोत्तमे अक्षरे सत्यं मृत्युरूपाभावात् । मध्यतो मध्येऽनृतमनृतं हि मृत्युः । मृत्य्वनृतयोस्तकारसाम्यात् । तदेतदनृतं मृत्युरूपमुभयतः सत्येन परिगृहीतम् । अन्तर्भावितं सत्यरूपाभ्याम् । अतोऽकिञ्चित्करं तत्सत्यभूयमेव सत्यबाहुल्यमेव भवति । शेषमतिरोहितार्थम् । सेयं सत्यविद्यायाः सनामाक्षरोपासनता । यद्यपि तद्यत्सत्यमिति प्रकृतानुकर्षेणाभेदः प्रतीयते तथापि फलभेदेन भेदः साध्यभेदेनेव नित्यकाम्यविषयोर्दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत यावज्जीवं दर्शपूर्णमासाभ्यां यजेतेति शास्त्रयोः सत्यप्यनुबन्धाभेदे भेद इति प्राप्ते प्रत्युच्यते - एकैवेयं विद्या तत्सत्यमिति प्रकृतपरामर्शादभेदेन प्रत्यभिज्ञानात् । नच फलभेदः । तस्योपनिषदहरहमिति तस्यैव यदङ्गान्तरं रहस्यनाम्नोपासनं तत्प्रशंसार्थोऽर्थवादोऽयं न फलविधिः । यदि पुनर्विद्याविधावधिकारश्रवणाभावात्तत्कल्पनायामार्थवादिकं फलं कल्प्येत ततो जातेष्टाविवागृह्यमाणविशेषतया संवलिताधिकारकल्पना ततश्च समस्तार्थवादिकफलयुक्तमेकमेवोपासनमिति सिद्धम् ।
परकीयं व्याख्यानमुपन्यस्यति –
केचित्पुनरिति ।
वाजसनेयकमप्यक्ष्यादित्यविषयं छान्दोग्यमपीत्युपास्याभेदादभेदः । ततश्च वाजसनेयोक्तानां सत्यादीनामुपसंहार इत्यत्रार्थे सैव हि सत्यादय इति सूत्रं व्याख्यातं तदेतद्दूषयति –
तन्न साध्विति ।
ज्योतिष्टोमकर्मसम्बन्धनीयमुद्गीथव्यपाश्रयेति ।
अनुबन्धाभेदेऽपि साध्यभेदाद्भेद इति विद्याभेदादनुपसंहार इति ॥ ३८ ॥
सैव हि सत्यादयः ॥३८॥ पूर्वत्र जीवब्रह्मणोरितरेतरात्मत्वनिर्देशभेदाद् द्विरूपा मतिः कर्तव्येत्युक्तम् , एवमिहापि ‘‘जयतीमान् लोकान् हन्ति पाप्मानमि’’ति च फलनिर्देशभेदाद्विद्याभेद इति प्रत्यवस्थानात्सङ्गतिः ।
सत्यविद्यां सनामाक्षरोपासनां विधायेत्याद्यर्थतो विषयप्रदर्शकं भाष्यं श्रुत्युदाहरणेन व्याचष्टे –
तद्वैतदित्यादिना ।
पूर्वोक्तस्येति ।
वाजसनेयक एव ‘‘एष प्रजापतिर्यद्धृदयमेतद् ब्रह्मे’’ त्यादिना पूर्ववाक्येनोक्तस्येत्यर्थः । हृदयाख्यं ब्रह्मैकेन तदा तच्छब्देन परामृशति । वैकारस्योपरितनेन द्वितीयेन तच्छब्देन यत्तस्य ब्रह्मणस्तदेतदक्षरं हृदयमित्यादिना हृदयनामाक्षरोपासनादिः प्रकार उक्तस्तमपि परामृशतीति द्रष्टव्यम् ।
तदेतद्व्याचष्टे –
अग्र इति ।
प्रथमजं भौतिकानां मध्ये प्रथमजातम् । यथा प्रजापतिर्लोकानजयद् एवमुपासकोऽपीति इत्थंशब्दार्थः ।
तद्यत्पदाभ्यामिति ।
एकस्य तच्छब्दस्य यच्छब्देन सह सङ्गतिरुक्ता , द्वितीयस्तच्छब्दस्तत्रशब्दसमानार्थः । तत्रैवं हृदयात्मत्वे ब्रह्मणः सिद्ध इत्यर्थः । अनुबन्धाभेदेऽपि धात्वर्थाभेदेऽपि स्वर्गकामो यजेत यावज्जीवं यजेतेति शास्त्रयोर्नित्यकाम्यविषययोः साध्यभेदेन यथा भेदः, एवमुपास्यैकत्वेऽपि सत्यविद्ययोः फलभेदेन भेद इत्यर्थः ।
उपास्यैक्याद्विद्यैक्यमौत्सर्गिकं तावदाह –
एकैवेति ।
फलभेदमपवादकमाशङ्क्याह –
न च फलभेद इति ।
किं ‘‘जयतीमान् लोकानि’’त्यनेन प्रधानोपासनविध्युद्देशे फलवति संजाते “हन्ति पाप्मानमि’’ति गुणभूताहरहंनामोपनिबद्धस्य फलनिर्देशस्य विद्याभेदकत्वमुच्यते , उत प्रधानतदङ्गानामर्थवादात् रात्रिसत्रन्यायेन फलकल्पनामाश्रित्य प्रथमं प्रत्याह –
तस्येति ।
अङ्गानां प्रधानान्वयद्वारेण फलसंबन्धसिद्धेरर्थवादगतानि गुणफलानि प्रयाजादिफलवदुपेक्ष्यन्त इत्यर्थः ।
द्वितीयेऽपि फलभेदस्य न विद्याभेदकत्वमित्याह –
यदि पुनरिति ।
एवं कामपदाभावेन पुरुषस्य कर्मण्यैश्वर्यरूपाधिकाराश्रवणादित्यर्थः । अमुकं फलं प्रधानस्येत्यगृह्यमाणविशेषत्वाद्वाक्यशेषगतसर्वफलकामस्याधिकारकल्पनेत्यर्थः । संवलितो मिलितः । एतदुक्तं भवति – विहितानां फलाकाङ्क्षाविशेषादर्थवादात्फलकल्पनाविशेषाच्च यत्किंचिदर्थवादगतं सत् फलं सर्वमेकीकृत्य गुणविशिष्टगुणिनः फलत्वेन कल्पनीयमिति ।
‘‘वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाती’’ति जातेष्टौ पुत्रजन्मनिमित्तपुत्रपूतत्वादिसंवलितोऽधिकारो दृष्टान्तितः । अधिकरणं त्वत्रत्यं द्वितीयसूत्रेऽनुक्रान्तम् ।
उपास्याभेदादिति ।
अक्ष्यादित्यगतत्वमुपास्यपुरुषस्यभेदः ।
अनुबन्धाभेदेऽपीति ।
अक्ष्यादित्यपुरुषविषयोपासनरूपविध्यवच्छेदकानुबन्धाभेदेऽपीत्यर्थः ।
साध्यभेदादिति ।
कर्मसमृद्धिलोकजयादिफलभेदादित्यर्थः । अनेनैकदेशिमते पूर्वपक्ष एव दूषणत्वेन योजिता इति ॥३८॥