भामतीव्याख्या
वेदान्तकल्पतरुः
 

तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम् ।

यथैव “यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति” इत्येतदनारभ्याधीतमव्यभिचारितक्रतुसम्बन्धं जुहूद्वारा क्रतुप्रयोगवचनगृहीतं क्रत्वर्थं सत्फलानपेक्षं सिद्धवर्तमानाप्रदेशप्रतीतं न रात्रिसत्रवत्फलतया स्वीकरोतीति । एवमव्यभिचारितकर्मसम्बन्धोद्गीथगतमुपासनं कर्मप्रयोगवचनगृहीतं न सिद्धवर्तमानापदेशावगतसमस्तकामवापकत्वलक्षणफलकल्पनायालम् । परार्थत्वात् । तथाच पारमर्षं सूत्रम् “द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्”(जै.सू. ४-३-१) इति । एवंच सति क्रतौ पर्णतानियमवदुपासनानियम इति प्राप्ते उच्यते - युक्तं पर्णतायां फलश्रुतेरर्थवादमात्रत्वम् । नहि पर्णतानाश्रया यागादिवत्फलसम्बन्धमनुभवितुमर्हति । अव्यापाररूपत्वात् । व्यापारस्यैव च फलवत्त्वात् । यथाहुः “उत्पत्तिमतःफलदर्शनात्” इति । नापि खादिरतायामिव प्रकृतक्रतुसम्बद्धो यूप आश्रयस्तदाश्रयः प्रकृतोऽस्ति अनारभ्याधीतत्वात्पर्णतायाः । तस्माद्वाक्येनैव जुहूसम्बन्धद्वारेण पर्णतायाः क्रतुराश्रयो ज्ञापनीयः । न चातत्परं वाक्यं ज्ञापयितुमर्हतीति तत्र वाक्यतात्पर्यमवश्याश्रयणीयम् । तथाच तत्परं सन्न पर्णतायाः फलसम्बन्धमपि गमयितुमर्हति । वाक्यभेदप्रसङ्गात् । उपासनानां तु व्यापारात्मत्वेन स्वत एव फलसम्बन्धोपपत्तेः उद्गीथाद्याश्रयणं फले विधानं न विरुध्यते विशिष्टविधानात् । फलाय खलूद्गीथसाधनकमुपासनं विधीयमानं न वाक्यभेदमावहति । ननु कर्माङ्गोद्गीथसंस्कार उपासनं प्रोक्षणादिवद्वितीयाश्रुतेरुद्गीथमिति । तथा चाञ्जनादिष्विव संस्कारेषु फलश्रुतेरर्थवादत्वम् । मैवम् । नह्यत्रोद्गीथस्योपासनं किन्तु तदवयवस्योङ्कारस्येत्युक्तमधस्तात् । न चोङ्कारः कर्माङ्गमपि तु कर्माङ्गोद्गीथावयवः । न चानुपयोगमीप्सितम् । तस्मात्सक्तून् जुहोतीतिवद्विनियोगभङ्गेनोङ्कारसाधानादुपासनात्फलमिति सम्बन्धः । तस्माद्यथा क्रत्वाश्रयाण्यपि गोदोहनादीनि फलसंयोगादनित्यानि एवमुद्गीथाद्युपासनानीति द्रष्टव्यम् । शेषमुक्तं भाष्ये ।

न चेदं फलश्रवणमर्थवादमात्रमिति ।

अर्थवादमात्रत्वेऽत्यन्तपरोक्षा वृत्तिर्यथा न तथा फलपरत्वे । न तु वर्तमानापदेशात्साक्षात्फलप्रतीतिः । अत एव प्रयाजादिषु नार्थवादाद्वर्तमानापदेशात्फलकल्पना । फलपरत्वे त्वस्य न शक्यं प्रयाजादीनां पारार्थ्येनाफलत्वं वक्तुमिति ॥ ४२ ॥

तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम् ॥४२॥ अनित्यभोजनाश्रितप्राणाग्निहोत्रवद् नित्यकर्माङ्गाश्रितोपास्तीनां नित्यत्वमिति ।

पूर्वपक्षमाह –

यथेत्यादिना ।

कर्माङ्गाश्रितस्यापि गोदोहनवदनित्यत्वमाशङ्क्यानारभ्याधीतत्वादुपास्तीनां वाक्यात् क्रतुसंबन्ध एव सिध्यति , न फलसंबन्ध इति वक्तुं पर्णमयी , तामुदाहरति –

यस्येति ।

ननु साक्षात्फलवत्त्वसंभवे किमिति क्रतुप्रवेशात्फलकल्पना ? अत आह –

सिद्धवर्तमानेति ।

रात्रिसत्रे ह्यगत्या विपरिणामः , इह त्वस्ति कर्माङ्गत्वं गतिरित्यर्थः ।

समस्तकामावापकत्वलक्षणेति ।

‘‘आपयिता ह वै कामानां भवती’’त्येतदित्यर्थः ।

पूर्वपक्षे प्रयोजनमुपासनानां कर्माङ्गाश्रितोपास्तीनां नित्यत्वमित्याह –

एवं चेति ।

चतुर्थे स्थितम् –

द्रव्यसंस्कारेति ।

‘‘यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं श्रृणोति’’ इत्यनारभ्य किंचिद्द्रव्ये फलमधीयते । ज्योतिष्टोमप्रकरणेऽस्ति संस्कारे फलश्रुतिः -’‘ यदङ्क्ते अञ्जनं करोति चक्षुरेव भ्रातृव्यस्य वङ्क्ते’’ इति । कर्मणि च फलं श्रूयते - ‘‘यत्प्रयाजानूयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते वर्म वा यजमानस्य भ्रातृव्यभिभूत्यै’’ इति । तत्र संशयः । किमिमे फलविधय उत क्रत्वर्थेषु पर्णतादिषु फलार्थवादा इति ।

तत्र ‘‘खादिरं वीर्यकामस्य यूपं कुर्या’’दित्यादिवत्फलविधयः , क्रतूपकारद्वारेण व्यवहितफलोपादानाद्वरमव्यवहितश्रुतफलस्य साध्यत्वविपरिणाम इति फलविधित्वे प्राप्ते राद्धान्तः पर्णतोदाहरणमाश्रित्याचार्येण प्रदर्श्यते –

युक्तं पर्णतायामित्यादिना ।

तत्रैतावत्सर्वोदाहरणशेषत्वेन वक्तव्यम् ।

रात्रिसत्राणामगत्या विपरिणाम आश्रितः , इह तु क्रतूपकारस्य सिद्धत्वान्न विपरिणाम इति पर्णता किं साक्षात्फलसाधनमुत क्रियाद्रव्यमाश्रित्य ? नाद्य इत्याह –

न हीति ।

उत्पत्तिमत इति ।

साक्षादुत्पत्तिमत इति , साक्षादुत्पत्तिः क्रियाया इति क्रियात इत्यर्थः ।

यत्तु - पूर्वपक्षे उक्तं खादिरतावत् पर्णतायाः फले विधिरिति , तन्निरस्यन् द्वितीयं प्रत्याह –

नापीति ।

खादिरतायां यथा प्रकृतक्रतुसंबन्धवान् यूप आश्रयः , एवं तदाश्रयस्तस्याः पर्णतायाः प्रकृते नास्ति ; तस्या अनारभ्याधीतत्वादित्यर्थः । खादिरतायाः प्रत्यक्षविधिश्रवणात् साक्षत्कर्मपदयुक्तफलश्रवणाच्च युक्तः फले विधिरित्यपि द्रष्टव्यम् ।

क्रत्वङ्गविशिष्टोपास्तिक्रियाणां फलसाधनत्वेन प्रधानकर्मत्वमुक्तम् , तदाक्षिपति –

नन्विति ।

ॐकारस्येत्युक्तमिति ।

व्याप्तेश्चासमञ्जस (ब्र.अ.३ पा.३ सू.९) मित्यत्रेत्यर्थः ।

न चानुपयोगमीप्सितमिति ।

अन्यार्थे विनियुक्तं द्रव्यं फलवत्त्वादीप्सितम् , ईप्सितं च संस्कार्यं , नत्वोङ्कारोऽनुपयुक्तत्वादित्यर्थः । या तु कर्माङ्गेष्वपि द्वितीया ‘‘लोकेषु पञ्चविधं सामोपासीते’’त्याद्या , सा सप्तम्यर्थेत्यादित्यादिमतय (ब्र.अ.४ पा.१ सू.६) इत्यत्र वक्ष्यते ।

अत्र भाष्यं - न चेदं फलश्रवणमर्थवादमात्रं युक्तं प्रतिपत्तुम् ; तथा हि गुणवाद आपद्येत फलोपदेशे तु मुख्यवादोपपत्तिरिति , तदनुपपन्नमिव ; वर्तमानापदेशत्वेनोपासनफलेषु साध्यत्वविपरिणामात्मकलक्षणाश्रयणादत आह –

अर्थवादमात्रत्व इति ।

वर्तमानापदेशाद्विपरिणाममन्तरेण फलसिद्धौ विरोधमाह –

अत एवेति ।

प्रयाजादीनामफलत्वं यत्प्रथमे काण्डे पारार्थ्येनोक्तं , तदिहापि स्वीकृतं तद्वर्तमानापदेशस्य फलपरत्वे सति न शक्यं निर्वोढुमित्यर्थः ॥ तेनोङ्कारेणोभावपि कर्म कुरुतः , यश्चैतदक्षरमेवमाप्त्यादिगुणकं वेद यश्च न वेद ।

दृष्टं हि हरीतकीं भक्षयतोस्तद्रसज्ञेतरयोर्विरेचकं फलमिति पूर्वपक्षयित्वा सिद्धान्तमाह –

नाना त्विति ।

कर्माङ्गोंकारमात्रज्ञानादाप्त्यादिमदोङ्कारविज्ञानं नानैव भिन्नम् । ततोऽङ्गाधिक्यात् फलाधिक्यं युक्तम् । दृष्टो हि मणिविक्रये वणिक्छबरयोर्ज्ञानाऽज्ञानकृतः फलभेदः । तस्माद्यदेव कर्म विद्ययोद्नीथादिविषयया श्रद्धयाऽऽस्तिक्यबुध्द्या उपनिषदा तत्तद्देवताध्यानेन करोति तदेव कर्म वीर्यवत्तरं भवति ॥४२॥

इति सप्तविंशं तन्निर्धारणाधिकरणम् ॥