भामतीव्याख्या
वेदान्तकल्पतरुः
 

प्रदानवदेव तदुक्तम् ।

तत्तच्छ्रुत्यर्थालोचनया वायुप्राणयोः स्वरूपाभेदे सिद्धे तदधीननिरूपणतया तद्विषयोपासनाप्यभिन्ना न चाध्यात्माधिदैवगुणभेदाद्भेदः । नहि गुणभेदे गुणवतो भेदः । नह्यग्निहोत्रं जुहोतीत्युत्पन्नस्याग्निहोत्रस्य तण्डुलादिगुणभेदाद्भेदो भवति । उत्पद्यमानकर्मसंयुक्तो हि गुणभेदः कर्मणो भेदकः । यथामिक्षावाजिनसंयुक्तयोः कर्मणोः । नोत्पन्नकर्मसंयुक्तः । अध्यात्माधिदैवोपदेशेषु चोत्पन्नोपासनासंयोगः । तथोपक्रमोपसंहारालोचनया विद्यैकत्वविनिश्चयादेकैव सकृत्प्रवृत्तिरिति पूर्वपक्षः । राद्धान्तस्तु सत्यं विद्यैकत्वं तथापि गुणभेदात्प्रवृत्तिभेदः । सायम्प्रातःकालगुणभेदाद्यथैकस्मिन्नप्यग्निहोत्रे प्रवृत्तिभेदः एवमिहाप्यध्यात्माधिदैवगुणभेदादुपासनस्यैकस्यापि प्रवृत्तिभेद इति सिद्धम् ।

आध्यानार्थो ह्ययमध्यात्माधिदैवविभागोपदेश इति ।

अग्निहोत्रस्येवाध्यानस्य कृते दधितण्डुलादिवदयं पृथगुपदेशः ।

एतेन व्रतोपदेश इति ।

एतेन तत्त्वाभेदेन । एवकारश्च वागादिव्रतनिराकरणार्थः ।

नन्वेतस्यै देवतायै इति देवतामात्रं श्रूयते न तु वायुस्तत्कथं वायुप्राप्तिमाहेत्यत आह –

देवतेत्यत्र वायुरिति ।

वायुः खल्वग्न्यादीन्संवृणुत इत्यग्न्यादीनपेक्ष्यानवच्छिन्नोऽग्न्यादयस्तुतेनैवावच्छिन्ना इति संवर्णगुणतया वायुरनवच्छिन्ना देवता ।

सर्वेषामभिगमयन्निति ।

मिलितानां श्रवणाविशेषादिन्द्रस्य देवताया अभेदात्रयाणामपि पुरोडाशानां सहप्रदानाशङ्कायामुत्पत्तिवाक्य एव राजाधिराजस्वराजगुणभेदाद्याज्यानुवाक्याव्यत्यासविधानाच्च यथान्यासमेव देवतापृथक्त्वात्प्रदानपृथक्त्वं भवति । सहप्रदाने हि व्यत्यासविधानमनुपपन्नम् । क्रमवति प्रदाने व्यत्यासविधिरर्थवान् । तथाविधस्यैव क्रमस्य विवक्षितत्वात् । सुगममन्यत् ॥ ४३ ॥

प्रदानवदेव तदुक्तम् ॥४३॥

पूर्वत्र फलभेदात् कर्माङ्गानां तद्वद्धोपासनानां च नित्यानित्यत्वरूपः प्रयोगभेद उक्तः , इह तु वायुप्राणयोस्तत्त्वाभेदात्तत्प्राप्तिलक्षणफलैक्याच्चोपासनप्रयोगैक्यमित्यभिप्रेत्य पूर्वपक्षमाह –

तदिति ।

उत्पन्नेति ।

उत्पन्नया उपासनया गुणानां संयोग इत्यर्थः ।संवर्गविद्यायां हि ‘‘अन्नवानन्नादो भवति य एवं वेद’’ इति विधेः पृथगुत्पत्तिरस्ति । वाजसनेयकेऽप्यस्ति एकमेव व्रतं चरेदिति । तथोपक्रमोपसंहारेति । ‘‘अथेममेव नाप्नोद् मृत्युर्योऽयं मध्यमः प्राणः’’ इत्युपक्रम्य प्राणद्वारा एष सूर्य उदेतीत्युपसंहार इति ॥ यदुक्तमध्यात्मादिविभागस्योत्पन्नशिष्टत्वान्न विद्याभेदकत्वमिति ।

सत्यं न विद्याभेदं ब्रूमः , किंत्वेकस्यामेव विद्यायां ध्येयभेदात् प्रयोगभेदं , यथाऽग्निहोत्राभेदे उत्पन्नशिष्टैर्दध्यादिभिः क्रियमाणाः प्रयोगा भिद्यन्त एवमिहेत्याह –

अग्निहोत्रस्येवेति ।

अग्निहोत्रस्य दधितण्डुलादिवदाध्यानस्य कृते आध्यानार्थमयं पृथगुपदेश इति योजना । इवकारो धर्मिण उपमार्थो वत्कारो धर्मस्य । वायोर्यद्यपि परिच्छिन्नत्वम् ; तथाप्यग्न्यादीनपेक्ष्यापरिच्छिन्नत्वमस्ति , कारणत्वेन ततोऽपि बहुकालव्यापित्वात् ।

अतो भाष्योक्तं वाय्वानन्त्यमुपपन्नमित्याह –

वायुः खल्विति ।

संवृणुते संहरति ।

देवताकाण्डाधिकरणस्य प्रधानभेदविषयस्य पूर्वपक्षं सिद्धान्तं चाह –

मिलितानामित्यादिना ।

त्रिपुरोडाशेष्टौ हि प्रथमपुरोडाशप्रदाने या याज्या सा पुनःप्रयोगेऽनु वाक्या , या च पूर्वमनुवाक्या सा पश्चाद्याज्या भवति ।

व्यत्यासमन्वाहेत्यनेनाभिहितं तत्प्रयोगभेदे घटते ; एकस्या ऋच एकस्मिन्प्रयोगे याज्यानुवाक्यात्वविरोधादित्याह –

याज्यानुवाक्याव्यत्यासेति ।

अध्वर्युणा यजेति प्रैषे कृते प्रयुज्यमाना ऋग्याज्या , अनुब्रूहीति प्रैषान्तरं प्रयुज्यमानाऽनुवाक्या । याज्ञिका हि अस्यामिष्टौ युगपदवदानं कुर्वन्ति , तद्विधीयते सर्वेषामभिगमयन्नवद्यतीति ।

तत्र हेतुः –

अछम्बट्कारमिति ।

अव्यर्थत्वायेत्यर्थः । एकार्थे ह्यवत्ते शेषो यागानर्हः स्यात् , युगपत् सर्वार्थमवदाने त्वव्यर्थत्वं स्यादिति ।

तथाविधस्यैवेति ।

व्यत्यस्तयाज्यानुवाक्याकस्य प्रयोगभेदमन्तरेणानुपपद्यमानस्य विवक्षितत्वादित्यर्थः ।

प्राण्यादिति ।

प्राणने प्राप्ते प्राण्यादपानने प्राप्तेऽपान्यात्प्राणापानादिनिरोधनं न कुर्यादित्यर्थः । महात्मनोऽग्न्यादीन् महात्मन इति द्वितीयाबहुवचनम् । चतुरः चतुःसंख्यानग्निसूर्यदिक्चन्द्रान् अन्यांश्च वाक्चक्षुःश्रोत्रमनोलक्षणार्थान् । कः प्रजापतिः प्राणात्मकः । स जगार जीर्णवान् । तेन व्रतेन । उ इत्ययं निपातोऽप्यर्थः । स च सायुज्यं सलोकतामपीत्युपरि संबद्ध्यते । एतस्यै एतस्या देवतायाः सायुज्यं समानदेहतां सालोक्यं समानलोकतां च जयति प्राप्नोतीत्यर्थः । सायुज्यमुत्कृष्टोपास्तेः फलं सालोक्यं मन्दोपासनायाः ॥४३॥

इत्यष्टाविंशं प्रदानाधिकरणम् ॥