भामतीव्याख्या
वेदान्तकल्पतरुः
 

लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ।

इह सिद्धान्तेनोपक्रम्य पूर्वपक्षयित्वा सिद्धान्तयति । तत्र यद्यपि भूयांसि सन्ति लिङ्गानि मनश्चिदादीनां स्वातन्त्र्यसूचकानि तथापि न तानि स्वातन्त्र्येण स्वातन्त्र्यं प्रति प्रापकाणि । प्रमाणप्रापितं तु स्वातन्त्र्यमुपोद्बलयन्ति । न चात्रास्ति स्वातन्त्र्यप्रापकं प्रमाणम् । न चेदं सामर्थ्यलक्षणं लिङ्गं येनास्य स्वातन्त्र्येण प्रापकं भवेत् । तद्धि सामर्थ्यमाभिधानस्य वार्थस्य वा स्यात् । तथा पूषाद्यनुमन्त्रणमन्त्रस्य पूषानुमन्त्रणे, यथा वा ‘पशुना यजेत’ इत्येकत्वसङ्ख्याया अर्थस्य सङ्ख्येयावच्छेतसामर्थ्यम् । न चेदमन्यस्यार्थदर्शनलक्षणं लिङ्गं तथा । स्तुत्यर्थत्वेनास्य विध्युद्देशेनैकवाक्यतया विधिपरत्वात् । तस्मादसति सामर्थ्यलक्षणे विरोद्धरि प्रकरणप्रत्यूहं मनश्चिदादीनां क्रियाशेषतामवगमयति । नच ते हैते विद्याचित एवेत्यवधारणश्रुतिः क्रियानुप्रवेशं वारयति । येन श्रुतिविरोधे सति न प्रकरणं भवेत् , बाह्यसाधनतापाकरणार्थत्वादवधारणस्य । नच विद्यया हैवैत एवंविदश्चिता भवन्तीति पुरुषसम्बन्धमापादयद्वाक्यं प्रकरणमपबाधितुमर्हति । अन्यार्थदर्शनं खल्वेतदपि । नच तत्स्वातन्त्र्येण प्रापकमित्युक्तम् । तस्मात्तदपि न प्रकरणविरोधायालमिति साम्पादिका अप्येते अग्नयः प्रकरणात्क्रियानुप्रवेशिन एव मानसवत् । द्वादशाहे तु श्रूयते “अनया त्वा पात्रेण समुद्रं रसया प्राजापत्यं मनोग्रहं गृह्णामि” इति । तत्र संशयः किं मानसं द्वादशाहा दहरन्तरमुत तन्मध्यपातिनो दशमस्याह्नाङ्गमिति । तत्र वाग्वै द्वादशाहो मनो मानसमिति मानसस्य द्वादशाहाद्भेदेन व्यपदेशाद्वाङ्मनसभेदवद्भेदः । निर्धूतानि द्वादशाहस्य गतरसानि छन्दांसि तानि मानसेनैवाप्यायन्तीति च द्वादशाहस्य मानसेन स्तूयमानत्वाद्भेदे च सति स्तुतिस्तुत्यभावस्योपपत्तेर्द्वादशाहादहरन्तरं न तदङ्गं, पत्नीसंयाजान्तत्वाच्चाह्नां पत्नीः संयाज्य मानसाय प्रसर्पन्तीति च मानसस्य पत्नीसंयाजस्य परस्ताच्छ्रुतेः । त्रयोदशाहेऽप्यवयुज्य द्वादशसङ्ख्यासमवायात्कथञ्चिज्जघन्ययापि वृत्त्या द्वादशाहसंज्ञाविरोधाभावादिति प्राप्तेऽभिधीयते प्रमाणान्तरेण हि त्रयोदशत्वेऽह्नां सिद्धे द्वादशाह इति जघन्यया वृत्त्योन्नीयेत । न त्वस्ति तादृशं प्रमाणान्तरम् । नच व्यपदेशभेदोऽहरन्तरत्वं कल्पयितुमर्हति । अङ्गाङ्गिभेदेनापि तदुपपत्तेः । अत एव च स्तुत्यस्तावकभावस्याप्युपपत्तिः देवदत्तस्येव दीर्घैः केशैः । पत्नीसंयाजान्तता तु यद्यप्यौत्सर्गिकी तथापि दशमस्याह्नो विशेषवचनान्मानसानि ग्रहणासादनहवनादीनि पत्नीसंयाजात्पराञ्चि भविष्यन्ति । किमिव हि न कुर्याद्वचनमिति । एष वै दशमस्याह्नो विसर्गो यन्मानसमिति वचनाद्दशमाहरङ्गता गम्यते । विसर्गोऽन्तोऽन्तवतो धर्मो न स्वतन्त्र इति दशमेऽहनि मानसाय प्रसर्पन्तीति दशमस्याह्न आधारत्वनिर्देशाच्च तदङ्गं मानसं नाहरन्तरमिति सिद्धम् । तदिह द्वादशाहसम्बन्धिनो दशमस्याह्नोऽङ्गं मानसमिति धर्ममीमांसासूत्रकृतोक्तम् । दशरात्रगस्यापि दशमस्याह्नोऽङ्गमिति भगवन्भाष्यकारः ।

श्रुत्यन्तरबलेनाह –

यथा दशरात्रस्य दशमेऽहन्यविवाक्य इति ।

अविवाक्य इति दशमस्याह्नो नाम ॥ ४४ ॥

पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॥ ४५ ॥

अतिदेशाच्च ।

नहि साम्पादिकानामग्नीनामिष्टकासु चितेनाग्निना किञ्चिदस्ति सादृश्यमन्यत्र क्रियानुप्रवेशात् । तस्मादपि न स्वतन्त्र इति प्राप्तेऽभिधीयते ॥ ४६ ॥

विद्यैव तु निर्धारणात् ।

मा भूदन्येषां श्रुतविध्युद्देशानामन्यार्थदर्शनानामप्राप्तप्रापकत्वमेतेषु त्वश्रुतविध्युद्देशेषु “वचनानि त्वपूर्वत्वात्” इति न्यायाद्विधिरुन्नेतव्यः । तथा चैतेभ्यो यादृशोऽर्थः प्रतीयते तदनुरूप एव स भवति । प्रतीयते चैतेभ्यो मनश्चिदादीनां सान्तत्यं चावधारणं च फलभेदसमन्वयश्च पुरुषसम्बन्धश्च । न चास्य गोदोहनादिवत्क्रत्वर्थाश्रितत्वं येन पुरुषार्थस्य कर्मपारतन्त्र्यं भवेत् । नच विद्याचित एवेत्यवधारणं बाह्यसाधनापाकरणार्थम् । स्वभावत एव विद्याया बाह्यानुपेक्षत्वसिद्धेः । तस्मात्परिशेषान्मानसग्रहवत्क्रियानुप्रवेशशङ्कापाकरणार्थमवधारणम् । न चैवमर्थत्वे सम्भवति । द्योतकत्वमात्रेण निपातश्रुतिः पीडनीया । तस्माच्छ्रुतिलिङ्गवाक्यानि प्रकरणमपोद्य स्वातन्त्र्यं मनश्चिदादीनामवगमयन्तीति सिद्धम् । अनुबन्धातिदेशश्रुत्यादिभ्य एवमेव विज्ञेयम् । ते च भाष्य एव स्फुटाः । यदुक्तं पूर्वपक्षिणा क्रत्वङ्गत्वे पूर्वेणेष्टकाचितेन मनश्चिदादीनां विकल्प इति ।

तदुतल्यकार्यत्वेन दूषयति –

नच सत्येव क्रियासम्बन्ध इति ।

अपिच पूर्वापरयोर्भागयोर्विद्याप्राधान्यदर्शनात्तन्मध्यपातिनोऽपि तत्सामान्याद्विद्याप्रधानत्वमेव लक्ष्यते न कर्माङ्गत्वमित्याह सूत्रेण –

परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ।

स्फुटमस्य भाष्यम् । अस्ति राजसूयः “राजा स्वाराज्यकामो राजसूयेन यजेत” इति । तं प्रकृत्यामनन्ति अवेष्टिं नामेष्टिम् । आग्नेयोऽष्टाकपालो हिरण्यं दक्षिणेत्येवमादि तां प्रकृत्याधीयते । यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिं हुत्वाभिधारयेद्यदि वैश्यो वैश्वदेवं यदि राजन्य ऐन्द्रमिति । तत्र सन्दिह्यते किं ब्राह्मणादीनां प्राप्तानां निमित्तार्थेन श्रवणमुत ब्राह्मणादीनामयं यागो विधीयत इति । तत्र यदि प्रजापालनकण्टकोद्धरणादि कर्म राज्यं तस्य कर्ता राजेति राजशब्दस्यार्थस्ततो राजा राजसूयेन यजेतेति राज्यस्य कर्तू राजसूयेऽधिकारः । तस्मात्सम्भवन्त्यविशिषेण ब्राह्मणक्षत्रियवैश्या राज्यस्य कर्तार इति सिद्धं सर्वम् एवैते राजसूये प्राप्ता इति “यदि ब्राह्मणो यजेत” इत्येवमादयो निमित्तार्थाः श्रुतयः । अथ तु राज्ञः कर्म राज्यमिति राजकर्तृयोगात्तत्कर्म राज्यं ततः को राजेत्यपेक्षायामार्येषु तत्प्रसिद्धेरभावात्पिकनेमतामरसादिशब्दार्थावधारणाय म्लेच्छप्रसिद्धिरिवान्ध्राणां क्षत्रियजातौ राजशब्दप्रसिद्धिस्तदवधारणकारणमिति क्षत्रिय एव राजेति न ब्राह्मणवैश्ययोः प्राप्तिरिति राजसूयप्रकरणं भित्त्वा ब्राह्मणादिकर्तृकाणि पृथगेव कर्माणि प्राप्यन्त इति न नैमित्तिकानि । तत्र किं तावत्प्राप्तं, नैमित्तिकानीति । राज्यस्य कर्ता राजेत्यार्याणामान्ध्राणां चाविवादः । तथाहि - ब्राह्मणादिषु प्रजापालनकर्तृषु कनकदण्डातपत्रश्वेतचामरादिलाञ्छनेषु राजपदमान्ध्राश्चार्याश्चाविवादं प्रयुञ्जाना दृश्यन्ते । तेनाविप्रतिपत्तेर्विप्रतिपत्तावप्यार्यान्ध्रप्रयोगयोर्यववराहवदायर्प्रसिद्धेरान्ध्रप्रसिद्धितो बलीयसीत्वात् । बलवदार्यप्रसिद्धिविरोधे त्वतन्मूलायाः पाणिनीयप्रसिद्धेः “विरोधे त्वनपेक्षं स्यात्”( जै० सू० ११३ ॥ ३ ) इति न्यायेन बाधनात्तदनुगुणतया वा कथञ्चिन्नखनकुलादिवदन्वाख्यानामात्रपरतया नीयमानत्वाद्रज्यस्य कर्ता राजेति सिद्धे निमित्तार्थाः श्रुतयः । तथाच यदिशब्दोऽप्याञ्जसः स्यादिति प्राप्तम् । एवं प्राप्त उच्यते - “रूपतो न विशेषोऽस्ति ह्यार्यम्लेच्छप्रयोगयोः । वैदिकाद्वाक्यशेषात्तु विशेषस्तत्र दर्शितः” ॥ तदिह राजशब्दस्य कर्मयोगाद्वा कर्तरि प्रयोगः कर्तृप्रयोगाद्वा कर्मणीति विशये वैदिकवाक्यशेषवदभियुक्ततरस्यात्रभवतः पाणिनेः स्मृतेर्निर्णीयते प्रसिद्धिरान्ध्रणामनादिरादिमती चार्याणां प्रसिद्धिर्गोगाव्यादिशब्दवत् । नच सम्भावितादिमद्भावा प्रसिद्धिः पाणिनिस्मृतिमपोद्यानादिप्रसिद्धिमादिमतीं कर्तुमुत्सहते । गाव्यादिशब्दप्रसिद्धेरनादित्वेन गवादिपदप्रसिद्धेरप्यादिमत्त्वापत्तेः । तस्मात्पाणिनीयस्मृत्यनुमतान्ध्रप्रसिद्धिबलीयस्त्वेन क्षत्रियत्वजातौ राजशब्दे मुख्ये तत्कर्तर्यतज्जातौ राजशब्दो गौण इति क्षत्रियस्यैवाकाराद्राजसूये तत्प्रकरणमपोद्यावेष्टेरुत्कर्षः । अन्वयानुरोधी यदिशब्दो न त्वपूर्वविधौ सति तमन्यथयितुमर्हति । अत एवाहुः “यदि शब्दपरित्यागो रुच्यध्यहारकल्पना” इति । इयं च राजसूयादधिकारान्तरमेतयान्नाद्यकामं याजयेदिति नास्तीतिकृत्वा चिन्ता । एतस्मिंस्त्वधिकारेऽन्नाद्यकामस्य त्रैवर्णिकस्य सम्भवात्प्राप्तेर्निमित्तार्थता ब्राह्मणादिश्रवणस्य दुर्वारैवेति ॥ ४७ ॥

दर्शनाच्च ॥ ४८ ॥

श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥ ४९ ॥

अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् ॥ ५० ॥

न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॥ ५१ ॥

परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥ ५२ ॥

तत्र यद्यपीत्यादिना ; न चेत्यादिना ; यथा पूषेति ; यथा चेति ; न च ते हैत इत्यादिना ; अन्त इति ; श्रुत्यन्तरबलेनेति ; वचनानि त्विति ; न चास्येति ; न चैवमिति ; तदतुल्यकार्यत्वेनेति ; अस्तीत्यादिना ; अत्र यदीत्यादिना ; अथ त्विति ; पिकनेमेति ; नैमित्तिकानीत्यादिना ; विप्रतिपत्ताविति ; यववराहवदिति ; ‘‘समा विप्रतिपत्तिः स्यात्’’ (जै.अ.१ पा.३ सू.८) इति ; बलवदार्येति ; नखनकुलादिवदिति ; रूपत इति ; वैदिकवाक्यशेषवदिति ; अनादिरिति ; गोगाव्यादीति ; तस्मादिति ; क्षत्रियस्यैवाधिकारादिति ; अन्वयानुरोधीति ; व्यवधानेन संबन्ध इति ; हेतुहेतुमतोरिति ; इयं चेति ; तस्मात्सूक्तं कृत्वाचिन्तेति ; अत एव भाष्यं पृथगग्नीनिति ;

लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥४४॥ पूर्वत्रैकप्रयोगासंभवाद्वायुप्राणौ प्रयोगभेदेन ध्येयावित्युक्तम् , इह तु मनश्चिदादीनां कर्माङ्गत्वेनैकप्रयोगत्वमाशङ्क्यते ।

लिङ्गविरोधे दुर्बलेन प्रकरणेन पूर्वपक्षानुत्थानमाशङ्क्याह –

तत्र यद्यपीत्यादिना ।

स्वातन्त्र्येण प्रमाणान्तरानपेक्षया मनश्चिदादीनां न स्वातन्त्र्यप्रापकाणीत्यर्थः ।

ननु स्वातन्त्र्येणाप्यर्थस्य विनियोजकं लिङ्गं दृष्टम् ; यथा शब्दार्थयोः सामर्थ्यमित्याशङ्क्य प्रकृतलिङ्गस्य ततो वैषम्यमित्याह –

न चेत्यादिना ।

लिङ्गं हि द्विविधं सामर्थ्यरूपमन्यार्थदर्शनं चेति । सामर्थ्यं च द्विविधं शब्दगतमर्थगतं च ।

शब्दगतमुदाहरति –

यथा पूषेति ।

‘‘पूष्णोऽहं देवयज्यये’’ त्यादिमन्त्रः ।

अर्थगतमुदाहरति –

यथा चेति ।

तथेत्यत्र ग्रन्थच्छेदः । विरोद्धरि विरोधकर्तरि ।

श्रुतिवाक्याभ्यां प्रकरणस्य विरोधमाशङ्क्याह –

न च ते हैत इत्यादिना ।

पूर्वतन्त्रसिद्धमानसग्रहाधिकरणमुदाहरति – द्वादशाहे इत्यादिना । त्वां समुद्रमनया रसया पृथिव्या पात्रेण प्रजापतिदेवताकं मनोग्रहं ध्यानमयग्रहमापाद्य गृह्णामीत्यर्थः । निर्धूतानि । नितरां प्रक्षालितानि अत एव गतरसानि रसवत्तापादकसहकारिमत्त्वेन द्वादशाहस्य श्रूयमाणत्वादित्यर्थः । ‘‘पत्नीसंयाजान्तान्यहानि संतिष्ठन्त’’ इति वचनाद् द्वादशाहान्तर्गतानामह्नां पत्नीसयाजान्तत्वम् । अवयुज्य एकदेशं विभज्य । देवदत्तस्याङ्गिनो दीर्घैः केशैः स्तुतिः ।

ननु विसर्गशब्दस्य समाप्तिवचनत्वात्कथम् अङ्गत्वबोधकत्वमत आह –

अन्त इति ।

श्रुत्यन्तरबलेनेति ।

प्रदर्शनार्थमेतत् । एतच्छ्रुतिबलेनापि भाष्यमुपपन्नम् ; दशरात्रस्य द्वादशाहविकृतित्वात् । तत्क्रमेणाहर्धर्मेष्वतिदेशप्राप्तेषु दशरात्रगतशमाहन्यपि द्वादशाहान्तर्वर्तिदशमाहरङ्गस्य मानसस्य प्राप्तिरिति विविधानि वाक्यानि यत्र न सन्ति मानसत्वात्तदविवाक्यमिति नामार्थः ॥४४॥४५॥

वचनानि त्विति ।

एतज्ज्योतिश्चरणाभिधाना (ब्र.अ.१ पा.१ सू.२४) दित्यत्रानुक्रान्तम् ।

ननु फलार्थस्यापि क्रत्वङ्गाश्रितत्वादेकप्रयोगत्वं दृष्टमित्याशङ्क्याह –

न चास्येति ।

मनोवृत्तिष्वग्नित्वदृष्टिविधेरित्यर्थः । ‘‘षट्त्रिंशतं सहस्राण्यात्मनो वृत्तीरग्नीनपश्यद् मन’’ इति श्रुतिरिति ।

ननु निपातानां प्राप्तार्थद्योतकत्वं दृश्यते , एवमेवकारस्यापि इत्याशङ्क्याह –

न चैवमिति ।

क्रियानुप्रवेशमात्रं पूर्वपक्षिणो विवक्षितं , तच्च दूषितम् , स यदि विकल्पं ब्रूयात् , तर्हि स दूषत इत्याह –

तदतुल्यकार्यत्वेनेति ।

दृष्टश्चेति सौत्रपदसूचितं द्वितीयगतमवेष्ठ्यधिकरण (जै.अ.२ पा.३ सू.३) मनुक्रमति –

अस्तीत्यादिना ।

बार्हस्पत्यं चरुमाग्नेयैन्द्रपुरोडाशयोर्मध्ये निधायेत्यर्थः । यदि ब्राह्मणादयस्त्रयोऽप्यवेष्ठ्यामन्यतः प्राप्तास्तर्हि यदि ब्राह्मण इत्यादिप्राप्तार्थत्वान्निमित्तार्था , अप्राप्तौ तु तत्कर्तृकयागविधिरिति ।

तत्र प्राप्तिप्रकारमाह –

अत्र यदीत्यादिना ।

यदि राज्यस्य कर्ता राजा , तर्हि त्रयाणां वर्णानां राज्यकर्तृत्वाद्राजसूये च प्राप्तत्वेन तदङ्गावेष्टावपि प्राप्तेर्निमित्तार्थत्वं ब्राह्मण इत्यादेरित्यर्थः ।

अप्राप्तिप्रकारमाह –

अथ त्विति ।

पिकनेमेति ।

येषां शब्दानाम् आर्येषु न प्रसिद्धोऽर्थः पिकनेमादीनां , तेषां किं निगमादिभ्योऽर्थः कल्पनीय उत म्लेच्छप्रसिद्ध एव ग्राह्य इति संदेहे शास्त्रस्थत्वान्निगमादिप्रसिद्ध एव ग्राह्यो म्लेच्छप्रसिद्धेरार्याणामर्थप्रतिपत्तौ विप्लवप्रसङ्गादिति प्राप्ते – समुदायप्रसिद्धेरवयवप्रसिद्धितो बलवत्त्वाद् पिकादीनि पदानि यद्रूपाणि वेदे दृश्यन्ते तद्रूपाणामेव तेषां म्लेच्छैरर्थविशेषेषु प्रयुज्यमानत्वात् तदर्थसंबन्धे च पदानां बाधाभावाद् विप्लुतिशङ्कानुत्थानाद् म्लेच्छप्रसिद्ध एवार्थो ग्राह्यः । पिकः कोकिलः । नेमोऽर्धम् । तामरसं पद्ममिति प्रमाणलक्षणे स्थितम् । एवं यथा म्लेच्छप्रसिद्धिः पिकादिशब्दार्थावधारणकारणम् , एवमान्ध्राणां म्लेच्छादीनामेव क्षत्रियत्वजातौ । राजशब्दप्रसिद्धिः राजशब्दार्थावधारणकारणमित्यर्थः ।

एवं संदेहे प्रदर्श्य पूर्वपक्षमाह –

नैमित्तिकानीत्यादिना ।

राज्यकर्तृमात्रे राजशब्द आर्यैर्म्लेच्छैश्च प्रयुज्यते इत्यविवादम् । राज्यमकुर्वति तु क्षत्रियजातिमात्रे आर्याराजशब्दं न प्रयुञ्जते , म्लेच्छास्तु प्रयुञ्जते इति विप्रतिपत्तिः । तत्राविप्रतिपत्तिस्थले विरोधाभावाद् राज्यस्य कर्ता राजेति त्रैवर्णिकानां राजत्वादेवेष्टौ प्राप्तिः । प्राप्तौ च सत्यां निमित्तार्थत्वं ‘‘यदि ब्राह्मण’’ इत्यादेः स्यादित्याह – राज्यस्य कर्तेत्यारभ्य तेनाविप्रतिपत्तेरित्यन्तेन । या तु क्षत्रियमात्र राजशब्दप्रयोगे म्लेच्छानामार्यैः सह विप्रतिपत्तिः , तत्र शास्त्रसहितार्यप्रसिध्द्या तद्विहीनम्लेच्छप्रसिद्धिबाधान्न जातिमात्रं राजशब्दार्थः , किंतु राज्यकर्तैव ।

अतश्च निमित्तार्थत्वं सुस्थमित्याह –

विप्रतिपत्ताविति ।

यववराहवदिति ।

‘‘यवमयश्चरुर्भवति वाराही उपानहावि’’त्यत्र यववराहशब्दयोर्म्लेच्छैः प्रियङ्गुवायसयोः प्रयोगादार्यैश्च दीर्घशूकसूकरयोः प्रयोगादुभयोश्च प्रयोगयोरनादित्वेन तुल्यबलत्वाद् विकल्पेनाभिधानं प्राप्तम् ।

तदुक्तं प्रमाणलक्षणे –

‘‘समा विप्रतिपत्तिः स्यात्’’ (जै.अ.१ पा.३ सू.८) इति ।

अभिधानविप्रतिपत्तिस्तुल्येत्यर्थः । सिद्धान्तस्तु - शास्त्रस्था वा तन्निमित्तत्वात् । (जै.अ.१ पा.३ सू.९) यवमय इत्यस्य हि वाक्यशेषे ‘‘यदान्या ओषधयो म्लायन्त्यथैते मोदमानास्तिष्ठन्ती’’ति श्रूयते । यवाश्चान्यौषधिम्लानौ मोदन्ते न प्रियङ्गवः । उक्तं हि – ‘‘फाल्गुने ह्यौषधीनां हि जायते पत्रशातनम् । मोदमानास्तु तिष्ठन्ति यवाः कणिशशालिनः ॥ प्रियङ्गवः शरत्पक्वास्तावद्गच्छन्ति हि क्षयम् । यदा वर्षासु मोदन्ते सम्यग्जाताः प्रियङ्गवः ॥ तदा नान्यौषधिम्लानिः सर्वासामेव मोदनात्’’॥ इति । ‘‘वाराही उपानहौ’’ इत्यस्य च वाक्यशेषे ‘‘वराहं गावोऽनुधावन्ती’’ति श्रूयते । सूकरं च गावोऽनुधावन्ति न काकम् । तस्माद्यववराहशब्दयोर्दीर्घशूकसूकरावर्थाविति । ननु म्लेच्छप्रसिद्धिमात्रेण क्षत्रियजाती राजशब्दार्थ इति न ब्रूमः , किंतु ‘‘गुणवचनब्राह्मणादिभ्यः कर्मणि’’ चेति पाणिनिना गुणवचनेभ्यः शुक्लादिशब्देभ्यो ब्राह्मणादिशब्देभ्यश्च ष्यञ् प्रत्ययस्मरणाद्राज्ञः कर्म राज्यमिति सिद्ध्यति ।

ततश्च क्षत्रियो राजेत्यप्राप्तिर्ब्राह्मणादीनां राजसूय इति सिद्धान्तिमतमाशङ्क्याह पूर्ववादी –

बलवदार्येति ।

प्रयोगमूला हि पाणिनिस्मृतिरार्यप्रयोगविरोधे चातन्मूला म्लेच्छप्रयोगमूला स्यात् । अतो मूलबाधेन बाध्येत्यर्थः ।

नखनकुलादिवदिति ।

खं न भवति इति नखं , कुलं न भवतीति नकुलमित्यत्र रूढावेव शब्दौ यथा व्युत्पाद्येते , एवं राजशब्द इत्यर्थः । पाणिनिर्हि ; नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्ये’’ति नखादिशब्दानां नञ् समासमङ्गीकृत्य नलोपाभावसिद्ध्यर्थं प्रकृतिभावं सस्मार ।

यदुक्तं यववराहादिशब्देष्विव राजशब्देऽपि क्षत्रियमात्रविषयत्वगोचरा म्लेच्छप्रसिद्धिरार्यप्रसिध्द्या बाध्येति , तत्राह –

रूपत इति ।

अनादिवृद्धव्यवहाररूढत्वादार्यम्लेच्छप्रयोगयोः स्वरूपतस्तावन्न विशेषोऽस्ति , यवादिशब्देषु तु वैदिकवाक्यशेषानुगृहीतार्यप्रसिद्धेर्बलवत्त्वमुक्तं , राजशब्दे त्वार्यप्रसिद्धेर्नास्ति वेदानुग्रह इति द्वयोः प्रसिध्द्योरविशेष इत्यर्थः ।

एवमविशेषमुक्त्वा म्लेच्छप्रसिद्धे राजशब्दविषये विशेषमाह –

वैदिकवाक्यशेषवदिति ।

प्रयोगो हि नानादेशेषु नानापुरुषैर्विरच्यते इति संभवद्विप्लवः । स्मृतिस्तु शिष्टपरिगृहीता व्यवस्थिता । ततश्च तदनुगृहीतम्लेच्छप्रयोग आर्यप्रयोगाद् बलीयानित्यर्थः । उक्तं हि – ‘‘आचारयोर्विरोधेन संदेहे सति निर्णयः । सनिबन्धनया स्मृत्या बलीयस्त्वादवाप्यते’’ इति ।

अनादिरिति ।

मुख्येत्यर्थः ।

गोगाव्यादीति ।

गावीशब्दो ह्यशत्तया प्रयुक्तो न गोशब्दस्य गौणत्वमापादयति , एवमिदमपीत्यर्थः ।

तत्किं राज्यकर्तरि राजशब्दप्रयोगः सर्वथा त्याज्यः ? नेत्याह –

तस्मादिति ।

तदेवं यथा क्षत्रियकर्तृके राजसूये ब्राह्मणादेरनधिकारादवेष्टेः प्रकरणादुत्कर्षः , एवं मनश्चिदादीनामपि क्रियाप्रकरणाल्लिङ्गादिभिरुत्कर्ष इत्याह –

क्षत्रियस्यैवाधिकारादिति ।

ननु ब्राह्मणादिवाक्यानामप्राप्तब्राह्मणादिप्रापकत्वे यदिशब्दविरोध उक्त इति , तत्राह –

अन्वयानुरोधीति ।

अन्वयः प्राप्तिः । यदिशब्दो हि निपातः । निपाताश्चोत्सर्गतः प्राप्तिमपेक्षन्ते । अप्राप्ते चार्थे वाक्याद्गम्यमाने यदिशब्दो भञ्जनीय इत्यर्थः । तदाहुः भट्टाचार्याः - ‘‘यदिशब्दपरित्यागो रुच्यध्याहारकल्पना । व्यवधानेन सबन्धो हेतुहेतुमतोश्च लिङ्’’ इति शेषः । यदि रोचयेत फलं मे स्यादिति , तर्हि ‘‘ब्राह्मणो यजेते’’ति रुच्यध्याहारकल्पनान्न विधित्वक्षतिरित्यर्थः ।

व्यवधानेन संबन्ध इति ।

यदि बार्हस्पत्यं मध्ये निधायाहुतिं हुत्वाऽभिघारयेदभिघारयितुमिच्छेदिति कामप्रवेदने लिङ् । अर्थात्तु विधिः । एकस्मिन् वाक्ये विधिद्वयायोगात् , तर्हि ब्राह्मणो यजेतेति विधिरेवेत्यर्थः ।

हेतुहेतुमतोरिति ।

यदि ब्राह्मणयजनमाहुत्यभिघारणे हेतुस्तदाऽऽहुत्यभिघारणमेवं कर्तव्यमित्यर्थः । अत्रैको लिङ् हेतुमत्त्वे अपरो विधौ । तत्राप्येकस्य विधिरर्थादपरस्य श्रौत इति ।

नन्विदमधिकरणमनारम्भणीयम् ; फलाभावात् , अवेष्टिं प्रकृत्यैतयाऽन्नाद्यकामं याजयेदिति पृथगधिकारश्रवणात् , त्रयाणां वर्णानामवेष्टावधिकारसिद्धौ यदि ब्राह्मण इत्यादेर्निमित्तार्थताया दुर्वारत्वात् , अत आह –

इयं चेति ।

ननु ‘‘राजा राजसूयेन स्वाराज्यकामो यजेते’’ति वाक्ये राजपदं कर्तृसमर्पकम् ; स्वाराज्यकामस्योद्देश्यत्वेन तद्व्यावर्तकत्वे वाक्यभेदप्रसङ्गात् , तथा च प्रकृतयागमात्रे राजविधेरन्नाद्यकामाधिकारेऽपि राजपदानुवृत्तेर्ब्राह्मणादीनामप्राप्तत्वेन निमित्तार्थत्वासंभवात्कथं कृत्वाचिन्ताऽऽश्रिता ? न ह्यधिकारवाक्यान्तरगतं राजपदमधिकारवाक्यान्तरे राजानं विधातुं क्षमम् । यद्युच्येत राजसूयमध्यस्थायास्तावदवेष्टेः राजकर्तृकत्वं सिद्धम् । एवं सत्येतयेति साङ्गेष्टेः परामर्शेन फले विधानादधिकारान्तरेऽपि राजकर्तृकेष्टिलाभ इति , तदपि न ; उत्पन्नमात्रं हि कर्म फले विधेयं नाङ्गविशिष्टम् ; अङ्गविशिष्टस्य फलसंबन्धेऽङ्गानां फलवदङ्गभावाभावप्रसङ्गात् ।

तस्मात्सूक्तं कृत्वाचिन्तेति ।

ननु भाष्यकारैरेकादशगतमधिकरणमुदाहृतं , टीकाकृता द्वितीयगतं , तत्र कोऽभिप्रायः । तं वक्ष्यामः । तदर्थमेकादशाधिकरणमनुक्रम्यते । अवेष्टौ चैकतन्त्र्यं स्याल्लिङ्गदर्शनात् । (ब्र.९.अ.११.पा.४) राजसूयेऽवेष्टिराम्नायते – ‘‘आग्नेयोऽष्टाकपालो हिरण्यं दक्षिणा बार्हस्पत्यश्चरुः शितिपृष्ठो दक्षिणे’’ इति ।

तत्राग्नेयादिहविःष्वङ्गानां तन्त्रेण प्रयोग उतावृत्त्येति संशयः । तत्र बार्हस्पत्यं मध्ये निधायेति लिङ्गदर्शनात् प्रयोगभेदे च मध्ये निधानासंभवादेतयाऽन्नाद्यकाममित्येकवचनाच्चैकतन्त्र्यमेकस्मिन् प्रयोगेऽङ्गानां तन्त्रेण भावः सकृदनुष्ठानमिति पूर्वपक्षं कृत्वा राद्धान्तितम् - अन्नाद्यकामप्रयोगेऽवेष्टेरिदं , लिङ्गदर्शनादिति न क्रत्वर्थप्रयोगे , तस्य तु दक्षिणाभेदाद्भेद इत्यङ्गावृत्तिरेव । तत्र क्रत्वर्थायामवेष्टौ इदं लिङ्गदर्शनादिकमित्याशङ्कानिरासार्थं क्रत्वर्थायामिति चेदिति सूत्रम् । काम्यायां ‘‘यदि ब्राह्मण’’ इत्यादिना वर्णमात्रसंयोगात् , तस्यां च मध्यनिधानादिप्रतीतेर्न राजमात्रकर्तृकक्रत्वर्थेष्टौ तत्प्राप्तिरित्यर्थः । तत्र वर्णसंयोगादिहेतोः क्रत्वर्थेष्टावपि गतत्वेन विरुद्धत्वमाशङ्क्य तत्परिहारार्थं द्वितीयाधिकरणानुक्रमणमिति । एकप्रयोगत्वं लिङ्गस्य क्रत्वर्थेष्टावसम्भवं काम्येष्टौ च संभवं वदता तेन सूत्रेण काम्येष्टेः क्रत्वर्थेष्टिवैलक्षण्यसूचनद्वारेणार्थात् प्रकरणोत्कर्षोऽपि गमित इति भाष्यकारस्यैतत्सूत्रोदाहरणं नासङ्गतम् ॥४७॥४८॥४९॥५०॥५१॥५२॥ पुरुषायुषस्याहानि षट्त्रिशत्सहस्राणि तैरवच्छिन्ना मनोवृत्तयः प्रत्यहोरात्रमेकैका भूत्वा षट् त्रिंशत्सहस्रा भवन्ति । ता एतावत्संख्याकेष्टका ममाऽग्नित्वेन सम्पाद्यन्ते षट्त्रिंशत् सहस्राणीत्यादिना मन एवात्मनः संबन्धिभूतानग्नीनर्क्यान्वर्णव्यत्ययेनार्च्यान्पूज्यानपश्यदित्यर्थः । मनसा चीयन्त इति मनश्चितः सुखादिप्रत्ययरूपाः । एवं वागादिवृत्तयो वागादिभिश्चीयमानत्वाद्वागादिचितः । प्राणशब्देन घ्राणमुक्तमिन्द्रियाधिकारार् । कर्मशब्देन वागतिरिक्तकर्मेन्द्रियाणि । प्रतीन्द्रियवृत्त्यैकैकमग्नीचयनं सम्पाद्यम् ।

अत एव भाष्यं पृथगग्नीनिति ।

तेषामेवाग्नीनामेव सा कृतिः सङ्कल्पमात्रमित्यर्थः । ग्रहणासादनेत्यादि भाष्यम् ॥ तत्र ग्रहणं सोमस्य पात्रे उपादानम् । आसादनं स्थापनम् । हवनानन्तरं हुतशेषोपादानमाहरणम् । पश्चादृत्विजां भक्षणार्थमन्योन्यमनुज्ञाकरणमुपह्वानम् । ते अग्नयो मनसैव आधीयन्त आहिताः । अचीयन्त चिताः । एष्वग्निषु ग्रहा अगृह्यन्त गृहीताः । अस्तुवत स्तोत्र कृतवन्त उद्गातारः । अशंसन् शंसनं कृतवन्तो होतारः । किं बहुना ? यत्किंचिद्यज्ञे कर्म क्रियते आरादुपकारकं , यच्च यज्ञीयं यज्ञनिष्पत्त्यर्थत्वेन यज्ञार्थं सन्निपत्योपकारमित्यर्थः । तन्मनसैवाक्रियत कृतमित्यर्थः । योऽग्निश्चितः सोऽयमेव लोक इति चितेऽग्नौ पृथिवीदृष्टिर्विधीयते ॥

इत्येकोनत्रिंशं लिङ्गभूयस्त्वाधिकरणम् ॥