भामतीव्याख्या
वेदान्तकल्पतरुः
 

एक आत्मनः शरीरे भावात् ।

अधिकरणतात्पर्यमाह –

इहेति ।

समर्थनप्रयोजनमाह –

बन्धमोक्षेति ।

असमर्थने बन्धमोक्षाधिकाराभावमाह –

न ह्यसतीति ।

अधस्तनतन्त्रोक्तेन पौनरुक्त्यं चोदयति –

नन्विति ।

परिहरति –

उक्तं भाष्यकृतेति ।

न सूत्रकारेण तत्रोक्तं येन पुनरुक्तं भवेदपि तु भाष्यकृतेत्यत्रत्यस्यैवार्थस्यापकर्षः प्रमाणलक्षणोपयोगितया तत्र कृत इति । यत इह सूत्रकृद्वक्ष्यत्यत एव भगवतोपवर्षेणोद्धारोऽपकर्षस्य कृतः ।

विचारस्यास्य पूर्वोत्तरतन्त्रशेषत्वमाह –

इह चेति ।

पूर्वाधिकरणसङ्गतिमाह –

अपिचेति ।

नन्वात्मास्तित्वोपपत्तय एवात्रोच्यन्तां किं तदाक्षेपेणेत्यत आह - –

आक्षेपपूर्विका हीति ।

आक्षेपमाह –

अत्रैके देहमात्रात्मदर्शिन इति ।

यद्यपि समस्तव्यस्तेषु पृथिव्यप्तेजोवायुषु न चैतन्यं दृष्टं तथापि कायाकारपरिणतेषु भविष्यति । नहि किण्वादयः समस्तव्यस्ता न मदना दृष्टा इति मदिराकारपरिणता न मदयन्ति । अहमिति चानुभवे देह एव गौराद्याकारः प्रथते । न तु तदतिरिक्तः तदधिष्ठानः कुण्ड इव दधीति । अत एवाहं स्थूलो गच्छामीत्यादिसामानाधिकरण्योपपत्तिरहमः स्थूलादिभिः । न जातु दधिसमानाधिकरणानि मधुरादीनि कुण्डस्यैकाधिकरण्यमनुभवन्ति सितं मधुरं कुण्डमिति । न चाप्रत्यक्षमात्मतत्त्वमनुमानादिभिः शक्यमुन्नेतुम् । न खल्वप्रत्यक्षं प्रमाणमस्ति । उक्तं हि “देशकालादिरूपाणां भेदाद्भिन्नासु शक्तिषु । भावानामनुमानेन प्रसिद्धिरतिदुर्लभा” इति । यदा च उपलब्धिसाध्यनान्तरीयकभावस्य लिङ्गस्येयं गतिस्तदा कैव कथा दृष्टव्यभिचारस्य शब्दस्यार्थापत्तेश्चात्यन्तपरोक्षार्थगोचराया उपमानस्य च सर्वैकदेशसादृश्यविकल्पितस्य । सर्वसारूप्ये तत्त्वात् । एकदेशसारूप्ये चातिप्रसङ्गात्सर्वस्य सर्वेणोपमानात् । सौत्रस्तु हेतुर्भाष्यकृता व्याख्यातः । चेष्टा हिताहितप्राप्तिपरिहारार्थो व्यापारः । स च शरीराधीनतया दृश्यमानः शरीरधर्म एवं प्राणः श्वासप्रश्वासादिरूपः शरीरधर्म एव । इच्छाप्रयत्नादयश्च यद्यप्यान्तराः तथापि शरीरातिरिक्तस्य तदाश्रयानुपलब्धेः सति शरीरे भावातन्तःशरीराश्रया एव, अन्यथा दृष्टहानादृष्टकल्पनाप्रसङ्गात् । शरीरातिरिक्त आत्मनि प्रमाणाभावाच्छरीरे च सम्भवाच्छरीरमेवेच्छादिमदात्मेति प्राप्त उच्यते ॥ ५३ ॥

व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ।

नाप्रत्यक्षं प्रमाणमिति ब्रुवाणः प्रष्टव्यो जायते कुतो भवाननुमानादीनामप्रामाण्यमवधारितवानिति । प्रत्यक्षं हि लिङ्गादिरूपमात्रग्राहि नाप्रामाण्यमेषां विनिश्चेतुमर्हति । नहि धूमज्ञानमिवैषामिन्द्रियार्थसन्निकर्षादप्रामाण्यज्ञानमुदेतुमर्हति । किन्तु देशकालावस्थारूपभेदेन व्यभिचारोत्प्रेक्षया । न चैतावान्प्रत्यक्षस्य व्यापारः सम्भवति । यथाहुः - नहीदमियतो व्यापारान्कर्तुं समर्थं संनिहितविषयबलेनोत्पत्तेरविचारकत्वादिति । तस्मादस्मिन्ननिच्छतापि प्रमाणान्तरमभ्युपेयम् । अपिच प्रतिपन्नं पुमांसमपहायाप्रतिपन्नसन्दिग्धाः प्रेक्षावद्भिः प्रतिपाद्यन्ते । न चैषामित्थम्भावो भवत्प्रत्यक्षगोचरः । न खल्वेते गौरत्वादिवत्प्रत्यक्षगोचराः किन्तु वचनचेष्टादिलिङ्गानुमेयाः । नच लिङ्गं प्रमाणं यत एते सिध्यन्ति । न पुंसामित्थम्भावमविज्ञाय यं कञ्चन पुरुषं प्रतिपिपादयिषतोऽनवधेयवचनस्य प्रेक्षावत्ता नाम । अपिच पशवोऽपि हिताहितप्राप्तिपरिहारार्थिनः कोमलशष्पश्यामलायां भुवि प्रवर्तन्ते । परिहरन्ति चाश्यानतृणकण्टकाकीर्णाम् । नास्तिकस्तु पशोरपि पशुरिष्टनिष्टसाधनमविद्वान् । न खल्वस्मिन्ननुमानगोचरप्रवृत्तिनिवृत्तिगोचरे प्रत्यक्षं प्रभवति । नच परप्रत्यायनाय शब्दं प्रयुञ्जीत शाब्दस्यार्थस्याप्रत्यक्षत्वात् । तदेव मा नाम भून्नास्तिकस्य जन्मान्तरमस्मिन्नेव जन्मन्युपस्थितोऽस्य मूकत्वप्रवृत्तिनिवृत्तिविरहरूपो महान्नरकः । पराक्रान्तं चात्र सूरिभिः । अत्यन्तपरोक्षगोचराप्यन्यथानुपपद्यमानार्थप्रभवार्थापत्तिः । भूयःसामान्ययोगेन चोपमानमुपपादितं प्रमाणलक्षणे । तदत्रास्तु तावत्प्रमाणान्तरं प्रत्यक्षमेवाहंप्रत्ययः शरीरातिरिक्तमालम्बत इत्यन्वयव्यतिरेकाभ्यामवधार्यते । योगव्याघ्रवत्स्वप्नदशायां च शरीरान्तरपरिग्रहाभिमानेऽप्यहङ्कारास्पदस्य प्रत्यभिज्ञायमानत्वमित्युक्तम् । सूत्रयोजना तु न त्वव्यतिरिक्तः किन्तु व्यतिरिक्त आत्मा देहात् । कुतस्तद्भावाभावित्वात् । चैतन्यादिर्यदि शरीरगुणः ततोऽनेन विशेषगुणेन भवितव्यम् । न तु सङ्ख्यापरिमाणसंयोगादिवत्सामान्यगुणेन । तथाच ये भूतविशेषगुणास्ते यावद्भूतभाविनो दृष्टा यथा रूपादयः । नह्यस्ति सम्भवः भूतं च रूपादिरहितं चेति । तस्माद्भूतविशेषगुणरूपादिवैधर्म्यान्न चैतन्यं शरीरगुणः । एतेनेच्छादीनां शरीरविशेषगुणत्वं प्रत्युक्तम् । प्राणचेष्टादयो यद्यपि देहधर्मा एव तथापि न देहमात्रप्रभवाः । मृतावस्थायामपि प्रसङ्गात् । तस्माद्यस्यैते अधिष्ठानाद्देहधर्मा भवन्ति स देहातिरिक्त आत्मा । अदृष्टकारणत्वेऽभ्युपगम्यमाने तस्यापि देहाश्रयत्वानुपपत्तेरात्मैवाभ्युपेतव्य इति ।

वैधर्म्यान्तरमाह –

देहधर्माश्चेति ।

स्वपरप्रत्यक्षा हि देहधर्मा दृष्टा यथा रूपादयः । इच्छादयस्तु स्वप्रत्यक्षा एवेति देहधर्मवैधर्म्यम् । तस्मादपि देहातिरिक्तधर्मा इति । तत्र यद्यपि चैतन्यमपि भूतविशेषगुणस्तथापि यावद्भूतमनुवर्तेत । नच मदशक्त्या व्यभिचारः । सामर्थ्यस्य सामान्यगुणत्वात् । अपिच मदशक्तिः प्रतिमदिरावयवं मात्रयावतिष्ठते तद्वद्देहेऽपि चैतन्यं तदवयवेष्वपि मात्रया भवेत् । तथा चैकस्मिन्देहे बहवश्चेतयेरन् । नच बहूनां चेतनानामन्योन्याभिप्रायानुविधानसम्भव इति एकपाशनिबद्धा इव बहवो विहङ्गमाः विरुद्धादिक्रियाभिमुखाः समर्था अपि न हस्तमात्रमपि देशमतिपतितुमुत्सहन्ते । एवं शरीरमपि न किञ्चित्कर्तुमुत्सहते । अपि च नान्वयमात्रात्तद्धर्मधर्मिभावः । शक्यो विनिश्चेतुं, मा भूदाकाशस्य सर्वो धर्मः सर्वेष्वन्वयात् । अपि त्वन्वयव्यतिरेकाभ्याम् । सन्दिग्धश्चात्र व्यतिरेकः ।

तथाच साधकत्वमन्वयमात्रस्येत्याह –

अपिच सति हि तावदिति ।

दूषणान्तरं विवक्षुराक्षिपति –

किमात्मकं चेति ।

स एवैकग्रन्थेनाह –

नहीति ।

नास्तिक आह –

यदनुभवनमिति ।

यथा हि भूतपरिणामभेदो रूपादिर्न तु भूतचतुष्टयादर्थान्तरमेवं भूतपरिणामभेद एव चैतन्यं न तु भूतेभ्योऽर्थान्तरं, येन “पृथिव्यापस्तेजो वायुरिति तत्त्वानि” इति प्रतिज्ञाव्याघातः स्यादित्यर्थः । एतदुक्तं भवति - चतुर्णामेव भूतानां समस्तं जगत्परिणामो न त्वस्ति तत्त्वान्तरं यस्य परिणामो रूपादयोऽन्यद्वा परिणामान्तरमिति ।

अत्रोक्ताभिस्तावदुपपत्तिभिर्देहधर्मत्वं निरस्तं तथाप्युपपत्त्यन्तराभिधित्सयाह –

चेत्तर्हीति ।

भूतधर्मा रूपादयो जडत्वाद्विषया एव दृष्टा न तु विषयिणः । नच केषाञ्चिद्विषयाणामपि विषयित्वं भविष्यतीति वाच्यम् । स्वात्मनि वृत्तिविरोधात् । न चोपलब्धावेव प्रसङ्गस्तस्या अजडायाः स्वयम्प्रकाशत्वाभ्युपगमात् । कृतोपपादनं चैतत्पुरस्तात् ।

उपलब्धिवदिति सूत्रावयवं योजयति –

यथैवास्या इति ।

उपलब्धिग्राहिण एव प्रमाणाच्छरीव्यतिरेकोऽप्यवगम्यते । तस्यास्ततः स्वयम्प्रकाशप्रत्ययेन भूतधर्मेभ्यो जडेभ्यो वैलक्षण्येन व्यतिरेकनिश्चयात् ।

अस्तु तर्हि व्यतिरेकादुपलब्धिर्भूतेभ्यः स्वतन्त्रा तथाप्यात्मनि प्रमाणाभाव इत्यत आह –

उपलब्धिस्वरूप एव च न आत्मेति ।

आजानतस्तावदुपलब्धिभेदो नानुभूयत इति विषयभेदादभ्युपेयः । न चोपलब्धिव्यतिरेकिणां विषयाणां प्रथा सम्भवतीत्युपपादितम् । नच विषयभेदग्राहि प्रमाणमस्तीति चोपपादितं ब्रह्मतत्त्वसमीक्षायामस्माभिः । एवं च सति विषयरूपतद्भेदादेव सुदुर्लभाविति दूरनिरस्ता विषयभेदादुपलब्धिभेदसङ्कथा । तेनोपलब्धेरुपलब्धृत्वमपि न तात्त्विकम् । किन्त्वविद्याकल्पितम् । तत्राविद्यादशायामप्युपलब्धेरभेद इत्याह

अहमिदमद्राक्षमिति चेति ।

न केवलं तात्त्विकाभेदान्नित्यत्वमतात्त्विकादपि नित्यत्वमेवेति तस्यार्थः ।

स्मृत्याद्युपपत्तेश्च ।

नानात्वे हि नान्येनोपलब्धेऽन्यस्य पुरुषस्य स्मृतिरुपपद्यत इत्यर्थः ।

निराकृतमप्यर्थं निराकरणान्तरायानुभाषते –

यत्तूक्तमिति ।

यो हि देहव्यापारादुपलब्धिरुत्पद्यते तेन देहधर्म इति मन्यते तं प्रतीदं दूषणम् –

न चात्यन्तं देहस्येति ।

प्रकृतमुपसंहरति –

तस्मादनवद्यमिति ॥ ५४ ॥

प्रमाणलक्षणोपयोगितयेति ; यत इहेति ; पूर्वाधिकरणेति ; यद्यपि समस्तेति ; न हीति ; न त्विति ; अत एवेति ; न जातु दधीति ; न चाप्रत्यक्षमित्यादिना ; न खल्वप्रत्यक्षमिति ; देशकालादीति ; यदा चेत्यादिना ; सर्वसारूप्य इति ; एकदेशेति ; सौत्रस्त्विति ; हिताहितेति ; अन्तःशरीराश्रया इति ; शरीरातिरिक्त आत्मनीति ; नाप्रत्यक्षमित्यादिना ; प्रत्यक्षं हीति ; तस्मादिति ; अपि चेति ; अपि च पशवोऽपीत्यादिना ; न च परप्रत्यायनायेति ; अत्यन्तेति ; भूयःसामान्येति ; सूत्रयोजना त्वित्यादिना ; चैतन्यादिरिति ; तथा चेति ; एवमिति ; तस्यापि देहाश्रयत्वानुपपत्तेरिति ; स्वपरप्रत्यक्षा हीति ; तत्र यद्यपीति ; अपि च मदशक्तिरिति ; दूषणान्तरमिति ; स एवेति ; उपलब्धिग्राहिण एवेति ; आजानत इति ; न चेति ; न च विषयभेदग्राहि प्रमाणमस्तीति ; तेनेति ; तत्राविद्यादशायामिति ; यो हीति ;

एक आत्मनः शरीरे भावात् ॥५३॥

प्रमाणलक्षणोपयोगितयेति ।

‘‘यज्ञायुधी यजमानः स्वर्ग लोकं यातीति वाक्यस्य देहातिरिक्तात्माभावादप्रामाण्यप्राप्तौ तत्परिहारेण प्रथमाध्यायोपयोगितयेत्यर्थः ।

अत एवेति भाष्यगतातःशब्दं पूरयति –

यत इहेति ।

वक्ष्यतीति भविष्यत्प्रयोगः पूर्वकाण्डापेक्षः । इतः पूर्वकाण्डे नयनमपकर्षस्तस्योद्धारो निवृत्तिः कृतेत्यर्थः । मनश्चिदादीनां पुरुषार्थत्वमनुपपन्नं देहव्यतिरिक्तस्य तत्फलभोक्तुरभावादित्याक्षेपलक्षण पूर्वाधिकरणसङ्गतिः ।

तामाहेत्याह –

पूर्वाधिकरणेति ।

ननु न भूतानामेकैकस्य चैतन्यमुपलभ्यते ; घटादेरदर्शनात् , नापि मिलितानां ;वह्नितमोऽयसि दृतिवायुसमाध्माते सलिलकणाभ्युक्षिते भूतचतुष्टयमेलनेऽपि चैतन्यानुपलम्भात् ।

तत्र भूतसंघाते शरीरे कथं चैतन्यसंभावना ? अतः पूर्वपक्षाभाव इत्याशङ्क्याह –

यद्यपि समस्तेति ।

देहो न चेतनः भूतत्वाद् घटवदित्यनुमानस्य च प्रत्यक्षबाधं वक्ष्यत्यहमिति चानुभव इत्यादिना । अतश्च बाधितविषये पक्षेतरस्याप्युपाधित्वाद्देहत्वमुपाधिरुन्नीयत इत्यर्थः ।

तथाविधोदाहरणेन प्रतिबन्दीलक्षणेन प्रतिकूलतर्कपराहतिं चानुमानस्य दर्शयति –

न हीति ।

किण्वं नाम मदिरारम्भकद्रव्यविशेषः । यदि समस्तव्यस्तविकल्पेन देहस्य चैतन्यमपह्नूयेत , तर्हि मदिरायां मदकरणत्वमपह्नुतं स्यादित्यर्थः ।

नन्वहमिति प्रत्यक्षे देहाश्रित आत्मा भासतेऽतः कथं देहोऽचेतन इत्यनुमानस्य बाधस्तत्राह –

न त्विति ।

स देहोऽधिष्ठानमाश्रयो यस्य स तदधिष्ठानः कुण्ड इव दधीति वैधर्म्यदृष्टान्तः । यथा कुण्डे दध्याश्रितं तदतिरिक्तं प्रतीयते , नैवमात्मा देहाश्रितोऽहमिति प्रतीयत इत्यर्थः ।

अत्र हेतुमाह –

अत एवेति ।

यत एव देहातिरिक्त आत्माऽहमनुभवे न प्रतीयते अत एवाहमस्य देहधर्मैः स्थौल्यादिभिरहं स्थूलो गच्छामीत्यादिरूपेण सामानाधिकरण्योपपत्तिः । न ह्याश्रितस्य वस्तुन आश्रयधर्मैस्तादात्म्यं संभवति । तस्माद्देहधर्मैस्तादात्म्यानुभवादहंप्रत्ययविषयस्यात्मनो देह एवात्मेत्यर्थः ।

यच्च देहव्यतिरिक्तात्मवादिनोच्यते देहाश्रितात्मगता एव ज्ञानादय आश्रयभूततत्तद्देहतादात्म्येन प्रतीयन्तेऽहं पश्यामीत्यादिव्यवहारसमय इति , तदयुक्तमित्याह –

न जातु दधीति ।

यथा दधिसमानाधिकरणानि दध्ना तादात्म्यप्रतीतियोग्यानि शैत्यादीनि दध्याश्रितकुण्डैकाधिकरण्यं तादात्म्यं नानुभवन्ति , एवमात्माश्रिता ज्ञानादयो न देहतादात्म्येन प्रतीयेरन् , यदि देह आत्मानं प्रत्याश्रयः । प्रतीयन्ते च । तस्मान्न देह आत्माश्रयः किं त्वात्मैवेत्यर्थः । अयमत्र प्रयोगः - ज्ञानं देहधर्मस्तादात्म्येनोपलब्धत्वाद्देहरूपवदिति ।

एवं देहव्यतिरिक्तात्मानुमानस्य बाधमुपाधिं सत्प्रतिपक्षतां चोक्त्वा शङ्कितव्यभिचारत्वमाह –

न चाप्रत्यक्षमित्यादिना ।

अप्रत्यक्षमात्मतत्त्वं प्रत्यक्षाविषय इत्यर्थः ।

न खल्वप्रत्यक्षमिति ।

प्रत्यक्षातिरिक्तमित्यर्थः ।

देशकालादीति ।

भावानामग्न्यादीनामनुमानेन भूमादिलिङ्गेन प्रसिद्धिरतिदुर्बला । कुतो देशकालावस्थादिस्वरूपाणां भेदेन वस्तुशक्तिषु भिन्नासु सतीषु व्याप्तिग्रहणदेशादावग्नेर्धूमजननशक्तिरासीदनुमानदेशादौ सा नास्तीति शङ्कयाऽग्नेर्धूमजनकत्वाभावस्यापि संभवेन धूमस्याग्निव्यभिचाराशङ्कोत्थानादित्यर्थः ।

मा भूदनुमानाद्देहातिरिक्तात्मसिद्धिरागमादिभ्यस्तु स्यादिति , नेत्याह –

यदा चेत्यादिना ।

उपलब्ध्या साक्षात्काररूपया साध्यः प्रमेयो नान्तरीयकभावः । नान्तरेण व्यापकं लिङ्गं भवतीत्येवंभावो व्याप्यत्वं यस्य लिङ्गस्य तल्लिङ्गं तथोक्तं तस्य यदा इयं गतिर्व्यभिचारशङ्का , तदा कैव कथा तद्धीनस्येत्यर्थः । अङ्गुल्यग्रे हस्तियूथादौ शब्दस्य दृष्टव्यभिचारत्वम् , अर्थापत्तेः शक्त्याद्यत्यन्तपरोक्षार्थगोचरत्वेन दृष्टव्याप्तेर्लिङ्गाद्वैधर्म्यमुक्तम् । गोसदृशं गवयं दृष्ट्वा गौरनेन सदृशीत्युपमानं प्रवर्तते । तत्सर्वात्मना सादृश्ये प्रवर्तेतैकदेशेन वा ।

नाद्य इत्याह –

सर्वसारूप्य इति ।

तत्त्वात्तस्यैव तेन सर्वसारूप्याद्भेदे कस्यचिदपि वैसादृश्यस्य भावान्नोपमानसंभव इत्यर्थः ।

न द्वितीय इत्याह –

एकदेशेति ।

सूत्रे प्रतिज्ञैव हेतुगर्भा । एकेदेहव्यतिरिक्तस्यात्मनोऽभावं मन्यन्त इत्युक्ते आत्मनि तदुपलम्भकप्रमाणाभावादभावप्रमाणस्यैवात्माभावसाधकत्वमित्यर्थादवगतेरिति स्वेन व्याख्यातम् ।

शरीरे भावादित्यपरो हेतुः स भाष्यकृद्भिर्व्याख्यात इत्याह –

सौत्रस्त्विति ।

प्राणचेष्टेत्यादि भाष्यं सौत्रहेतुविवरणपरं , तत्र चेष्टेति क्रियामात्रं देहस्यात्मत्वसाधकं न भवति ; घटादावपि तद्भावादित्याशङ्क्य व्याचष्टे –

हिताहितेति ।

अन्तःशरीराश्रया इति ।

देहाभ्यन्तरप्रदेशस्य परिणामा इत्यर्थः ।

नन्वन्तःशरीरप्रदेशाश्रितत्वमिच्छादीनामप्रत्यक्षमपि यथा कल्प्यते , एवमात्माश्रितत्वमपि कल्प्यतामत आह –

शरीरातिरिक्त आत्मनीति ।

अत्यन्ताप्रमितात्माश्रितत्वकल्पनाद्वरं प्रमितदेहस्याभ्यन्तरप्रदेशे इच्छादयः सन्तीति कल्पनमित्यर्थः ॥५३॥

अनुमानादिप्रमाणानामसिद्धिमुक्तां तावत्परिहरति –

नाप्रत्यक्षमित्यादिना ।

अनुमानादीनामप्रामाण्यं प्रत्यक्षेण वाऽवगम्यते अनुमानादिभिर्वा ।

नाद्य इत्याह –

प्रत्यक्षं हीति ।

इदं प्रत्यक्षमियतो लिङ्गस्वरूपतद्व्यभिचारतदप्रामाण्यादिपरिच्छेदान् कर्तुं न समर्थमित्यर्थः ।

द्वितीये व्याघात इत्याह –

तस्मादिति ।

प्रमाणान्तराभ्युपगमे तदप्रामाण्योक्तिर्व्याहतेत्यर्थः ।

व्याघातान्तरमाह –

अपि चेति ।

प्रतिपन्नः संप्रतिपत्तिमान् पुमान् । तं विहायाप्रतिपत्तिप्रतिपत्तिसंदेहवन्तः पुमांसः प्रेक्षावद्भिः प्रतिपाद्यन्ते व्युत्पाद्यन्त इत्यर्थः । इत्थंभावोऽप्रतिपत्तिमत्त्वादयः ।

एवं प्रतिज्ञाव्याघातं कथाप्रवृत्तिव्याघातं चोक्त्वा लोकयात्राविरोधमाह –

अपि च पशवोऽपीत्यादिना ।

शष्पं बालतृणम् । आश्यानमीषत् शुष्कम् । इष्टानिष्टसाधनम् अविद्वान् पशोरपि पशुरित्यर्थः । अनुमानगोचरश्चासौ प्रवृत्तिगोचरश्चेष्टानिष्टसाधनत्वम् । तत्र प्रत्यक्षं न हि प्रभवतीति योजना । अयमोदनः क्षुन्निवर्तकः ओदनत्वात् प्राग् भुक्तौदनवदित्याद्यनुमानाद्धि इष्टाऽनिष्टसाधनत्वावगमः , ततःप्रवृत्तिरनिष्टसाधनत्वानुमानाच्च निवृत्तिरिति । एवं विपक्षे व्याघातदण्डमापाद्याऽनुमानप्रामाण्यं स्वीकारितम् ।

शब्दप्रामाण्यमपि तथैव स्वीकारयति –

न च परप्रत्यायनायेति ।

मूकत्वं नास्तिकस्य शब्दप्रामाण्यानिष्टेरापन्नम् । प्रवृत्तिनिवृत्तिविरहोऽनुमानप्रामाण्यविरहादापन्न इति विभागः ।

यत्तूक्तमदृष्टव्याप्तिकाऽर्थापत्तिरत्यन्तपरोक्षार्थविषयत्वादप्रमाणमिति , तत्राह –

अत्यन्तेति ।

यद्यपि न व्याप्तिदर्शनमस्ति , अर्थस्यात्यन्तपरोक्षत्वात् ; तथाप्यन्यथानुपपद्यमानस्फोटादिकार्यरूपार्थजन्याऽर्थापत्तिः शक्त्यादिविषयोदेष्यतीति भावः ।

यच्च सर्वसादृश्यकिंचित्सादृश्याभ्यामुपमानदूषणमभाणि , तन्निराकरोति –

भूयःसामान्येति ।

न सर्वात्मना सादृश्यज्ञानमुपमानसामग्री ; नापि किंचिन्मात्रसादृश्यज्ञानम् , अपि तु बहुतरसामान्ययोगज्ञानम् । तच्च गोगवयादेरेवेति नातिप्रसङ्ग इत्यर्थः । प्रत्यक्षं प्रत्यभिज्ञा , सा च जाग्रत्स्वप्नदेहयोर्योगव्याघ्रमनुष्यदेहयोश्च भेदेप्यभिद्यमानमहंप्रत्ययालम्बनं शरीराद्भिनत्तीत्यर्थः । इत्युक्तं प्रथमसूत्रे इत्यर्थः ।

एवमनुमानादिप्रामाण्यं सामान्यतः समर्थ्योभयसंमतप्रत्यक्षेण च देहव्यतिरेकमात्मन उक्त्वाऽनुमानादपि व्यतिरेकं सूत्रव्याख्यानेन दर्शयति –

सूत्रयोजना त्वित्यादिना ।

इह हि सूत्रकारेणेदमुक्तम् । यस्य ज्ञानं धर्मः स तावदात्मा , देहस्य च न ज्ञानं धर्मः ; देहभावेऽपि मृतावस्यायां ज्ञानाभावादिति ।

तदयुक्तम् ; अयावद्देहभाविनोऽपि संयोगादेर्देहधर्मत्वेनानेकान्तादत आह –

चैतन्यादिरिति ।

चैतन्यं हि स्वाश्रयस्याष्टद्रव्येभ्यो व्यावर्तकसामान्यवत्त्वाद्विशेषगुणाः । इदं च लक्षणं तर्कपादोक्तयुक्तिनिष्पीडनासहमपि देहात्मप्रत्ययवद्व्यवहाराङ्गत्वादभ्युपेयते ।

अस्तु विशेषगुणश्चैतन्यं , ततः किं जातमत आह –

तथा चेति ।

यदा नित्यस्यात्मनश्चैतन्यमनित्यविशेषगुणस्तदाऽनैकान्तिकत्वमाशङ्क्य भूतविशेषगुण इत्युक्तम् । सिद्धान्तेऽप्यन्तःकरणवृत्तिप्रतिबिम्बितचैतन्यस्य प्रतिबिम्बभूतात्मन्यध्यस्तत्वेन तदाश्रितत्वाद् विशेषगुणत्वव्यवहारे न काचित् क्षतिः । शब्दस्य च स्थायित्वाद्यावदाकाशभावित्वमिष्यत एवेति न तेनापि व्यभिचार इति । तदयं प्रयोगः - ज्ञानं , न देहविशेषगुणः , अयावद्देहभावित्वाद् घटवदिति ।

नन्वेवमपि प्राणचेष्टादीनां विशेषगुणत्वाभावेनायावद्देहभाविनामपि देहदर्मत्वसंभवात्कथं देहव्यतिरिक्तात्मगमकत्वमत आह –

एवमिति ।

प्राणादयो नास्य समवायित्वेनात्मानं कल्पयन्ति , किं तु निमित्तत्वेनेत्यर्थः ।

तस्यापि देहाश्रयत्वानुपपत्तेरिति ।

अदृष्टमपि हि विशेषगुणः , तच्चेद्देहस्य , तर्हि भूतविशेषगुणत्वाद्यावदाश्रयमनुवर्तेतेति मृतावस्थायामपि भावान्न प्राणाद्यभावोपपादकं स्यादित्यर्थः ।

विमताः, न देवदत्तदेहविशेषगुणाः , गुणत्वे सति देवदत्तेतरप्रत्यक्षत्वरहितत्वाद् , घटवदित्यनुमानमाह –

स्वपरप्रत्यक्षा हीति ।

यद्यपि घटादयः परप्रत्यक्षाः ; तथापि गुणत्वे सति न परप्रत्यक्षाः । तेषां गुणत्वाभावाद्विशेषणाभावेऽपि विशिष्टाभावादिति न साधनविकलता । देहगतगुरुत्वादौ पराप्रत्यक्षेऽनैकान्तिकत्वपरिहारार्थं प्रतिज्ञायां विशेषग्रहणम् । यथाश्रुतस्तु ग्रन्थो न घटत एव ; इच्छादयो न देहविशेषगुणाः स्वपराप्रत्यक्षत्वादित्युक्ते इच्छाद्यतिरिक्तस्वपराप्रत्यक्षपदार्थस्य परेषामसिद्धत्वेन दृष्टान्ताभावाद् , वैधर्म्यमात्रस्य च व्याप्तिरहितस्यासादकत्वादिति ।

यदुक्तं पूर्वपक्षिणा भूतेष्वयावद्भूतभाव्यपि चैतन्यं देहाकारपरिणतेषु स्यान्मदशक्तिवदिति , तदपि न सिद्ध्यति ; चैतन्यस्य भूतविशेषगुणत्वेन यावद्देहभावित्वानुमानवद्यावद्भूतभावित्वानुमानाद् , मदशक्तेश्च विशेषगुणत्वाभावेन दृष्टान्तवैधर्म्यादित्याह –

तत्र यद्यपीति ।

पराप्रत्यक्षत्वेन हि चेतन्यस्य भूतविशेषगुणत्वमनन्तरमेव प्रतिषिद्धं , तदभ्युपेत्याप्ययं वाद इति सूचनार्थं यद्यपीत्युक्तम् । मदशक्तेः किण्वादिषु अयावदाश्रयभावित्वमभ्युपेत्य दृष्टान्तवैषम्यमुक्तम् ।

इदानीं मदशक्तिवच्चैतन्यस्य परिणामधर्मत्वमभ्युपेत्याप्याह –

अपि च मदशक्तिरिति ।

मात्रया एकदेशेन । यथा विहङ्गमा हस्तमात्रमपि देशमतिपतितुमतिक्रमितुं नोत्सहन्ते , एवं नानाचेतनाधिष्ठितं शरीरमपि न किंचित्कर्तुमुत्सहेतेत्यर्थः ।

किमात्मकमिति भाष्ये प्रश्नो न क्रियते ; देहधर्मत्वेन चैतन्यस्य तन्मते प्रसिद्धत्वात् ; नाप्याक्षेपः ; देहधर्मत्वनिरासेन तस्यापि जातत्वादत आह –

दूषणान्तरमिति ।

पूर्वं हि देहभावेऽप्यभावान्न देहधर्मश्चैतन्यमित्युक्तम् , इदानीं देहधर्मस्य रूपादिवद्देहसाक्षित्वायोगाच्चैतन्यात्मकत्वमेवानुपपन्नमिति दूषणान्तरमभिधातुं प्रथमं तावल्लौकायतिकस्य भूतचतुष्टयातिरिक्तं चैतन्यं नास्तीत्याक्षेपः क्रियत इत्यर्थः ।

स एवेति ।

आक्षेप्तेत्यर्थः । देवदत्तचैतन्यं , न देवदत्तदेहधर्मः , तद्ग्राहकत्वाद् यज्ञदत्तचैतन्यवदित्यनुमानम् ।

कालातीतत्वं च देहधर्मग्राहिणोऽनुमानस्याह –

उपलब्धिग्राहिण एवेति ।

उपलब्धेरात्मत्वसिद्ध्यर्थं भेदो निराक्रियते । तत्रोपलब्धेर्भेदः स्वाभाविक औपाधिको वा ।

नाद्य इत्याह –

आजानत इति ।

स्वभावत इत्यर्थः ।

न द्वितीय इत्याह –

न चेति ।

अध्यासभाष्ये ह्युपलब्धिव्यतिरेकेण विषयाणां प्रकाशो न संभवतीत्युक्तम् । ततश्च विषया एव न सन्ति , कैरुपाधिभिरुपलब्धिर्भिद्येतेत्यर्थः ।

विषयाणां परस्परभेदाभावादपि न तदुपाधिक उपलब्धिभेद इत्याह –

न च विषयभेदग्राहि प्रमाणमस्तीति ।

उपलब्धिव्यतिरिक्तविषयस्य सद्भावे प्रमाणाभावाद्विषयस्वरूपं दुर्लभम् । विषयाणामन्योन्यभेदग्राहिप्रमाणाभावाद्भेदः सुदुर्लभ इत्यर्थः । ब्रह्मतत्त्वसमीक्षायां ब्रह्मसिद्धिटीकायाम् । प्रत्यक्षं वस्तुसत्तामेव बोधयति , न भेदं ; वित्तेः क्रमवद्व्यापारायोगात् । न च मानान्तराद्भेदसिद्धिः , प्रतियोगिभेदसिध्द्योः परस्पराश्रयत्वाद् , इत्याद्युक्तम् ।

ननु विषयाभावे उपलब्धेऽनुपलब्धृत्वमपि न स्यादित्याशङ्क्य उपलब्धेरिष्टप्रसङ्गतामाह –

तेनेति ।

भाष्येऽहमद्राक्षमित्यहङ्कारावच्छिन्नाया उपलब्धेः प्रत्यभिज्ञयैकत्वं समर्थ्यते , न शुद्धा इत्याह –

तत्राविद्यादशायामिति ।

ननु निश्चेष्टेऽपि देहे तस्मिन्सत्येव स्वप्ने उपलब्धिदर्शनादनुपयोगवर्णनं भाष्येऽनुपपन्नमित्याशङ्क्याह –

यो हीति ।

तस्मादित्यनन्तरमुक्तार्थोपसंहारो न क्रियते , तस्याव्यापकत्वादित्याह – प्रकृतमिति ॥५४॥

इति त्रिंशमैकात्म्याधिकरणम् ॥