भामतीव्याख्या
वेदान्तकल्पतरुः
 

अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ।

स्वरादिभेदात्प्रतिवेदमुद्गीथादयो भिद्यन्ते । तदनुबद्धास्तु प्रत्ययाः प्रतिशाखं विहिता भेदेन । तत्र संशयःकिं यस्मिन्वेदे यदुद्गीथादयो विहितास्तेषामेव तद्वेदविहिताः प्रत्यया उतान्यवेदविहितानामप्युद्गीथादीनां ते प्रत्यया इति । किं तावत्प्राप्तम् । “ओमित्यक्षरमुद्गीथमुपासीत”(छा. उ. १ । १ । १) इत्युद्गीथश्रवणेनोद्गीथसामान्यमवगम्यते । निर्विशेषस्य च तस्यानुपपत्तेर्विशेषकाङ्क्षायां स्वशाखाविहितस्य विशेषस्य संनिधानात्तेनैवाकाङ्क्षाविनिवृत्तेर्न शाखान्तरीयमुद्गीथान्तरमपेक्षते । न चैवं संनिधानेन श्रुतिपीडा, यदि हि श्रुतिसमर्पितमर्थमपबाधेन ततः श्रुतिं पीडयेन्न चैतदस्ति । नह्युद्गीथश्रुत्यभिहितलक्षितौ सामान्यविशेषौ बाधितौ स्वशाखागतयोः स्वीकरणाच्छाखान्तरीयास्वीकारेऽपि । यथाहुः “जातिव्यक्ती गृहीत्वेह वयं तु श्रुतलक्षिते । कृष्णादि यदि मुञ्चामः का श्रुतिस्तत्र पीड्यते” ॥ एवं प्राप्तम् । एवं प्राप्त उच्यते - उद्गीथाङ्गवबद्धास्तु प्रत्यया नानाशाखासु प्रतिवेदमनुवर्तेरन्न प्रतिशाखं व्यवतिष्ठेरन् । उद्गीथमित्यादिसामान्यश्रुतेरविशेषातेतदुक्तं भवति युक्तं शुक्लं पटमानयेत्यादौ पटश्रुतिमविशेषप्रवृत्तामपि संनिधानाच्छुक्लश्रुतिर्बाधत इति । विशिष्टार्थप्रत्यायनप्रत्युक्तत्वात्पदानां समभिव्याहारस्य । अन्यथा तदनुपपत्तेः । नच स्वार्थमस्मारयित्वा विशिष्टार्थप्रत्यायनं पदानामिति विशिष्टार्थप्रयुक्तं स्वार्थस्मारणं न स्वप्रयोजकमपवाधितुमुत्सहते । मा च बाधिप्रयोजकाभावेन स्वार्थस्मारणमपीति युक्तमविशेषप्रवृत्ताया अपि श्रुतेरेकस्मिन्नेव विशेषे अवस्थापनम् । इह तूद्गीथश्रुतेरविशेषेण विशिष्टार्थप्रत्यायकत्वात् । सङ्कोचे प्रमाणं किञ्चिन्नास्ति । नच संनिधिमात्रमपबाधितुमर्हति । श्रुतिसामान्यद्वारेण च सर्वविशेषगामिन्याः श्रुतेरेकस्मिन्नवस्थानं पीडैव । तस्मात्सर्वोद्गीथविषयाः प्रत्यया इति ॥ ५५ ॥

मन्त्रादिवद्वाविरोधः ।

विरुद्धमिति नः संप्रत्ययो यत्प्रमाणेन नोपलभ्यते । उपलब्धं च मन्त्रादिषु शाखान्तरीयेषु शाखान्तरीयकर्मसम्बन्धित्वम् । तद्वदिहापीति दर्शनादविरोधः । एतच्च दर्शितं भाष्येण सुगमेनेति ॥ ५६ ॥

अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥५५॥

उद्गीथादीनां सर्वशाखास्वेकत्वात् कथमुपासनव्यवस्था शङ्क्यते ? अत आह –

स्वरादिति ।

उद्गीथादिश्रुतेर्बलीयस्त्वात्तस्याश्च सामान्यविषयत्वेन प्राकरणिकविशेषाकाङ्क्षत्वाच्च संशयमाह –

यस्मिन्निति ।

यथा शरीरात्मनोर्भेदादात्मधर्माणां शरीरे न संभवः , एवमेकशाखागतोद्गीथधर्माणां न भिन्नान्यशाखागतोद्गीथादौ प्राप्तिः , अथवा - विद्याचित एवेत्येवकारश्रुत्या मनश्चिदादीनां क्रियाप्रकरणं भग्नमत्र तद्गीथादिसामान्यश्रुतेः प्रकरणोपनीतविशेषाकाङ्क्षत्वेन बाधकत्वादुपास्तीनां व्यवस्थेति सङ्गतिद्वयमभिप्रेत्य पूर्वपक्षमाह –

ओमित्यादिना ।

ननु सामान्यश्रुतिबाधेन कथं सन्निधेः स्थानात् स्वशाखागतविशेष उपासननियम: ? इत्याशङ्क्याह –

न चैवमिति ।

उद्गीथमुपासीतेत्यत्रोद्गीथश्रुतेरुद्गीथसामान्यं वाच्यम् , उद्गीथव्यक्तिर्लक्ष्या ; स्वशाखागतोद्गीथव्यत्तयुपादाने च सामान्यस्य प्रतिव्यक्ति समाप्तेः सामान्यविशेषौ द्वावपि श्रुत्यर्थौ गृहीतौ , तत्र कथं श्रुतिबाध इत्यर्थः ।

श्रुतिसमर्पितमर्थं बाधेतेति ।

सन्निधिरिति शेषः । शाखान्तरीयस्वीकारेऽपि स्वशाखागतयोस्तयोः स्वीकरणादिति योजना ।

भट्टोक्तिमाह –

यथाहुरिति ।

पटं शुक्लमानयेतीह प्रयोगे पटपदेन श्रुतपटत्वजातिलक्षितां च शुक्लपटव्यक्तिं गृहीत्वा कृष्णादिपटव्यक्त्यन्तरं यदि मुञ्चामस्तत्र तदा का श्रुतिरस्माभिः पीड्यते ? न कापीत्यर्थः ॥ दृष्टान्ते पटमिति सामान्यश्रुतेः संकोचो न सन्निधिमात्रादपि तु शुक्लमिति सन्निहितविशेषश्रुतिबलेन । दार्ष्टान्तिके तूपासनविधावुद्गीथादिसन्निदिमात्रं , न तु स्वरादिभिन्नममुकमुद्गीथमुपासीतेति विशेषविषया श्रुतिर्विद्यते ।

इतश्च दुर्बलं सन्निधिमपबाध्य सामान्यश्रुत्या सर्वशाखासूपासनोपसंहार इति सिद्धान्तमाह –

युक्तमित्यादिना ।

ननु वाक्याच्छ्रुतेर्बलीयस्त्वाच्छुक्लश्रुतिबलाद्या काचिच्छ्रुक्लव्यक्तिः प्रतीयतां , पटशब्दाच्च पटमात्रं , किमिति सामान्यश्रुतेः संकोचस्तत्राह –

विशिष्टार्थप्रत्यायनेति ।

व्यवहारार्थं हि वाक्यप्रयोगः , व्यवहारश्च विशिष्टार्थविषयः , न पदार्थमात्रविषयः , तस्य नित्यत्वेन प्रवृत्त्ययोग्यत्वात् , अतो विशिष्टार्तप्रत्ययः पदप्रयोगस्य प्रयोजनम् इत्यर्थः ।

यद्येवं किमर्थं तर्हि पदैः पदार्थाः स्मार्यन्ते ? अत आह –

नच स्वार्थमिति ।

द्वारं पदार्थस्मारणं वाक्यार्थबोधनायेत्यर्थः ।

यदि स्वप्रयोजकं स्वोद्देश्यं वाक्यार्थप्रत्ययमपबाधेत पदार्थस्मरणं , तर्हि स्वयमेव न स्याद् , वैयर्थ्यप्रसङ्गादित्याह –

मा च बाधीति ।

मा बाधि चेत्यन्वयः । बाधितं च प्रसज्येत तच्च मा भूदयुक्तमित्यर्थः । तदेवमानर्थक्यप्रतिहतानां विपरीतं बलाबलमिति न्यायेन वाक्यवशवर्तित्वमेवंविधस्थले श्रुतीनाम् । तत्र विशिष्टार्थप्रत्ययाय सन्निहितविशेषश्रुतिवशात् सामान्यश्रुतेः संकोच इत्युक्तं भवति ।

एवं दृष्टान्ते सामान्यश्रुतेः संकोचमुपपाद्य दार्ष्टान्तिके तदभावमाह –

इह त्वित्यादिना ।

अमुकमुद्ग्थमुपासीतेत्यश्रवणादुद्गीथमात्रविशिष्टोपासनकर्तव्यता वाक्यार्थः , स चोद्गीथपदेन सामान्यमात्रपर्यवसितेनापि कर्तुं शक्यत इति न श्रुतिसंकोच इत्यर्थः ।

अपबाधितुमर्हतीति ।

श्रुतिमिति शेषः । यदुक्तं सन्निहितव्यक्त्युपादनेऽपि न सामान्यश्रुतेः पीडेति , तत्राह – श्रुतिसामान्येति ॥५५॥ एकशाखाङ्गत्वस्योद्गीथोपासनस्यान्यशाखागतोद्गीथसंबन्धे सन्निधिविरोधमङ्गीकृत्य श्रुत्या सन्निधिबाध उक्तः , इदानीं विरोध एव नास्त्यन्यत्रापि दर्शनादित्याह – विरुद्धमितीति ॥५६॥ लोकेषु पृथिव्यादिषु लोकशब्दो लोकालोकेषु लाक्षणिकः । पृथिव्यादिदृष्ठ्या पञ्चविधं सामोपासीतेत्यर्थः । पृथिवी हिङ्कारोऽग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनमिति । उक्थं कर्माङ्गभूतशस्त्रमिति यत्प्रजा वदन्ति । तदिदमेव येयं पृथिवीत्युक्ते पृथिवीदृष्टिविधिः प्रयाजो हेमन्तशिशिरस्योरेकीकरणेन पञ्चसंख्या ऋतव एव । ततश्चैकसवत्सरसंबन्ध्यृतुसामान्यात्समा न चैकत्र होतव्याः । छागादेर्होमार्थमनुवाक्यां पठ हे होतरित्यध्वर्युप्रैषः । यो जात एव बाल एवस्सन् प्रथमो गुणैः श्रेष्ठः मनस्वान् विवेकवान् स जनास इन्द्र इति शेषः । जनास इति हे जना इत्यर्थः ॥

इत्येकत्रिंशमङ्गावबद्धाधिकरणम् ॥