भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ।
वैश्वानरविद्यायां छान्दोग्ये किं व्यस्तोपासनं समस्तोपासनं च उता समस्तोपासनमेवेति । तत्र दिवमेव भगवो राजन्निति होवाचेति प्रत्येकमुपासनश्रुतेः प्रत्येकं च फलवत्त्वाम्नानात्समस्तोपासने च फलवत्त्वश्रुतेरुभयथाप्युपासनम् । नच यथा वैश्वानरीयेष्टौ यदष्टाकपालो भवतीत्यादीनामवयुज्यवादानां प्रत्येकं फलश्रवणेऽप्यर्थवादमात्रत्वं वैश्वानरं द्वादशकपालं निर्वपेदित्यस्यैव तु फलवत्त्वमेवमत्रापि भवितुमर्हति । तत्र हि द्वादशकपालं निर्वपेदिति । विधिभक्तिश्रुतिर्यदष्टाकपालो भवतीत्यादिषु वर्तमानापदेशः । नच वचनानि त्वपूर्वत्वादिति विधिकल्पना । अवयुज्यवादेन स्तुत्याप्युपपत्तेः । इह तु समस्ते व्यस्ते च वर्तमानापदेशस्याविशेषादगृह्यमाणविशेषतया उभयत्रापि विधिकल्पनायाः फलकल्पनायाश्च भेदात् । निन्दायाश्च समस्तोपासनारम्भे व्यस्तोपासनेऽप्युपपत्तेः । श्यामो वाश्वाहुतिमभ्यवहरतीतिवदुभयविधमुपासनमिति प्राप्त उच्यते - समस्तोपासनस्यैव ज्यायस्त्वं न व्यस्तोपासनस्य । यद्यपि वर्तमानापदेशत्वमुभयत्राप्यविशिष्टं तथापि पौर्वापर्यालोचनया समस्तोपासनपरत्वस्यावगमः । यत्परं हि वाक्यं तदस्यार्थः । तथाहि - प्राचीनशालप्रभृतयो वैश्वानरविद्यानिर्णयायाश्वपतिं कैकेयमाजग्मुः । ते च तत्तदेकदेशोपासनमुपन्यस्तवन्तः । तत्र कैकेयस्तत्तदुपासननिन्दापूर्वं तन्निवारणेन समस्तोपासनमुपसञ्जहार । तथा चैकवाक्यतालाभाय वाक्यभेदपरिहाराय च समस्तोपासनपरतैव सन्दर्भस्य लक्ष्यते । तस्माद्बहुफलसङ्कीर्तनम् । प्रधानस्तवनाय । समस्तोपासनस्यैव तु फलवत्त्वमिति सिद्धम् ।
एकदेशिव्याख्यानमुपन्यस्य दूषयति –
केचित्त्वत्रेति ।
सम्भवत्येकवाक्यत्वे वाक्यभेदस्यान्याय्यत्वात्नेदृशं सूत्रव्याख्यानं समञ्जसमित्यर्थः ॥ ५७ ॥
भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥५७॥ सैव हि सत्यादय (ब्र.अ.३ पा.३ सू.३८) इत्यत्र तद्यत्तत्सत्यमिति तच्छब्देन प्रकृतपरामर्शाद् विद्यैक्यमुक्तम् । अत्र तद्वदभेदहेत्वभावादगतार्थत्वम् । पूर्वत्रोद्गीथादिश्रुत्या सन्निधिं बाधित्वोद्गीथाद्युपास्तीनां सर्वशाखासूपसंहार उक्तः ।
एवमत्रापि व्यस्तोपासनस्य विधिश्रुतेः फलश्रुतेश्च समस्तोपासनसन्निधानप्राप्तस्तुत्यर्थत्वं बाधित्वा विधेयत्वमित्याह –
तत्र दिवमेवेति ।
उभयथाऽप्युपासनं कर्तव्यमिति शेषः ।
व्यस्तोपासनफलश्रवणस्य समस्तोपासनस्तुत्यर्थत्वेनान्यथासिद्धिमाशङ्क्याह –
न चेत्यादिना ।
न चेत्यस्यैवमत्रापि न च भवितुमर्हतीति वक्ष्यमाणेनान्वयः ॥
यथा वैश्वानरीयेष्टाविति ।
‘‘वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते’’ इत्युपक्रम्य ‘‘यदष्टाकपालो भवति ब्रह्मवर्चसेन पुत्रं पुनाती’’त्यादिना कपालविशेषेषु फलविशेषानाम्नाय ‘‘द्वादशकपालो भवति यस्मिन् जाते एतामिष्टिं निर्वपति पूत एव स तेजस्वी’’त्यादि समामनन्ति । तत्र यद्यपि द्वादशत्वेऽष्टत्वादीनां वस्तुतोऽन्तर्भावः ; तथापि न परिच्छेदकत्वम् । तस्मादप्राप्तत्वाद्वैश्वानरेष्टावष्टाकपालत्वादिगुणविधानमिति प्रापय्य राद्धान्तितं प्रमाणलक्षणे । उत्पत्तिशिष्टाद्वादशत्वावरोधान्न प्रकृतकर्मण्यष्टत्वादिगुणविधिः । अपि च ‘‘पुत्रे जाते द्वादशकपाल’’मिति , तेनैकं वाक्यं द्वादशकपालविधिपरम् , अष्टत्वादीनि तु वस्तुतः प्राप्तान्यनूद्यन्ते स्तुत्यर्थमिति क्लृप्तविधस्तावकत्वेन वर्तमानापदेशानामेकवाक्यत्वे च संभवति न वाक्यभेदेन विधिकल्पनम् ।
तस्मादप्यष्टत्वादीना स्तुत्यर्थत्वमत्याह –
तत्र हीति ।
वैश्वानरेष्टौ हि द्वादशकपाले विधेः प्रत्यक्षत्वाद्यदष्टाकपालो भवतीत्यादीनां वर्तमानपदेशानां च तत्स्तुत्यर्थत्वं युक्तम् , वैश्वानरोपासने तु समस्ते व्यस्ते च विधेः कल्पनीयत्वादेवं कामशब्दस्य क्वाप्यश्रवणात्फलत्वकल्पनायाश्चाविशेषात्सर्वत्र विधिकल्पनमित्याह –
इह त्विति ।
तर्हि ‘‘मूर्धा ते व्यपतिष्यदि’’त्यादिव्यस्तोपासननिन्दा किमर्था ? अत आह –
निन्दायाश्चेति ।
येन हि यावज्जीवं समस्तोपासनं संकल्पपूर्वं कर्तुं प्रारब्धं तस्य तथाविधसमस्तोपासनप्रारम्भे सति व्यस्तोपासननिन्दोपपत्तिरित्यर्थः ।
अत्रोदाहरणमाह –
श्याम इति ।
‘‘श्यामः श्वा आहुतिमभ्यवहरति तस्य योऽनुदिते जुहोति , शबलः श्वा आहुतिमभ्यवहरति य उदिते जुहोति’’ इति उदिताऽनुदितहोमयोर्निन्दायामपि वाक्यान्तरेण तयोर्विहितत्वादुदितहोमप्रारम्भेऽनुदितहोमनिन्दा , एवमनुदितहोमप्रारम्भे तत्त्योगे च उदितहोमनिन्दा । तदाहाक्षपादः - अभ्युपेत्य कालभेदे दोषवचनादिति । कालभेदे कालान्यत्वकरणे इत्यर्थः ।
उपक्रमोपसंहारयोरेकविद्याविषयत्वेनैकवाक्यत्वावगमान्न व्यस्तोपासनविधिरिति सिद्धान्तयति –
समस्तोपासनस्यैवेत्यादिना ।
उपक्रममाह –
वैश्वानरविद्यानिर्णयायेति ।
व्यस्तोपास्त्यभिज्ञानामेव समस्तविषयजिज्ञासादर्शनादुपक्रमस्य समस्तोपास्तिपरत्वमित्यर्थः ।
उपसंहारमाह –
तत्र कैकेय इति ।
सुतं कण्डितं सोमद्रव्यम् । प्रसुतमासमन्तात्सुतत्वमवस्थाभेदः । सोमयागसंपत्तिस्तव कुले दृश्यत इति यावत् । सुतं सोमरूपं प्रसुतमभ्यस्तम् आसुतं विकृतिषु ॥५७॥