भामतीव्याख्या
वेदान्तकल्पतरुः
 

नानाशब्दादिभेदात् ।

सिद्धं कृत्वा विद्याभेदमधस्तनं विचारजातमभिनिर्वर्तितम् । सम्प्रति तु सर्वासामीश्वरगोचराणां विद्यानां किमभेदो भेदो वा, एवं प्राणादिगोचरास्विति विचारयितव्यम् । ननु यथा प्रत्ययाभिधेयाया अपूर्वभावनाया आजानतो भेदाभावेऽपि धात्वर्थेन निरूप्यमाणत्वात्तस्य च यागादेर्भेदात्प्रकृत्यर्थयागादिधात्वर्थानुबन्धभेदाद्भेदः । तदनुरक्ताया एव तस्याः प्रतीयमानत्वात् । एवं विद्यानामपि रूपतो वेद्यस्येश्वरस्याभेदेऽपि तत्तत्सत्यसङ्कल्पत्वादिगुणोपधानभेदाद्विद्याभेद इति नास्त्यभेदाशङ्का । उच्यते - युक्तमनुबन्धभेदात्कार्यरूपाणामपूर्वभावनानां भेद इति । इह ब्रह्मणः सिद्धरूपत्वाद्गुणानामपि सत्यसङ्कल्पत्वादीनां तदाश्रयाणां सिद्धतया सर्वत्राभेदो विद्यासु । नहि विशालवक्षाश्चकोरेक्षणः क्षत्रिययुवा दुश्च्यवनधर्मेति एकत्रोपदिष्टोऽन्यत्र सिंहास्यो वृषस्कन्धः स एवोपदिश्यमानश्चकोरेक्षणत्वाद्यपजहाति न खलु प्रत्युपदेशं वस्तु भिद्यते । तस्य सर्वत्र तादवस्थ्यात् । अतादवस्थ्ये वा तदेव न भवेत् । नहि वस्तु विकल्प्यत इति । तस्माद्वेद्याभेदाद्विद्यानां भेद इति प्राप्तम् । एवं प्राप्त उच्यते - भवेदेतदेवं यदि वस्तुनिष्ठान्युपासनवाक्यानि किन्तु तद्विषयामुपासनाभावनां विदधति । सा च कार्यरूपा । यद्यपि चोपासनाभावना उपासनाधीननिरूपणोपासनं चोपास्याधीननिरूपणमुपास्यं चेश्वरादि व्यवस्थितरूपम् , तथाप्युपासनाविषयीभावोऽस्य कदाचित्कस्यचित्केनचिद्रूपेणेत्यपरिनिष्ठित एव । यथैकः स्त्रीकायः केनचिद्भक्ष्यतया केनचिदुपगन्तव्यतया केनचिदपत्यतया केनचिन्मातृतया केनचिदुपेक्षणीयतया विषयीक्रियमाणः पुरुषेच्छातन्त्रः । एवमिहापि उपासनानि पुरुषेच्छातन्त्रतया विधेयतां नातिक्रामन्ति । नच तत्तद्गुणतयोपासनानि गुणभेदान्न भिद्यन्ते । न चाग्निहोत्रमिवोपसनां विधाय दधितण्डुलादिगुणवदिह सत्यसङ्कल्पत्वादिगुणविधिर्येनैकशास्त्रत्वं स्यात् । अपि तूत्पत्तावेवोपासनानां तत्तद्गुणविशिष्टानामवगमात् । तत्रागृह्यमाणविशेषतया सर्वासां भेदस्तुल्यः । नच समस्तशाखाविहितसर्वगुणोपसंहारः शक्यानुष्ठानस्तस्माद्भेदः ।

न चास्मिन्पक्षे सामाना सन्तः सत्यकामादय इति ।

केचित्खलु गुणाः कासुचिद्विद्यासु समानास्तेनैकविद्यात्वे आवर्तयितव्याः । एकत्रोक्तत्वात् । विद्याभेदे तु न पौनरुक्त्यमेकस्यां विद्यायामुक्ता विद्यान्तरे नोक्ता इति विद्यान्तरस्यापि तद्गुणत्वाय वक्तव्या अनुक्तानामप्राप्तेरिति ॥ ५८ ॥

नाना शब्दादिभेदात् ॥५८॥

नन्विहैव विद्यानां भेदनिरूपणे प्राक् तदसिद्धेर्गुणोपसंहारचिन्तनमसंगतमित्याशङ्क्याह –

सिद्धं कृत्वेति ।

अधिकरणानारम्भमाशङ्कमानो रूपभेदाद् विद्याभेद इति सदृष्टान्तमाह –

ननु यथेत्यादिना ।

अपूर्वसाधनं पुरुषप्रवृत्तिरपूर्वभावना ।

धात्वर्थेनेति ।

यजेतेत्यादौ प्रत्ययार्थभूतभावनाया धात्वर्थेन यागादिना निरूप्यमाणत्वादित्यर्थः । कार्यरूपाणां साध्यरूपाणाम् । ब्रह्मणः सर्वत्रविद्यास्वभेदादित्यन्वयः । तत्र हेतुर्गुणानां गुणिनश्च ब्रह्मणः सिद्धत्वात् । दुश्च्यवनधर्मा इन्द्रसमानधर्म । यदि वस्तुनिष्ठान्युपासनानि , तर्हि त्वदुक्तमेव दूषणं भवेन्न तु वस्तुनिष्ठानीति शेषः । तद्विषयां वस्तुविषयाम् । उपासनाभावनां उपासनानुष्ठानम् ।

उपासकप्रवृत्तेरुपासनाधीननिरूपणत्वेऽप्यभेदमाशङ्कते –

यद्यपि चेति ।

अस्येश्वरादेः कस्यचिदपि षोडशकलादेः कदाचित्तत्तदुपास्तिसमये केनचित्सत्यकामत्वादिसंयद्वामत्वादिना च रूपेणोपासनविषयभाव इत्यर्थः ।

ननु सत्यकामत्वादिगुणानामुपास्यत्वेन कार्यरूपत्वाच्चकोरेक्षणत्वादिभ्यो वैषम्येऽपि न विद्याभेदकत्वम् ; गुणिन एकत्वाद् , गुणानां चोपसर्जनत्वादत आह –

न च तत्तद्गुणतयेति ।

तृतीयेयमित्थंभावे । तत्तद्गुणवत्त्वरूपेण यान्युपासनानि विहितानि तानि गुणभेदाद् न भिद्यन्ते इति न, अपि तु भिद्यन्त एव ; छत्रचामरादिगुणभेदेन राजोपास्तीनां भेददर्शनादित्यर्थः ।

ननु गुणभेदेऽपि कर्मैक्यवदुपासनैक्यं किं न स्यादत आह –

न चाग्निहोत्रमिवेति ।

इवकारो दृष्टान्ते धर्म्यर्थो , वत्कारो गुणार्थः । अग्निहोत्रे दध्यादिदशद्रव्याणामुत्पन्नशिष्टत्वान्न कर्मभेदकत्वमुपास्तीनां तूत्पत्तिशिष्टगुणभेदाद्भेदः , आमिक्षावाजिनभेदादिव कर्मभेद इत्यर्थः ।

अशक्तेश्च न सर्वोपासनैक्यमित्याह –

न च समस्तेति ।

केचित्खलु गुणा इति । सत्यकामत्वादया दहरविद्यायां शाण्डिल्यविद्यायां च समा इति । एवंरूपभेदात्तदनुरक्तोपासनावच्छिन्ना भावनाभिधायिशब्दभेदाद् गुणानां पौनरुत्तयादशक्तेश्च विद्याभेदो दर्शितः । अन्यदपि पूर्णामसंवर्तिनीं श्रियं लभते सर्वेष्वात्मस्वन्नमत्तीत्यादिफलभेदादिक द्रष्टव्यम् । तदुक्तं सूत्रे –शब्दादिभेदादिति ॥५८॥

इति त्रयस्त्रिंशं शब्दादिभेदाधिकरणम् ॥