भामतीव्याख्या
वेदान्तकल्पतरुः
 

विकल्पोऽविशिष्टफलत्वात् ।

अग्निहोत्रदर्शपूर्णमासादिषु पृथगधिकाराणामपि समुच्चयो दृष्टो नियमवांस्तेषां नित्यत्वादुपासनास्तु काम्यतया न नित्यास्तस्मान्नासां समुच्चयनियमः । तेन समानफलानां दर्शपूर्णमासज्योतिष्टोमादीनामिव न नियमवान्विकल्पः फलभूमार्थिनः समुच्चयस्यापि सम्भवादिति पूर्वः पक्षः । उपासनानाममूषामुपास्यसाक्षात्करणसाध्यत्वात्फलभेदस्यैकेनोपासनेनोपास्यसाक्षात्करणे तत एव फलप्रतिलाभे तु कृतमुपासनान्तरेण । नच साक्षात्करणस्यातिशयसम्भवस्योपायसहस्रैरपि तादवस्थ्यात्तन्मात्रसाध्यत्वाच्च फलावाप्तेः । उपासनान्तराभ्यासे च चित्तैकाग्रताव्याघातेन कस्य चिदुपासनानिष्पत्तेरिह विकल्प एव नियमवानिति राद्धान्तः ॥ ५९ ॥

विकल्पोऽविशिष्टफलत्वात् ॥५९॥ विद्याभेदादिचिन्तानन्तरम् अहंग्रहपतीकाङ्गावबद्धोपास्तीनामनुष्ठानप्रकारोऽधिकरणत्रयेण निरूप्यते ।

अहंग्रहोपास्तीनां यथाकाममनुष्ठानमिति पूर्वपक्षयिष्यन् समुच्चयनियमेन किमिति न पूर्वपक्षः क्रियते ? भिन्नाधिकाराणामपि दर्शादीनां समुच्चयनियमदर्शनादित्याशङ्कते तावत् –

अग्निहोत्रेति ।

पृथगधिकारणामपि समुच्चयो नियमवान् दृष्टः , यथाऽग्निहोत्रदर्शादेरित्यर्थः ।

परिहरति –

तेषां नित्यत्वादित्यादिना ।

यस्याद्धा साक्षात्स्यादुपास्यं न च विचिकित्सा संशयोऽस्ति प्राप्नुयाम् अहं फलं न वेति । तस्य ब्रह्मप्राप्तिर्भवेदित्यर्थः । साक्षात्कारेण अहंग्रहोपास्यदेवो भूत्वा देवानप्येति प्राप्नोति ॥५९॥

इति चतुस्त्रिंशं विकल्पाधिकरणम् ॥