काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ।
यासूपासनासु विनोपास्यसाक्षात्करणमदृष्टेनैव काम्यसाधनं तासां काम्यदर्शपौर्णमासादिवत्पुरुषेच्छावशेन विकल्पसमुच्चयाविति साम्प्रतम् ॥ ६० ॥
काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥६०॥
प्रतीकोपास्तीनामुपास्तित्वादहंग्रहोपास्तिवद्विकल्पनियममाशङ्क्याहंग्रहासु साक्षात्कारसाधनत्वमुपाधिमाह –
यास्त्विति ।
यो वायुं दिशां वत्सं वेद स नित्यमवियुक्तवत्सोपासनान्न पुत्ररोदं पुत्रनिमित्तरोदनं करोति जीवत्पुत्रो भवतीत्यर्थः ॥६०॥