अङ्गेषु यथाश्रयभावः ।
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलमित्यत्रोपसनासु फलश्रुतेः पर्णमयीन्यायेनार्थवादतयोपासनानां क्रत्वर्थत्वेन समुच्चयनियममाशङ्क्य पुरुषार्थतयैकप्रयोगवचनग्रहणाभावे समुच्चयनियमो निरस्तः । इह तु सत्यपि पुरुषार्थत्वे कस्मान्नैकप्रयोगवचनग्रहणं भवतीति पूर्वोक्तमर्थमाक्षिपन् प्रत्यवतिष्ठते । यद्यपि हि काम्या एता उपासनास्तथापि न स्वतन्त्रा भवितुमर्हन्ति । तथा सति हि क्रत्वर्थानाश्रिततया क्रतुप्रयोगाद्बहिरप्यमूषां प्रयोगः प्रसज्यते । नच प्रयुज्यन्ते तत्कस्य होतोः । क्रत्वर्थाश्रितानामेव तासां तत्तत्फलोद्देशेन विधानादिति । एवं चाश्रयतन्त्रत्वादाश्रितानां प्रयोगवचनेनाश्रयाणां समुच्चयनियमेनाश्रितानामपि समुच्चयनियमो युक्त इतरथा तदाश्रितत्वानुपपत्तेः । स च प्रयोगवचन उपासनाः समुच्चिन्वंस्तत्तत्फलकामनानामवश्यम्भावमाक्षिपति तदभावे तासां समुच्चयनियमाभावादिति मन्वानस्य पूर्वः पक्षः । राद्धान्तस्तु यथाविहितोद्दिष्टपदार्थानुरोधी प्रयोगवचनो न पदार्थस्वभावानन्यथयितुमर्हति । किन्तु तदविरोधेनावतिष्ठते । तत्र क्रत्वर्थानां नित्यवदाम्नानात्तथाभावस्य च सम्भवान्नियमेनैतान्त्समुच्चिनोतु । कामावबद्धास्तूपासनाः कामानामनित्यत्वान्न समुच्चयेन नियन्तुमर्हति । नहि कामा विधीयन्ते येन समुच्चीयेरन्नपि तूद्दिश्यन्ते । मानान्तरानुसारी चोद्देशो न तद्विरोधेनोद्देश्यमन्यथयती । तथा सत्युद्देशानुपपत्तेः । तस्मात्कामानामनित्यत्वात्तदवबद्धानामुपासनानामप्यनित्यत्वम् । नित्यानित्यसंयोगविरोधात्सत्यपि तदाश्रयाणां नित्यत्वे इदमेव चाश्रयतन्त्रत्वमाश्रितानां यदाश्रये सत्येव वृत्तिर्नासतीति । न तु तत्र वृत्तिरेव नावृत्तिरिति तदिदमुक्तमाश्रयतन्त्राण्यपि हीति ॥ ६१ ॥
शिष्टेश्च ॥ ६२ ॥
समाहारात् । होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरतीति ।
अपिर्भिन्नक्रमो दिरुद्गीथमपीति । वेदान्तरोदितप्रणवोद्गीथैकत्वप्रत्ययसामर्थ्याद्धोतृकर्मणः शंसनादुद्गाता प्रतिसमादधाति किं तदित्यत आह दुरुद्गीथमपि वेदान्तरोदिते चौद्गात्रे कर्मणि उत्पन्नं क्षतम् । एवं ब्रुवन्वेदान्तरोदितस्य प्रत्ययस्येत्यादि योजनीयम् ॥ ६३ ॥
गुणसाधारण्यश्रुतेश्च ।
अस्य सूत्रस्यान्वयमुखेन व्यतिरेकमुखेन च व्याख्या । शेषमतिरोहितार्थम् ॥ ६४ ॥
न वा तत्सहभावाश्रुतेः ॥ ६५ ॥
दर्शनाच्च ॥ ६६ ॥
अङ्गेषु यथाश्रयभावः ॥६१॥
ननु तन्निर्धारणानियम (व्या.सू.अ.३ पा.३ सू.४२) इत्यत्राङ्गावबद्धोपासनानां पृथक् फलत्वादनित्यत्वमुक्तं , तत्कथमिदानीमाश्रयवन्नित्यतया शङ्क्यते ? अत आह –
उपासनास्वित्यादिना ।
नन्वङ्गं प्रयुङ्क्ते प्रयोगविधिः , काम्यफलसाधनत्वे चोपास्तीनामनङ्गत्वात् कथं तासां प्रयोगवचनपरिग्रहस्तत्राह –
यद्यपि काम्य इति ।
तत्तत्फलोद्देशेनेति ।
काम्यमानफलोद्देशेनेत्यर्थः ।
ननु क्रत्वर्थाश्रिता उपासनाः फले विधीयन्ते , एतावता कथं तासां समुच्चयसिद्धिरत आह –
एवं चेति ।
साङ्गं प्रधानं युगपत्कर्तव्यमित्याश्रयाणां क्रत्वङ्गानां समुच्चयनियमः प्रयोगवचनेन कृतः । तन्नियमेनाश्रितानामप्युपासनानां समुच्चयनियमो युक्तः । कुतः ? आश्रयतन्त्रत्वादाश्रितानामिति योजना ।
ननु फलकामनायां सत्यामुपासना अनुष्ठीयन्ते , कथमासां क्रत्वङ्गैः सह नित्यं समुच्चित्यानुष्ठानम् ? नित्याऽनित्यसंयोगविरोधाद् , अत आह –
स च प्रयोगवचन इति ।
उपास्तीनां क्रत्वङ्गसमुच्चयसिद्ध्यर्थं फलकामना अपि प्रयोगविधिरेवानुष्ठापयतीत्यर्थः । कामनाया अविधेयत्वान्न प्रयोगविधिप्रयोज्यत्वमिति वक्ष्यमाणमभिप्रेत्य मन्वानस्येत्युक्तम् ।
प्रयोगविधिः फलकामनानामवश्यं भावमाक्षिपतीत्येतद्दूषयति –
यथाविहितेति ।
यः पदार्थो यथा विहितः यश्च पदार्थो यथोद्दिष्टः सिद्धवद्गृहीतः तदनुरोधी प्रयोगवचनो न पदार्थस्वभावं नित्यत्वादिकमन्यथा करोति , कित्वन्यतः प्रमितपदार्थस्वभावमनुसरतीत्यर्थः ।
ततः किं जातमत आह –
तत्रेति ।
क्रत्वर्थानामुद्गीथादीनां यथाऽन्यन्नित्यं फलं परामर्शमन्तरेणाम्नायते , तद्वदाम्नानादित्यर्थः ।
ननु विश्वजिदादौ फलाश्रवणेऽपि फलं कल्प्यते , तद्वदिह किं न स्यादत आह –
तथाभावस्य चेति ।
फलवत्संनिधावाम्नातत्वेन फलकल्पनानुपपत्तेस्थथाभावस्य संभवादेतानुद्गीथादीन्नियमेन समुच्चिनोतु प्रयोगवचन इत्यर्थः । ननु विध्युपाधित्वादुद्देशोऽपि समुच्चयेन प्रवर्ततां ।
नेत्याह –
मानान्तरानुसारीति ।
सिद्धवद्ब्रह्मणं ह्युद्देशस्य लक्षणं , मानान्तराप्रमितावुद्देश्यत्वव्याघात इत्यर्थः ।
उपसंहरति –
तस्मात्कामानामिति ।
सत्यप्युपासनाश्रयाणां नित्यत्वे उपासनानां कामावबद्धानामनित्यत्वमिति प्रतिज्ञा । अस्यां हेतुः - नित्यानित्यसंयोगविरोधादिति । उद्गीथादीनां हि नित्यः क्रतुसंयोगः , उपासनानामनित्यः फलसंयोगः । एतौ चेतरेतरविरुद्धौ , उद्गीथादीनां च नित्यत्वानित्यत्वे इतरेतरविरुद्धौ धर्मावापादयत इत्यर्थः ।
नन्वाश्रयतन्त्रत्वादाश्रितोपासननित्यत्वमुक्तं , ततश्च समुच्चयनियमे उपास्तीनां प्रयोगविध्याक्षिप्ते तदर्थं कामानां नित्यत्वमप्याक्षेप्यमिति , तत्राह –
इदमेव चेति ।
यथा धूमस्याग्नितन्त्रत्वेऽपि न यावदग्न्यनुवृत्तिः , किंतु सत्येवाग्नौ भवनमेवं सत्येवाश्रये भवनं तत्तन्त्रता , इतश्चानित्यानामप्याश्रयतन्त्रत्वोपपत्तेर्न तत्सिद्ध्यर्थं कामानां नित्यत्वं प्रयोगविधिनाऽऽक्षेप्यमित्यर्थः ॥६१॥६२॥
एवमधिकरणस्यार्थमुक्त्वा ग्रन्थसंयोजनां करोति –
अपिर्भिन्नक्रम इत्यादिना ।
भिन्नक्रमत्वमभिनयेन दर्शयति –
दुरुद्गीथमपीति ।
एवं हि योजिते यथा प्रशंसाधिक्यं लभ्यते , न तथा होतृषदनादपीति योजित इति वेदान्तरोदितं प्रणवः स्ववेदे चोद्गीथं तयोरेकत्वज्ञानमथ खलु य उद्गीथः स प्रणवः यः प्रणवः स उद्गीथः इत्युपासनं , तत्सामर्थ्यादुद्गाता स्वकर्मण्यद्गातृवत्क्षतं स्वरादिप्रमादरूपं जातं , तद्धोतृकृतसम्यक् शस्त्रशंसनं हेतुं कृत्वा समादधाति ऋग्वेदादिव्यापिनः प्रणवस्य स्ववेदगतोद्गीथस्य चैकत्वस्य तेन चिन्तितत्वादित्येतमर्थं होतृषदनाद्धैवापीत्यादिश्रुतेर्दर्शयति –
वेदान्तरोदितेत्यादिना ।
दुरुद्गीथमेव व्याचष्टे वेदान्तरोदिते चेति । ऋग्वेदापेक्षया सामवेदो वेदान्तरम् ।
एवं वाक्यं योजयित्वा तस्मिन् समुच्चयलिङ्गदर्शनत्वघटकं भाष्यमवतारयति –
एवं ब्रुवन्निति ।
अन्वयमुखेनेति ।
आश्रयसाधारण्ये आश्रितसाधारण्यमन्वयः , स आश्रयसाधारण्याभावे आश्रितसाधारण्याभावरूपव्यतिरेकव्याख्यया भाष्ये दृढीकृत इत्यर्थः । चमसं चोन्नीयोद्धृत्य स्तोत्रकरणार्थमुपाकरोति प्रैषति ।
एवं विदिति ।
ऋग्वेदादिविहिताङ्गलोपे व्याहृतिहोमप्रायश्चित्तादिज्ञत्वं ब्रह्मण एवंवित्त्वम् ॥६३॥६४॥६५॥६६॥