भामतीव्याख्या
वेदान्तकल्पतरुः
 

पुरुषार्थोऽतः शब्दादिति बादरायणः ।

स्थितं कृत्वोपनिषदामपवर्गाख्यपुरुषार्थसाधनात्मज्ञानपरत्वमुपासनानां च तत्तत्पुरुषार्थसाधनत्वमधस्तनं विचारजातमभिनिर्वर्तितम् । सम्प्रति तु किमौपनिषदात्मतत्त्वज्ञानमपवर्गसाधनतया पुरुषार्थमाहो क्रतुप्रयोगापेक्षितकर्तृप्रतिपादकतया क्रत्वर्थमिति मीमांसामहे । यदा च क्रत्वर्थं तदा यावन्मात्रं क्रतुप्रयोगविधिनापेक्षितं कर्तृत्वमामुष्मिकफलोपभोक्तृत्वं च न चैतदनित्यत्वे घटते कृतविप्रणाशाकृताभ्यागमप्रसङ्गादतो नित्यत्वमपि, तावन्मात्रमुपनिषत्सु विवक्षितम् । इतोऽन्यदनपेक्षितं विपरीतं च नोपनिषदर्थः स्यात् । यथा शुद्धत्वादि । यद्यपि जीवानुवादेन तस्य ब्रह्मत्वप्रतिपादनपरत्वमुपनिषदामिति महता प्रबन्धेन तत्र तत्र प्रतिपादितं तथाप्यत्र केषाञ्चित्पूर्वपक्षशङ्काबीजानां निराकरणे तदेव स्थूणानिखननन्यायेन निश्चलीक्रियत इत्यप्यस्ति विचारप्रयोजनम् । तत्र यद्यपि प्रोक्षणादिवदात्मज्ञानं न कञ्चित्क्रतुमारभ्याधीतम् , यद्यपि च कर्तृमात्रं नाव्यभिचारितक्रतुसम्बन्धं कर्तृमात्रस्य लौकिकेष्वपि कर्मसु दर्शनाद्येन पर्णतादिवदनारभ्याधीतमप्यव्यभिचरितक्रतुसम्बन्धजुहूद्वारेण वाक्येनैव क्रत्वर्थमापद्यते तथापि यादृश आत्मा कर्तामुष्मिकस्वर्गादिफलभोगभागीदेहाद्यतिरिक्तो वेदान्तैः प्रतिपाद्यते न तादृशस्यास्ति लौकिकेषु कर्मसूपयोगः । तेषामैहिकफलानां शरीरानतिरिक्तेनापि यादृशतादृशेन कर्त्रोपपत्तेः । आमुष्मिकफलानां तु वैदिकानां कर्मणां तमन्तरेणासम्भवात्तत्सम्बन्ध एवायमौपनिषदः कर्तेति तदव्यभिचारात्तान्यनुस्मारयज्जुह्वादिवद्वाक्येनैव तज्ज्ञानं पर्णतावत्क्रत्वैदमर्थ्यमापद्यत इति फलश्रुतिरर्थवादः । तदुक्तम् “द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्”(जै.सू. ४-३-१) इति औपनिषदात्मज्ञानसंस्कृतो हि कर्ता पारलौकिकफलोपभोगयोग्योऽस्मीति विद्यावाञ्छ्रद्धावान्क्रतुप्रयोगाङ्गं नान्यथा प्रोक्षिता इव व्रीहयः क्रत्वङ्गमिति । प्रियादिसूचितस्य च संसारिण एवात्मनो द्रष्टव्यत्वेन प्रतिज्ञापनादपहतपाप्मत्वादि तु तद्विशेषणं तस्यैव स्तुत्यर्थम् । न तु तत्परत्वमुपनिषदाम् । तस्मात्क्रत्वर्थमेवात्मज्ञानं कर्तृसंस्कारद्वारा न पुनः पुरुषार्थमिति । एतदुपोद्बलनार्थं च ब्रह्मविदामाचारादिः श्रुत्यवगत उपन्यस्तः । न केवलं वाक्यादात्मज्ञानस्य क्रत्वर्थत्वम् । तृतीयाश्रुतेश्च । न त्वेतत्प्रकृतोद्गीथविद्याविषयं यदेव विद्ययेति सर्वनामावधारणाभ्यां व्याप्तेरधिगमत् । यथा य एव धूमवान्देशः स वह्निमानिति । समन्वारम्भवचनं च फलारम्भे विद्याकर्मणोः साहित्यं दर्शयति । तच्च यद्यप्याग्नेयादियागषट्कवत्समप्रधानत्वेनापि भवति तथाप्युक्तया युक्त्या विद्यायाः कर्म प्रत्यङ्गभावेनैव नेतव्यम् । वेदार्थज्ञानवतः कर्मविधानादुपनिषदोऽपि वेदार्थ इति तज्ज्ञानमपि कर्माङ्गमिति ॥ १ ॥

शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥ २ ॥

आचारदर्शनात् ॥ ३ ॥

तच्छ्रुतेः ॥ ४ ॥

समन्वारम्भणात् ॥ ५ ॥

तद्वतो विधानात् ॥ ६ ॥

नियमाच्च ।

सुगमम् ॥ ७ ॥

सिद्धान्तयति –

अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ।

यदि शरीराद्यतिरिक्तः कर्ता भोक्तात्मेत्येतन्मात्र उपनिषदः पर्यवसिताः स्युस्ततः स्यादेवं, न त्वेतदस्ति । तास्त्वेवंभूतजीवानुवादेन तस्य शुद्धबुद्धोदासीनब्रह्मरूपताप्रतिपादनपरा इति तत्र तत्रासकृदावेदितम् । अनधिगतार्थबोधनस्वरसता हि शब्दस्य प्रमाणान्तरसिद्धानुवादेन । तथा चौपनिषदात्मज्ञानस्य क्रत्वनुष्ठानविरोधिनः क्रतुसम्बन्ध एव नास्ति । किमङ्ग पुनः तदव्यभिचारस्ततश्च क्रतुशेषता । तथाच नापवर्गफलश्रुतेरर्थवादमात्रत्वमपि तु फलपरत्वमेव । अत एव प्रियादिसूचितेन संसारिणात्मनोपक्रम्य तस्यैवात्मनोऽधिकोपदिदीक्षायां परमात्मनात्यन्ताभेद उपदिश्यते । यथा समारोपितस्य भुजंगस्य रज्जुरूपादत्यन्ताभेदः प्रतिपाद्यते योऽयं सर्पः सा रज्जुरिति । यथा विद्यायाः कर्माङ्गत्वे दर्शनमुपन्यस्तमेवमकर्माङ्गत्वे दर्शनमुक्तम् । तत्र कर्माङ्गत्वदर्शनानामन्यथासिद्धिरुक्ता केवलविद्यादर्शनानां तु नान्यथासिद्धिः ॥ ८ ॥

तुल्यं तु दर्शनम् ॥ ९ ॥

असार्वत्रिकी ।

व्याप्तिरप्युद्गीथविद्यापेक्षया तस्या एव प्रकृतत्वान्न त्वशेषापेक्षया । यथा सर्वे ब्राह्मणा भोज्यन्तामिति निमन्त्रितापेक्षया तेषामेव प्रकृतत्वात् ॥ १० ॥

विभागः शतवत् ।

सुगमम् ।

अविभागेऽपि न दोष इत्याह –

न चेदं समन्वारम्भवचनमिति ।

संसारिविषया विद्याविहितायथोद्गीथविद्या । प्रतिषिद्धा च यथासच्छास्त्राधिगमनलक्षणा ॥ ११ ॥

अध्ययनमात्रवतः ।

अध्ययनमात्रवत एव कर्मविधिर्नतूपनिषदध्ययनवतः । एतदुक्तं भवति - यदध्ययनमर्थावबोधपर्यन्तं कर्मसूपयुज्यते यथा कर्मविधिवाक्यानां तन्मात्रवत एवाधिकारः कर्मसु नोपनिषदध्यनवतः तदध्ययनस्य कर्मस्वनुपयोगादिति ।

अध्ययनमात्रवत एवेति मात्रग्रहणेनार्थज्ञानं वा व्यवच्छिन्नमिति मन्वानो भ्रान्तश्चोदयति - –

नन्वेवं सतीति ।

स्वाभिप्रायमुद्घाटयन्समाधत्ते –

न वयमिति ।

उपनिषदध्ययनापेक्षं मात्रग्रहणं नार्थबोधापेक्षमित्यर्थः ॥ १२ ॥

नाविशेषात् ।

कुर्वन्नेवेह कर्माणीत्यविद्यावद्विषयमित्यर्थः ॥ १३ ॥

विद्यावद्विषयत्वेऽप्यविरोधो विद्यास्तुत्यर्थत्वादित्याह –

स्तुतयेऽनुमतिर्वा ॥ १४ ॥

अपिच विद्याफलं प्रत्यक्षं दर्शयन्ती श्रुतिः कालान्तरभाविफलकर्माङ्गत्वं विद्याया निराकरोतीत्याह –

कामकारेण चैके ।

कामकार इच्छा ॥ १५ ॥

उपमर्दं च ।

अधिकोपदेशादित्यनेनात्मन एव शुद्धबुद्धोदासीनत्वादय उक्ताः । इह तु समस्तक्रियाकारकफलविभागोपमर्दं चेति ॥ १६ ॥

ऊर्ध्वरेतःसु च शब्दे हि ।

सुबोधम् ॥ १७ ॥

पुरुषार्थोऽतः शब्दादिति बादरायणः ॥१॥ पूर्वं परापरब्रह्मविद्यानां गुणोपसंहारनिरूपणेन परिमाणमवधारितम्, इह तासां कर्मनिरपेक्षाणामेव पुरुषार्थसाधनत्वं निरूप्यते । तत्र कर्मानपेक्षाणाममूषां का नु नामेतिकर्तव्यता, न हि तामन्तरेण करणत्वम्, इत्याकाङ्क्षायां यज्ञादयः शमादयः श्रवणादयश्च विद्योत्पत्त्युपयोगिन्य इतिकर्तव्यताश्च निरूप्यन्ते ।

ननु फलभेदाभेदावन्तरेण न विद्याभेदाभेदौ, न च तावन्तरेण गुणोपसंहारानुपसंहारौ, ततः प्रागेव विद्यानां पुरुषार्थसाधनत्वस्य सिद्धत्वात् किं पुनरारम्भेणात आह –

स्थितं कृत्वेति ।

फलभेदेन हि विद्याभेदम् उपपाद्य तदसिद्धिशङ्कायां स उपपादनीय इत्यर्थः । अत एव सङ्गतिश्चापरा दर्शिता ।औपनिषदात्मज्ञानस्याक्रत्वर्थत्वे पूर्वपक्षसिद्धान्तयोः फले उक्ते ते तूपलक्षणे । उपासनावाक्यानां पूर्वपक्षे कर्मापेक्षितकर्तृस्तावकत्वं सिद्धान्ते तु सगुणैश्वर्यफलोपासनाविधायकत्वमित्यपि द्रष्टव्यम् ।

ननूपनिषत्सु कर्तृभोक्तृत्वातिरिक्तमपि ब्रह्मात्मत्वमात्मन उपदिश्यते, तद्विषयज्ञानस्य कथं कर्मोपयोगस्तत्राह –

यदा चेत्यादिना ।

यावन्मात्रं क्रत्वपेक्षितं कर्तृत्वमामुष्मिकफलोपभोक्तृत्वं चेत्यस्यातो नित्यत्वमपीत्यनेन संबोध्यमानस्य तावन्मात्रमुपनिषत्सु विवक्षितमित्युपरितनेनान्वयः ।

ननु कर्तृत्वभोक्तृत्वे देहस्यापि घटेते, अतो न नित्यत्वापेक्षा, नतरां देहव्यतिरिक्तात्मज्ञानापेक्षाऽत आह –

न चैतदिति ।

केषांचित्पूर्वपक्षशङ्काबीजानाम्, इत्युक्तं, तान्येवाह –

तत्र यद्यपीत्यादिना ।

तत्र सिद्धान्ती यद्वदति न प्रकरणादात्मज्ञानं कर्माङ्गमिति, तदनुवदति –

प्रोक्षणादिवदिति ।

यच्च न वाक्यादात्मज्ञानं क्रत्वङ्गमिति वदति; तदप्यनुवदति –

यद्यपि च कर्तृमात्रमिति ।

येन कर्तृमात्रेणात्मज्ञानमव्यभिचरितक्रतुसंबन्धजुहूद्वारेण पर्णतावद्वाक्येनेव क्रतुसंबन्धमापद्येत, तत्कर्तृमात्रं नाव्यभिचरितक्रतुसंबन्धमिति योजना ।

एवं सिद्धान्त्यभिप्रायमनूद्य पूर्ववादी दूषयति –

तथापीति ।

देहातिरिक्तस्यात्मनो वैदिकैः कर्मभिरव्यभिचारसिद्ध्यर्थं लौकिककर्मस्वनुपयोगमाह –

न तादृशस्येति ।

वैदिकैः कर्मभिस्तस्य हेतुत्वेन सबन्धमाह –

आमुष्मिकफलानां त्विति ।

यथा धूमोऽग्निमव्यभिचारादनुस्मारयति, एवमौपनिषदः पुरुषोऽपि कर्मभिरव्यभिचारात्तान्यनुसारयन् वर्तत इत्यर्थः ।यद्यपि हेतौ सति कार्यं भवत्येवेति न व्याप्तिः; तथापि व्यतिरिक्त आत्मनि ज्ञाते पारलौकिकसाधनेच्छादिरूपा काऽपि प्रवृत्तिर्भवत्येवेति ।

व्याप्यव्यतिरेकविज्ञानमनुस्मारितेषु च देहातिरिक्तात्मनां कर्मस्वात्मा द्रष्टव्य इति वाक्येनात्मज्ञानं क्रतुशेषत्वं नीयत इत्याह –

वाक्येनैवेति ।

ननु फलवतो ज्ञानस्य कथं क्रत्वर्थत्वमत आह –

अर्थवाद इति ।

आत्मज्ञानफलश्रुतिर्न फलपरा परार्थफलश्रुतित्वाद् अञ्जनादिफलश्रुतिवदित्यनुमानम् ।

अदृष्टद्वारेणात्मज्ञानस्य कर्माङ्गत्वमाह –

औपनिषदात्मज्ञानेति ।

आचाराद्यन्यार्थदर्शनं प्रापकसापेक्षत्वान्न स्वतन्त्रमित्याह –

एतदुपोद्बलनार्थमिति ।

तच्छ्रुतेरित्यादीनि सूत्राणि लिङ्गपराणि व्याचष्टे –

न केवलमित्यादिना ।

विद्यायाः कर्मभिः सह कर्त्रनुगमस्य समप्राधान्येऽपि संभवात् प्रकृतकर्मशेषत्वप्रतिज्ञया सहासंगतिमाशङ्क्याह –

तच्च यद्यपीति ।

उक्तया युक्तयेति ।

आत्मज्ञानस्य दृष्टाऽदृष्टद्वारेण कर्मसूपयोगेनेत्यर्थः ।

शुद्धबुद्धाद्येव वेदान्तप्रतिपाद्यं, न कर्तृत्वादीत्यत्र विनिगमकमाह –

अनधिगतार्थेति ।

शब्दस्य प्रमाणान्तरसिद्धानुवादेनानधिगतार्थबोधनस्वरसता हि प्रसिद्धेति योजना ।

परार्थे फलश्रुतित्वादिति पूर्वोक्तहेतोर्विशेषणासिद्धिमाह –

तथा चौपनिषदात्मज्ञानस्येति ।

तदव्यभिचारस्तु ततश्च क्रतुशेषतेति यदेतत्पुनः, किमङ्ग स्याद्? न स्यादेवेत्यर्थः ।

यदि परमात्मतत्त्वमेवोपनिषदामर्थः, तर्हि प्रियादिसंसूचितजीवस्य द्रष्टव्यत्वं किमित्युपदिश्यते? अत आह –

अत एवेति ।

भोक्तृर्द्रष्टृत्वव्यपदेशेनासंसारिब्रह्मणा दर्शनार्हेण तस्यात्यन्ताभेदः प्रतिपाद्यते, तथा च व्याख्यातमवस्थितेरिति काशकृत्स्न(ब्र.सु.अ १ पा.४ सू.२२) इत्यत्र ॥८॥ एवं तावद् - ब्रह्मज्ञानं न कर्माङ्गं फलवत्त्वात् ज्योतिष्टोमवदिति प्रतिपाद्यवाक्यकृतकर्मसंबन्धो वारितः, आचारादिलिङ्गदर्शनानां प्रतिलिङ्गमुपन्यस्तम् ।

तुल्यं तु दर्शनमिति, तत्र तु शब्देनाकर्माङ्गत्वलिङ्गदर्शनस्य प्राबल्यं विशेष उक्तस्तद्दर्शयति –

तत्र कर्माङ्गत्वेति ।

अन्यथासिद्धिरुक्तेति ।

यक्षमाणो ह वै भगवन्तोऽहमस्मि इत्येतल्लिङ्गदर्शनं वैश्वानरविद्याविषयमित्यादिभाष्येणेति शेषः ।

‘‘यदेव विद्यया करोती’’ति श्रुत्या विद्यायाः कर्माङ्गत्वमाशङ्कितं पूर्वपक्षे, तस्या अप्युद्गीथविद्याविषयत्वेनान्यथासिद्धिरुक्ता असार्वत्रिकीति सूत्रेण, तत्रास्याः श्रुतेः सर्वविषयत्वशङ्कां परोक्तां परिहरति –

व्याप्तिरपीति ।

असंसार्यात्मप्रतिपादनस्य सूत्रद्वयेऽप्यविशेषात्पुनरुक्तिमाशङ्क्याह – अधिकोपदेशादित्यनेनेति ॥ वैदेहो विदेहदेशानां राजा बहुदक्षिणेन विश्वजिदादिना ईजे इष्टवान् । हे भगवन्तो यक्ष्यमाणो यागं करिष्यन् अस्मि तं द्रष्टुं वसन्तु भगवन्त इति वैश्वानरविद्यां ग्रहीतुमागतानुद्दालकादीन् प्रति अश्वपतिराजवचनम् । गुरोः कर्मातिशेषेण गुरुशुश्रूषावशिष्टेन कालेन यथाविधि वेदमधीत्याचार्यकुलादभिसमावृत्य कुटुम्बे गार्हस्थ्ये तिष्ठन् वेदमधीयानो ब्रह्मलोकमाप्नोतीति शेषः । शतं समाः यावदायुर्जिजीविषेत् जीवितुमिच्छेत्, तत्कुर्वन्नेव कर्माणि वर्तेत । एवं वर्तमाने त्वयि नरे नराभिमानिनि अज्ञे कर्माशुभं न लिप्यते कर्मणा त्वं न लिप्यस इत्यर्थः । इतः प्रकारादन्यथा प्रकारान्तरं नास्ति यतो न कर्मलेपः स्यादित्यर्थः । येषां नायमपरोक्ष आत्मा अयं लोकः प्रत्यक्षफलं ते वयं किं प्रजया करिष्याम इति निश्चित्याग्निहोत्रं न जुहवांचक्रुरित्यर्थः ॥९॥१०॥११॥१२॥१३॥१४॥१५॥१६॥१७॥

इति प्रथमं पुरुषार्थाधिकरणम् ॥