भामतीव्याख्या
वेदान्तकल्पतरुः
 

पारिप्लवार्था इति चेन्न विशेषितत्वात् ।

यद्यपि उपनिषदाख्यानानि विद्यासंनिधौ श्रुतानि तथापि “सर्वाण्याख्यानानि पारिप्लवे” इति सर्वश्रुत्या निःशेषार्थतया दुर्बलस्य संनिधेर्बाधितत्वात्पारिप्लवार्थान्येवाख्यानानि । नच सर्वा दाशतयीरनुब्रूयादिति विनियोगेऽपि दाशतयीनां प्रातिस्विकविनियोगात्तत्र तत्र कर्मणि यथा विनियोगो न विरुध्यते तथेहापि सत्यपि पारिप्लवे विनियेगे संनिधानाद्विद्याङ्गत्वमपि भविष्यतीति वाच्यम् । दाशतयीषु प्रातिस्विकानां विनियोगानां समुदायविनियोगस्य च तुल्यबलत्वादिह तु संनिधानात्श्रुतेर्बलीयस्त्वात् । तस्मात्पारिप्लवार्थान्येवाख्यानानीति प्राप्त उच्यते - नैषामाख्यानानां पारिप्लवे विनियोगः । किन्तु पारिप्लवमाचक्षीतेत्युपक्रम्य यान्याम्नातानि मनुर्वैवस्वतो राजेत्यादीनि तेषामेव तत्र विनियोगः, तान्येव हि पारिप्लवेन विशेषितानि । इतरथा पारिप्लवे सर्वाण्याख्यानानित्येतावतैव गतत्वात्पारिप्लवमाचक्षीतेत्यनर्थकं स्यात् । आख्यानविशेषणत्वे त्वर्थवत् । तस्माद्विशेषाणानुरोधात्सर्वशब्दस्तदपेक्षो न त्वशेषवचनः । यथा सर्वे ब्राह्मणा भोजयितव्या इत्यत्र निमन्त्रितापेक्षः सर्वशब्दः । तथा चोपनिषदाख्यानानां विद्यासंनिधिरप्रतिद्वन्दीं विद्यैकवाक्यतां सोऽरोदीदित्यादीनामिव विद्येकवाक्यत्वं गमयतीति सिद्धम् । प्रतिपत्तिसौकर्याच्चेत्युपाख्यानेन हि बाला अप्यवधीयन्ते यथा तन्त्रोपाख्यायिकयेति ॥ २३ ॥

तथा चैकवाक्यतोपबन्धात् ॥ २४ ॥

पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥२३॥ पूर्वत्रोद्गीथादिस्तुत्यर्थत्वादुपास्यविषयसमर्पकत्वं रसतमत्वादेर्ज्याय इत्युक्तम्, तर्ह्याख्यानानामपि विद्यास्तुत्यर्थत्वात् सकाशात्परिप्लवप्रयोगशेषत्वं ज्यायोऽनुष्ठानपर्यवसानसंभवादिति संगतिः ।

ननु ‘‘यस्याश्विने शस्यमाने सूर्यो नाभ्युदियादपि सर्वा दाशतयीरनुब्रूयादि’’ति सर्वासामृचामाश्विनग्रहशंसने सर्वश्रुत्या विनियुक्तानामपि प्रातिस्विकार्थेषु विनियोगादाख्यानानां पारिप्लवे विद्यायां च विनियोगः किं न स्यादत आह –

न च सर्वा इति ।

ऐन्ध्रा गार्हपत्यमिति प्रातिस्विकविनियोगानां सर्वा दाशतयीरिति समुदायविनियोगस्य च श्रौतत्वेन तुल्यत्वात् प्रातिस्विकविनियोगं सहते सर्वशब्दः, क्वचित्समानस्य सकृत्प्रवृत्तस्य प्रातिस्विकविनियोगस्यावकुण्ठनाभावाल्लिङ्गादिभिर्मन्त्रविनियोगाविघातकत्वमित्यर्थः ।

अश्वमेधे हि प्रथमेऽहनि मनुर्वैवस्वतो राजेत्याह द्वितीयेऽहनि यमो वैवस्वतो राजेत्याह तृतीयेऽहनि वरुण आदित्य इत्याद्याख्यानविशेषो वाक्यशेषे विनियुज्यते, तद्बलादुपक्रमस्य संकोचमाह –

नैषामिति ।

ननूपक्रमे ‘‘सर्वं शंसती’’त्यभिधाय पुनः ‘‘पारिप्लवमाचक्षीते’’ति उपसंहारगतेर्विशेषः सर्वशब्दानुसारेण उपलक्षणार्थत्वेन व्याख्यायातामत आह –

इतरथेति ।

प्रथमं ‘‘सर्वाण्याख्यानानि पारिप्लवे शंसन्ती’’त्यभिधाय पुनः ‘‘पारिप्लवमाचक्षीतेति’’ विधाय ततो मनुर्वैवस्वत इत्यादि पठ्यते, तत्र पुनर्विधानं वाक्यशेषगताख्याननियमार्थमितरथा वैयर्थ्यात्सर्वशब्दोऽपि वाक्यशेषगताख्यानानामपि मध्य एकद्व्याद्यभिधायोपरमं व्यावर्तयितुमिति तस्यार्थवत्ता ।

अत्र पुनर्विधिश्रुत्याऽवच्छेदिकया सर्वश्रुतौ भग्नदर्पायां निर्भयः सन्निधिर्विद्यास्वेवौपनिषदाख्यानानि विनियुञ्जीतेत्याह –

तथा चेति ।

अनेन द्वितीयं सूत्रं योजितम् । सोऽरोदीदित्यादीनां विध्येकवाक्यतां यथा विधिसन्निधिरवगमयेदेवमाख्यानानां विद्यासन्निधिर्विद्यैकवाक्यतां गमयतीति योजना । अवधीयन्त इति कर्मकर्तरि । तन्रोपाख्यायिका कथापरो ग्रन्थः ॥२३॥२४॥

इति चतुर्थं पारिप्लवाधिकरणम् ॥