भामतीव्याख्या
वेदान्तकल्पतरुः
 

अत एव चाग्नीन्धनाद्यनपेक्षा ।

विद्यायाः क्रत्वर्थत्वे सति तथा क्रतूपकरणाय स्वकार्याय क्रतुरपेक्षितः । तदभावे कस्योपकारो विद्ययेति । यदा तु पुरुषार्था तदा नानया क्रतुरपेक्षितः स्वकार्ये निरपेक्षाया एव तस्याः सामर्थ्यात् ।

अग्नीन्धानादिना चाश्रमकर्माण्युपलक्ष्यन्ते तदाहअग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीति ।

स्वार्थसिद्धौ नापेक्षितव्यानि न तु स्वसिद्धाविति । एतच्चाधिकमुपरिष्टाद्वक्ष्यते । तद्विवक्षया चैतत्प्रयोजनं पूर्वतनस्याधिकरणस्योक्तम् ॥ २५ ॥

अत एवचाग्नीन्धनाद्यनपेक्षा ॥२५॥ ब्रह्मविद्या मोक्षे कर्माणीतिकर्तव्यतात्वेनापेक्षते । यज्ञेनेति विविदिषायां विनियुक्तयज्ञादीनां विषयसौन्दर्यलभ्यायां तस्यामनन्वयादिच्छाविषयज्ञानसाध्ये मोक्षेऽन्वय इति पूर्वः पक्षः ॥ अस्मिन्पक्षे यज्ञेनेत्यादिकरणविभक्तिबाधः स्यात् । न हि मोक्षसाधनमिच्छासाधनं, भवति तु ज्ञानेच्छाजनकान्तःकरणशुद्धिहेतुत्वेन ज्ञानेच्छाहेतुत्वं साधनसाधनस्यापि साधनत्वानपायात्, काष्ठैः पचतीत्यत्र पाकसाधनज्वालाजनककाष्ठानां पाकहेतुत्वदर्शनादिति सिद्धान्तः ।

अत्र भाष्यमत एव विद्यायाः पुरुषार्थहेतुत्वात्कर्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीति, तदयुक्तम्; न हि पुरुषार्थहेतुत्वं कर्मापेक्षाविरोधि आग्नेयादिष्वदर्शनादतः पुरुषार्थाधिकरणप्रयोजननिरूपकत्वमस्याधिकरणस्य न युक्तम् इत्याशङ्क्य भाष्यं व्याचष्टे –

विद्याया इति ।

विद्यायाः क्रत्वर्थत्वे स्वार्थः क्रतूपकारः ।

तदा चोपक्रियमाणक्रतावसत्युपकारजननायोगात् क्रतुरपेक्षितव्य इत्युक्त्वा मोक्षार्थत्वेऽनपेक्षामाह –

यदा त्विति ।

अविद्यास्तमये मोक्षे नास्ति कर्मापेक्षेति भावः । स्वसिद्धौ नापेक्षितव्यानीति न, अपित्वपेक्षितव्यानीत्यर्थः । अधिकविवक्षयेति भाष्यं व्याचष्टे – एतच्चेति ॥२५॥

इति पञ्चममग्नीन्धनाधिकरणम् ॥