भामतीव्याख्या
वेदान्तकल्पतरुः
 

अन्तरा चापि तु तद्दृष्टेः ।

यदि विद्यासहकारीण्याश्रमकर्माणि हन्त भो विधुरादीनामनाश्रमिणामनधिकारो विद्यायाम् , अभावात्सहकारिणामाश्रमकर्मणामिति प्राप्त उच्यतेनात्यन्तमकर्माणो विधुररैक्ववाचक्रवीप्रभृतयः । सन्ति हि तेषामनाश्रमित्वेऽपि जपोपवासदेवताराधनादीनि कर्माणि । कर्मणां च सहकारित्वमुक्तमाश्रमकर्मणामुपलक्षणत्वादिति न तेषामनधिकारो विद्यासु ।

जन्मान्तरानुष्ठितेरपि चेति ।

न खलु विद्याकार्ये कर्मणामपेक्षा । अपितु उत्पादे । उत्पादयन्ति च विविदिषोपहारेण कर्माणि विद्याम् । उत्पन्नविविदिषाणां पुरुषधौरेयाणां विधुरसंवर्तप्रभृतीनां कृतं कर्मभिः । यद्यपि चेह जन्मनि कर्माण्यननुष्ठितानि तथापि विविदिषातिशयदर्शनात्प्राचि भवेऽनुष्ठितानि तैरिति गम्यत इति ।

ननु यथाधीतवेद एव धर्मजिज्ञासायामधिक्रियते नानधीतवेद इह जन्मनि । तथेह जन्मन्याश्रमकर्मोत्पादितविविदिष एव विद्यायामधिकृतो नेतर इत्यनाश्रमिणामनधिकारो विधुरप्रभृतीनामित्यत आह –

दृष्टार्था चेति ।

अविद्यानिवृत्तिर्विद्याया दृष्टोऽर्थः । स चान्वयव्यतिरेकसिद्धो न नियममपेक्षत इत्यर्थः । प्रतिषेधो विधातस्तस्याभाव इत्यर्थः ॥ ३६ ॥

अपि च स्मर्यते ॥ ३७ ॥

विशेषानुग्रहश्च ॥ ३८ ॥

यद्यनाश्रमिणामप्यधिकारो विद्यायां कृतं तर्ह्याश्रमैरतिबहुलायासैरित्याशङ्क्याह –

अतस्त्वितरज्ज्यायो लिङ्गाच्च ।

स्वस्थेनाश्रमित्वमास्थेयम् । दैवात्पुनः पत्न्यादिवियोगातः सत्यनाश्रमित्वे भवेदधिकारो विद्यायामिति श्रुतिस्मृतिसन्दर्भेण विविदिषन्ति यज्ञेनेत्यादिना ज्यायस्त्वावगतेः श्रुतिलिङ्गात्स्मृतिलिङ्गाच्चावगम्यते । तेनैति पुण्यकृदिति श्रुतिलिङ्गम् , अनाश्रमी न तिष्ठेतेत्यादि च स्मृतिलिङ्गम् ॥ ३९ ॥

अन्तरा चापि तु तद्दृष्टेः ॥३६॥

आश्रमकर्मसापेक्षैव विद्या फलप्रदेति वदन्प्रष्टव्यः किं फले अपेक्षा, उतोत्पत्तौ, नाद्य इत्याह –

न खलु विद्येति ।

द्वितीयमाशङ्क्य परिहरति –

ननु यथेत्यादिना ।

प्रतिषेधाभावमात्रेणाप्यर्थिनमधिकरोतीति भाष्यमयुक्तम्, अप्रतिषिद्धानामपि केषांचिद् विद्योदयादर्शनादत आह –

प्रतिषेधो विधात इति ।

विघातः प्रतिबन्धः, तदभावादनुष्ठितसाधनस्य विद्योत्पद्यत इत्यर्थः । स्मृतौ मैत्र इत्यहिंसको ब्राह्मणः । ततश्च जपमात्रत्तस्य पुरुषार्थसिद्धिरित्यर्थः ॥३६॥३७॥३८॥३९॥

इति नवमं विधुराधिकरणम् ॥