तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः ।
आरोहवत्प्रत्यवरोहोऽपि कदाचिदूर्ध्वरेतसां स्यादिति मन्दाशङ्कानिवारणार्थमिदमधिकरणम् । पूर्वधर्मेषु यागहोमादिषु । रागतो वा गृहस्थोऽहं पत्न्यादिपरिवृतः स्यामिति ।
नियमं व्याचष्टे –
तथाहि अत्यन्तमात्मानमिति ।
अतद्रूपतामारोहतुल्यताभावं व्याचष्टे –
यथाच ब्रह्मचर्यं समाप्येति ।
अभावं शिष्टाचाराभावं विभजते –
न चैवमाचाराः शिष्टा इति ।
अतिरोहितार्थमन्यत् ॥ ४० ॥
तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः ॥४०॥ यदा नाश्रमकर्मापि विद्यासाधनं, तदा आरूढपतितस्य पूर्वाश्रमप्रस्थितस्य कर्म किमु वक्तव्यमिति सङ्गतिः ।
पूर्वकर्मस्वनुष्ठानचिकीर्षयेत्यादिभाष्यं व्याचष्टे –
पूर्वधर्मेष्वित्यादिना ।
अरण्यमिति ।यत्पदमाश्रमस्ततो नैनमियात्पुनस्ततो नेयान्नवर्तेतेत्यर्थः ॥४०॥