यदि नैष्ठिकादीनामस्ति प्रायश्चित्तं तत्किमेतैः कृतनिर्णेजनैः संव्यवहर्तव्यमुत नेति । तत्र दोषकृतत्वादसंव्यवहारस्य प्रायश्चित्तेन तन्निबर्हणादनिबर्हणे वा तत्करणवैयर्थ्यात्संव्यवहार्या एवेति प्राप्त उच्यते –
बहिस्तूभयथापि स्मृतेराचाराच्च ।
निषिद्धकर्मानुष्ठानजन्यमेनो लोकद्वयेऽप्यशुद्धिमापादयति द्वैधं कस्यचिदेनसो लोकद्वयेऽप्यशुद्धिरपनीयते प्रायश्चित्तैरेनोनिबर्हणं कुर्वाणैः । कस्यचित्तु परलोकाशुद्धिमात्रमपनीयते प्रायश्चित्तैरेनोनिबर्हणं कुर्वाणैरिहलोकाशुद्धिस्त्वेनसापादिता न शक्यापनेतुम् । यथा स्त्रीबालादिघातिनाम् । यथाहुः “विशुद्धानपि धर्मतो न सम्पिबेत्” इति । तथा च “प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत्” कामतः कृतमपि । बालघ्नादिस्तु कृतनिर्णेजनोऽपि वचनादव्यवहार्य इह लोके जायत इति । वचनं च बालघ्नांश्चेत्यादि । तस्मात्सर्वमवदातम् ॥ ४३ ॥
बहिस्तूभयथापि स्मृतेराचाराच्च ॥४३॥
उत नेतीति ।
चिन्त्यते इति शेषः ।
सङ्गतिगर्भं पूर्वपक्षमाह –
तत्रेति ।
कृतप्रायश्चित्तानामवकीर्णिनां संव्यवहार्यत्वे तैः सह कृतं श्रवणादिकं विद्यासाधनं न वेति चिन्ताप्रयोजनम् । सर्वपातकमिह परत्र वाऽशुद्धिं जनयति ।
तत्र नैष्ठिकादीनामाश्रमच्युतेर्बहुनिन्दादर्शनात् तज्जन्यपापापूर्वे प्रायश्चित्तेन नुवर्तेतेति; निमित्तनिवृत्तावपि कार्यानुवृत्तेर्बहुलमुपलम्भादित्यभिप्रेत्य सिद्धान्तमाह –
निषिद्धेत्यादिना ।
निषिद्धकर्मत्रितयात्तदनुष्ठानजन्यमेनः पापापूर्वं लोकद्वयेऽप्यशुद्धिं तावदापादयति । तच्च द्वैधिं द्विप्रकारकम् ।
तदेव दर्शयति –
कस्य चिदित्यादिना ।
यत्याद्याश्रमच्युतेरैहलौकिकाशुध्द्यापादकत्वे दृष्टान्तमाह –
यथा स्त्रीबालादिति ।
बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः । शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संपिबेत् ॥ इति मनुवचनम् । न संपिबेत् अन्योन्यं गृहे भोजनादिसंव्यवहारं न कुर्यादित्यर्थः । मनुवचनव्याख्यानरूपं याज्ञवल्कीयवचनम् - प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् । कामतोऽव्यवहार्यस्तु वचनादिह जायते । इति ।
तत्राव्यवहार्य इत्यकारप्रश्लेषं कृत्वा व्याख्यायोदाहरति –
तथा चेति ।
अज्ञानकृतं यदेनो भवेद्यच्च कामतः कृतं तदुभयं प्रायश्चित्तैरपैतीत्येवमर्थतया व्याचष्टे –
कामतः कृतमपीति ।
कामतः कृतब्रह्मवधादिग्रहणं बालवधाद्युपलक्षणार्थं मत्वा श्लोकशेषं व्याचष्टे –
बालघ्नादिस्त्विति ।
वचनादित्युक्तं, किं तदित्यत आह – वचनमिति ॥४३॥