भामतीव्याख्या
वेदान्तकल्पतरुः
 

स्वामिनः फलश्रुतेरित्यात्रेयः ।

प्रथमे काण्डे शेषलक्षणे तथाकाम इत्यत्रर्त्विक्सम्बन्धे कर्मणः सिद्धे किं कामो याजमान उतार्त्विज्य इति संशय्यार्त्विज्येऽपि कर्मणि याजमान एव कामो गुणफलेष्विति निर्णीतमिह त्वेवंजातीयकानि चाङ्गसम्बद्धानि उपासनानि किं याजमानान्येवोतार्त्विज्यानीति विचार्यत इति न पुनरुक्तम् । तत्रोपासकानां फलश्रवणादनधिकारिणस्तदनुपपत्तेर्यजमानस्य च कर्मजनितफलोपभोगभाजोऽधिकारादृत्विजां च तदनुपपत्तेर्वचनाच्च राजाज्ञास्थानीयात्क्वचिदृत्विजां फलश्रुतेरसति वचने यजमानस्य फलवदुपासनं तस्य फलश्रुतेः तं ह बको दाल्भ्यो विदाञ्चकारेत्यादेरुपासनस्य च सिद्धविषयतयान्यायापवादसामर्थ्याभावाद्याजमानमेवोपासनाकर्मेति प्राप्त उच्यते ॥ ४४ ॥

आर्त्विज्यमित्यौडुलोमिः तस्मै हि परिक्रीयते ।

उपाख्यानात्तावदुपासनमौद्गात्रमवगम्यते । तद्बलवति सति बाधकेऽन्यथोपपादनीयम् । न चर्त्विक्कर्तृक उपासने यजमानगामिता फलस्यासम्भविनी तेन हि स परिक्रीतस्तद्गामिनो फलाय घटते । तस्मान्न व्यसनितामात्रेणोपाख्यानमन्यथयितुं युक्तमिति राद्धान्तः ॥ ४५ ॥

श्रुतेश्च ॥ ४६ ॥

स्वामिनः फलश्रुतेरित्यात्रेयः ॥४४॥ पूर्वत्र कृतप्रायश्चित्तः संव्यवहार्य इत्युत्सर्गस्य निन्दातिशयवचनेन बाधः कृतः , एवमिहाप्याश्रयाङ्गानुष्ठातुरेवाश्रितोपास्तिकर्तृत्वमित्युत्सर्गो वर्षति हास्मै य उपास्त इत्यादिवचनात् फलभाज एव यजमानस्य साधने कर्तृत्वप्रतिपादकाद् बाध्यत इति संङ्गतिः । पतितैर्व्यवहारे हि कदाचित्स्युस्त ऋत्विजः । आर्त्विज्यत्वादुपास्तीनां तत्संपर्कं ततस्त्यजेत् ॥ इति प्रकृतोपयोगः ।

शास्त्रपौनरुक्त्यमाशङ्क्याह –

प्रथमे काण्डे इति ।

ज्योतिष्टोमादिप्रकरणेषु श्रुतानि ‘‘यदि कामयेत वर्षेत्पर्जन्य इति नीचैः सदो मिनुयात् ।’‘ सदः सभामण्डलम् । तद् नीचैर्निर्मिमीतेत्यर्थः । इत्यादीन्यङ्गफलान्यृत्विग्गामीनि । याजुर्वेदिकत्वेनाध्वर्यवसमाख्यानादृत्विजि सन्निहिते ‘‘यदि कामयेते’’ति वाक्येन तस्यैव फलसंबन्धबोधनादिति प्राप्ते राद्धान्तः । यथा त्र्ययं नाश्नीयादित्यादि तपः सत्यप्याध्वर्यवसमाख्याने याजमानम् ; तपसः प्रधानफलसिद्ध्यर्थत्वात्, प्रधानफलस्य च याजमानत्वात्, तथा कामोऽङ्गफलमपि यजमानगामि । कुतः? अर्थसंयोगात् । यजेतेत्यात्मनेपदेन प्रधानफलस्य यजमानसंबन्धबोधनादिति । अत्राङ्गफलस्य याजमानत्वनिर्देशोऽङ्गस्य तदाश्रितोपास्तेश्चार्थादृत्विक्वर्तृकत्वमवगमयतीति पुनरुक्तिशङ्का, सा न कार्या; ऋत्विक्वर्तृकत्वस्य सिद्धवत्कारादित्यर्थः ।

एवंजातीयकानीति ।

सदःकरणादिक्रत्वङ्गजातीयानीत्यर्थः । चकार उपासनानि इत्यस्योपरि नेतव्यः ।

उपासनानीति ।

तथाकाम (जै.अ.३ पा.८ सू.१३) इत्यधिकरणेऽङ्गानामृत्विक्वर्तृकत्वं न चिन्तितं, किंतु तदाश्रितोपास्तीनामित्यर्थः । यदपि शास्त्रफलं प्रयोक्तरी(जै.अ.३ पा.७.सू.१८) त्यधिकरणेऽन्यो वा स्यात्परिक्रयाम्नना (जै.अ.३ पा. ७ सू.२०) दित्यङ्गानामृत्विक्वर्तृकत्वमभिहितं, न तेनापि पुनरुक्तिरुपास्तीनामनङ्गत्वादिति । न चैवं गोदोहनादेरपि याजमानत्वशङ्का; अप्प्रणयनादेरङ्गस्यावश्यमृत्विङ्निर्वर्त्यत्वात्तदाश्रितद्रव्यस्याव्यापाररूपस्य पृथक् प्रयोगायोगाद् । उपास्तीनां तु क्रियात्वाद्भवति पृथक् प्रयोगः । शक्यते ह्युद्गीथाद्यङ्गेषु ऋत्विग्भिरनुष्ठीयमानेषु यजमानेन तेष्वादित्यादिदृष्टिरध्यसितुमिति ।

ननु ‘‘वर्षति’’ हास्मै पर्जन्यः वर्षयति चान्यार्थमयं य एवं विद्वान् वृष्टौ पञ्चविधं सामोपास्ते’’ इत्यादौ कथं याजमानत्वशङ्का? न - हीह यजमानपदमस्ति, अत आह –

तत्रोपासकानामित्यादिना ।

कर्मणीश्वरोऽधिकारी, तस्यैव फलम्, इह चोपासनकर्तुः फलश्रवणादधिकारी यजमान एवोपासनकर्तेति गम्यते इत्यर्थः ।

ननु कर्तुः फलश्रवणं तस्य याजमानत्वं न गमयितुमर्हति, ‘‘आत्मनो वा यजमानाय वा यं कामं कामयते तमागायति आगानेन संपादयती’’त्यादावृत्विजोऽपि फलश्रवणादत आह –

वचनाच्चेति ।

औत्सर्गिकन्यायस्य वचनमपवादकमसत्यपवादे फलं यजमानस्यैवेत्यर्थः । यजमानस्योपासनम्; उपासकस्य सतः फलश्रुतेः ।

तत्र दृष्टान्तः –

फलवदिति ।

ननु ‘‘तमुद्गीथं बको नामतो दाल्भस्यापत्यं दाल्भ्यो विदांचकार उपासितवान् स ह नैमिषीयाणां सत्रिणामुद्गाता बभूवेत्यृत्विजोऽप्युपासनकर्तृत्वं श्रूयते, तच्च लिङ्गं सर्वार्त्विज्यमुपास्तीनां गमयति, तत्राह –

तं हेति ।

अन्यार्थदर्शनं हीदमन्यतः सिद्धं विषमीकुर्याद्, इह त्वन्यतः सिद्धिर्नास्ति, तत उपासनफलभाजो यजमानस्यैव कर्तृत्वमिति न्यायं न बाधेतेत्यर्थः ॥४४॥ ननु ‘‘तस्मै हि परिक्रीयते’’ इति सिद्धान्तहेतुरसिद्धः, अङ्गाश्रितोपास्तीनां याजमानत्वे विप्रतिपन्नं प्रति तदर्थमृत्विक् परिक्रयस्यासिद्धेः, न च - अङ्गकर्तॄणामृत्विजां तदाश्रितोपास्तिपर्यन्तं परिक्रयः सन्निधानादिति – वाच्यम् ; यत्र हि तेषां कर्तृत्वं प्रमितं तदर्थं ते परिक्रेतव्यः, न तु सन्निहितार्थम्; अन्यथाऽङ्गसन्निहितपश्वादिद्रव्यसिद्ध्यर्थमपि तत्परिक्रयप्रसङ्गात् ।

तस्मान्न हेतुवचनार्थं पश्यामोऽत आह –

उपाख्यानात्तवदिति ।

‘‘तं ह बक’’ इत्याद्युपाख्यानं तच्च वाक्यशेषगत – त्वान्निर्णायकं न प्रापकमपेक्षते, यस्त्वन्यत्र न्यायबाध उक्तस्तत्परिहारपरत्वेन ‘‘तस्मै हि परिक्रीयत’’ इति सूत्रावयवं व्याचष्टे – न चेत्यादिना ।

तेन यजमानेन स ऋत्विक् परिक्रीतः संस्तद्गामिने फलाय घटते संपादयितुं युज्यते इत्यर्थः । एतदुक्तं भवति – यजमानगामिता फलस्य साक्षात्तत्कर्तृकत्वे परिक्रीतर्त्विक्वर्तृकत्वे चोपास्तीनां संभवति, ततः सा कांस्यभोजिन्यायेन लिङ्गदर्शनमनुग्रहीतुं परिक्रयद्वारकं कर्तृत्वमाश्रयतीति ।

एवं च लिङ्गदर्शनादृत्विक्कर्तृकत्वेऽङ्गोपास्तीनां सिद्धे तदर्थमपि ऋत्विक् परिक्रीयत इति सूत्रावयवो व्याख्यातः । एतच्च सर्वं तथा चेत्यादिभाष्यादुत्थितमिति परार्थत्वादिति भाष्येणर्त्विग्द्वारा कर्तृत्वाद्यजमानस्य फलमित्युक्त्वाऽन्यत्रेत्यनेन सति वचने ऋत्विजोऽपीत्युक्तम् ।

व्यसनितामात्रेणेति ।

फलिन एव कर्तृत्वमिति न्यायस्योभयथा संभवे यजमानमात्रकर्तृकत्वविषयः पुरुषस्याग्रहो व्यसनिता । यस्मादाधिदैविकमादित्यपुरुषमाध्यात्मिकं चाक्षुषपुरुषमुपासीत उद्गाता तदुभयात्मको भूत्वा सर्वान् लोकान् आप्नोति तस्मादेवंविदुद्गाता यजमानं ब्रूयात् ते किं कामं फलमागायान्यागानेन संपादयानि । समर्थो हि स फलसंपादने इत्यर्थः ॥४५॥४६॥

इति त्रयोदशं स्वाम्यधिकरणम् ॥