भामतीव्याख्या
वेदान्तकल्पतरुः
 

सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ।

तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य निश्चयेन । लब्ध्वा बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मण इति । यत्र हि विधिविभक्तिः श्रूयते स विधेयः । बाल्येन तिष्ठासेदित्यत्र च सा श्रूयते न श्रूयते तु मौने । तस्माद्यथाथ ब्रह्मण इत्येतदश्रूयमाणविधिकमविधेयमेवं मौनमपि । न चापूर्वत्वाद्विधेयं, तस्माद्ब्रह्मणः पाण्डित्यं निर्विद्येति पाण्डित्यविधानादेव मौनसिद्धेः पाण्डित्यमेव मौनमिति । अथवा भिक्षुवचनोऽयं मुनिशब्दस्तत्र दर्शनात् “गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थम्” इत्यत्र । तस्यान्यतो विहितस्यायमनुवादः । तस्माद्बाल्यमेवात्र विधीयते मौनं तु प्राप्तं प्रशंसार्थमनूद्यत इति युक्तम् । भवेदेवं यदि पण्डितपर्यायो मुनिशब्दो भवेत् । अपि तु ज्ञानमात्रं पाण्डित्यं ज्ञानातिशयसम्पत्तिस्तु मौनं तत्रैव तत्प्रसिद्धेः । आश्रमभेदे तु तत्प्रवृत्तिर्गार्हस्थ्यादिपदसंनिधानात् । तस्मादपूर्वत्वान्मौनस्य बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विधीयते ।

एवं च निर्वेदनीयत्वमपि विधान आञ्जसं स्यादित्याह –

निर्वेदनीयत्वनिर्देशादिति ।

कस्येदं मौनं विधीयते विद्यासहकारितयेत्यत आह –

तद्वतो विद्यावतः संन्यासिनो

भिक्षोः ।

पृच्छति –

कथमिति ।

विद्यावत्ता प्रतीयते न संन्यासितेत्यर्थः । उत्तरन्तदधिकारात्भिक्षोस्तदधिकारात् ।

तद्दर्शयति –

आत्मानं विदित्वेति ।

सूत्रावयवं योजयितुं शङ्कते –

नन्विति ।

परिहरति अत आह –

पक्षेणेति ।

विद्यावानिति न विद्यातिशयो विवक्षितः । अपि तु विद्योदयायाभ्यासे प्रवृत्तो न पुनरुत्पन्नविद्यातिशयः । तथाचास्य पक्षे कदाचिद्भेददर्शनात्सम्भव इत्यर्थः । विध्यादिर्विधिमुख्यः प्रधानमिति यावत् । अत एव समिदादिर्विध्यन्तः स हि विधिः प्रधानविधेः पश्चादिति । तत्राश्रूयमाणविधित्वेऽपूर्वत्वाद्विधिरास्थेय इत्यर्थः ॥ ४७ ॥

ननु यद्ययमाश्रमो बाल्यप्रधानः कस्मात्पुनर्गार्हस्थ्येनोपसंहरतीति चोदयति –

एवं बाल्यादिविशिष्टेति ।

उत्तरं पठति –

कृत्स्नभावात्तु गृहिणोपसंहारः ।

छान्दोग्ये बहुलायाससाध्यकर्मबहुलत्वाद्गार्हस्थ्यस्य चाश्रमान्तरधर्माणां च केषाञ्चिदहिंसादीनां समवायात्तेनोपसंहारो न पुनस्तेन समापनादित्यर्थः ॥ ४८ ॥

एवं तदाश्रमद्वयोपन्यासेन क्वचित्कदाचिदितराभावशङ्का मन्दबुद्धेः स्यादिति तदपाकरणार्थं सूत्रम् –

मौनवदितरेषामप्युपदेशात् ।

वृत्तिर्वानप्रस्थानामनेकविधैरेवं ब्रह्मचारिणोऽपीति वृत्तिभेदोऽनुष्ठातारो वा पुरुषा भिद्यन्ते, तस्माद्द्वित्वेऽपि बहुवचनमविरुद्धम् ॥ ४९ ॥

सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥४७॥ यस्मात्पूर्वे ब्राह्मणा आत्मानं विदित्वैषणाभ्यो व्युत्थाय भिक्षाचर्यमाचरन्ति तस्मादधुनातनोऽपि ब्राह्मणः पण्डाऽध्ययनजा ब्रह्मधीस्तद्वान् पण्डितः, तस्य कृत्यं पाण्डित्यं श्रवणं तन्निर्विद्य बाल्येन ज्ञानबलभावेन युक्तितोऽसंभावनानिरासरूपमननेन वा शुद्धहृदयत्वेन वा तिष्ठासेत् स्थातुमिच्छेद्, ‘‘बाल्यं च पाण्डित्यं च निर्विद्ये’’त्यादिरनुवाद उक्तदार्ढ्यार्थः । मुनिर्मननशीलो निदिध्यासकः स्याद् मौनादन्यद् बाल्यं पाण्डित्यममौनं मौनं च निदिध्यासनं निर्विद्याथ ब्राह्मणः ब्रह्माहमित्यवगच्छतीति ब्राह्मणः साक्षात्कृतब्रह्मा भवतीत्यर्थः । पूर्वत्र ‘‘तं ह बक’’ इति वाक्यशेषादङ्गोपासनमृत्विक्वर्तृकमित्युक्तम् । एवमिहाप्यथ ब्राह्मण इति विधिविधुरवाक्यशेषादथ मुनिरित्येषोऽपि न विधिरिति सङ्गतिः ।

ननु बाल्येनेत्युपक्रमे विधिश्रुतेर्मौनेऽपि विधिरस्तु, नेत्याह –

यत्र हीति ।

यद्यत्रापि विधेयत्वं स्यात्तर्हि विधिः श्रूयेत बाल्यवदतः श्रोतव्यत्वे सत्यश्रवणाद् विध्यभावो गम्यत इत्यर्थः ।

प्रशंसार्थमिति ।

यदा पाण्डित्यशब्देन मौनस्य प्राप्तिस्तदेत्थं विधीयमानस्य बाल्यस्य प्रशंसा । न हि पाण्डित्यं स्वरूपेण ज्ञानं भवत्यपि तु बाल्येऽनुष्ठितेऽनन्तरं मौनापरपर्यायं पाण्डित्यं कृतं भवेत्, तस्माद्बाल्यं प्रशस्तं भवेदिति । यदा तु मौनस्योत्तमाश्रमस्य विध्यन्तरप्राप्तस्यानुवादः, तदा बाल्यमात्रानुष्ठानवानुत्तमाश्रमित्वेन स्तूयते इति व्यक्ता स्तुतिः ।

सिद्धान्तमाह –

भवेदित्यादिना ।

अनुवादित्वं मौनशब्दस्य परिहृत्य विध्यश्रवणादविधेयत्वम् ; उक्तं परिहरति –

एवं चेति ।

तत्र तावत् ‘‘अमुनिरिति’’ साकाङ्क्षत्वान्निर्देशस्य तिष्ठासेद् इति विधिरनुषज्यते । मौनं निर्विद्येति संपाद्यत्वं च विधेयत्वं गम यतीत्यर्थः ।

साक्षात्कारवतो विद्यातिशयस्य सिद्धत्वाद्विधिवैयर्थ्यमाशङ्क्याह –

विद्यातिशय इति ।

विद्यावत इत्यत्र विद्याशब्देन विद्यातिशयो विवक्षित इत्यर्थः । उत्पन्नो विद्यातिशयो यस्य स तथोक्तः । विधिर्हि प्रधानमुपक्रम्याङ्गपर्यन्तः, ततः प्रधानविधिर्विध्यादिर्न पुनर्विधिव्यतिरिक्तः कश्चिदादिशब्दार्थ इत्यर्थः ।

समिदादेर्विध्यन्तत्वे हेतुः –

प्रधानविधेरिति ।

अतोऽङ्गस्य विध्यन्तत्वप्रसिद्धिः प्रधानविधेर्विध्यादित्वं गमयतीत्यर्थः । अपूर्वत्वाद्विधिरास्थेय इति समन्वयसूत्रे निदिध्यासनादेर्वस्त्ववगमवैशद्यं प्रत्यन्वयव्यतिरेकसिद्धत्वादविधेयत्वमुक्तम्, इह त्वन्वयव्यतिरेकसिद्धत्वेऽपि शाब्दज्ञानात् कृतकृत्यतां मन्वानो यदि कश्चित् ज्ञानातिशयरूपे निदिध्यासने न प्रवर्तेत, तं प्रत्यप्राप्तं तद्विधीयते इत्युच्यते । अत एव श्रुतिः ‘‘तत्त्वेव भयं विदुषोऽमन्वानस्ये’’ति । अथवा पाण्डित्यादिशब्दान्तरादप्राप्तिरपूर्वत्वं विधित्वं चार्थवादस्यैव सतो वाक्यस्य प्रसंसाद्वारेण प्रवृत्त्यतिशयकरत्वम् ।

अत एव समन्वयसूत्रे भाष्यं –

विधिच्छायानि वचनानीति ।

अपि च - नात्रापूर्वविधिः प्राप्तेरनन्योपायतो न च । नियमः परिसंख्या वा श्रवणादिषु संभवेत् ॥ अवघातो हि दलनाद्युपायान्तरसंभवे च सति पाक्षिक्यामप्राप्तौ तत्परिपूरणेन नियम्यते । ‘‘इमामगृभ्णन् रशनामृतस्ये’’ति मन्त्रश्चागृभ्णन्नित्यादानलिङ्गाद् रशनाशब्दाच्चाश्वगर्दभरशनयोरुभयत्र प्राप्तौ ‘‘अश्वाभिधानीमादत्त’’ इति गर्दभरशनातो व्यावर्त्यते, न तु श्रवणादिसाध्ये ब्रह्मसाक्षात्कारेऽस्त्युपायान्तरसंभवो यतः श्रवणादेर्नियमः परिसंख्या वा स्यात् । न च ब्रह्मसाक्षात्कारव्यक्तावुपायान्तरासंभवादपूर्वविधित्वमाशङ्कनीयम्; यतः सामान्योपाधावन्वयव्यतिरेकौ निवेशेते, न व्यक्तौ; इतरथाऽवघातव्यक्तिसाध्यतण्डुलव्यक्तावुपायान्तरासंभवपरिज्ञानादपूर्वविधित्वप्रसङ्गात् । यत्तु वार्तिककृद्भिरुक्तम् - ‘‘सर्वमानप्रसक्तौ च सर्वमानफलाश्रयात् । श्रोतस्य इत्यतः प्राह वेदान्तावरुरुत्सया ॥’‘ इति । प्रमाणफलं साक्षात्कारं प्रति सर्वमानप्राप्तौ वेदान्ता नियम्यन्ते इत्यत्रापि प्रमाणनियम उक्तो न श्रवणनियमः । न च स एव विधेर्विषयः; सन्निधानादेव वेदान्तलाभात् । एतेन पुराणादिप्राप्तौ वेदान्तनियमं व्याचक्षीत । तस्मान्न वाचस्पतेः पूर्वापरव्याहतभाषिता नापि सूत्रभाष्यानभिज्ञतेति ॥४७॥

कस्मात्पुनर्गार्हस्थ्येनेति ।

तेनोपसंहारे हि न ततः पर आश्रम इति द्योतितं भवति । तच्चानुपपन्नं बाल्यप्रधान आश्रमान्तरे सतीत्यर्थः ॥४७॥

वृत्तिर्वानप्रस्थानामिति ।

वैखानसा औदुम्बरा वालखिल्याः फेनपाश्चेति वानप्रस्थवृत्तिभेदाः । गायत्रो ब्राह्मः प्राजापत्यो बृहन्निति ब्रह्मचारिवृत्तयः ॥४९॥

इति चतुर्दशं सहकार्यन्तरविध्यधिकरणम् ॥