अनाविष्कुर्वन्नन्वयात् ।
बाल्येनेति यावद्बालचरितश्रुतेः कामचारवादभक्षतायाश्चात्यन्तबाल्येन प्रसिद्धेः शौचादिनियमविधायिनश्च सामान्यशास्त्रस्यानेन विशेषशास्त्रेण बाधनात्सकलबालचरितविधानमिति प्राप्तेऽभिधीयते विद्याङ्गत्वेन बाल्यविधानात्समस्तबालचर्यायां च प्रधानविरोधप्रसङ्गाद्यत्तदनुगुणमप्रौढेन्द्रियत्वादि भावशुद्धिरूपं तदेव विधीयते । एवं च शास्त्रान्तराबाधेनाप्युपपत्तौ न शास्त्रान्तरबाधनमन्याय्यं भविष्यतीति ॥ ५० ॥
अनाविष्कुर्वन्नन्वयात् ॥५०॥
ननु भावशुद्धिरपि बालचरितं भवति तन्मात्रमेव गृह्यतामत आह –
यावद् बालचरितश्रुतेरिति ।
यावदस्ति बालचरितं तावतः सर्वस्य बाल्येनेति श्रुतेरवगमान्न सङ्कोचः कार्य इत्यर्थः ।
अपि च यथा पूर्वत्र मौनशब्दस्य ज्ञानातिशये प्रसिद्धिमाश्रित्याप्राप्तमौनविधिराश्रितः, एवमत्रापि बाल्यशब्दस्य कामचारादौ प्रसिद्धेस्तदेव बाल्यं न हि शुद्धभावेऽपि तपस्विनि बालशब्दं वृद्धाः प्रयुञ्जत इत्यभिप्रेत्याह –
कामचारेति ।
भावशुद्धिरूपं तदेवेति ।
यद्यपि केवलायां भावशुद्धौ बाल्यशब्दोन प्रसिद्धः; तथापि कामचारादिमति बाले भावशुद्धिरस्ति, तावन्मात्रपरतया बाल्यशब्दः सङ्कोच्यत इत्यर्थः ।
सङ्कोचे च कारणं शेषिविध्यनुग्रह एकमुक्तम्, अपरं चाह –
एवं चेति ।
शास्त्रान्तरबाधनं यदन्याय्यं तदेवं सति न भविष्यतीति योजना ॥५०॥