भामतीव्याख्या
वेदान्तकल्पतरुः
 

ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥५१॥

सङ्गतिमाह –

सर्वापेक्षा चेति ।

किं श्रवणादिभिरिहैव वा जन्मनि विद्या साध्यते उतानियम इह वामुत्र वेति । यद्यपि कर्माणि यज्ञादीन्यनियतफलानि तेषां च विद्योत्पादसाधनत्वेन विद्योत्पादस्यानियमः प्रतिभाति । तथाच गर्भस्थस्य वामदेवस्यात्मप्रतिबोधश्रवणात् “अनेकजन्मसंसिद्धस्ततो याति परां गतिम्”(भ. गी. ६ । ४५) इति च स्मरणादामुष्मिकत्वमप्यवगम्यते । तथापि यज्ञादीनां प्रमेयाणामप्रमाणत्वाच्छ्रवणादेश्च प्रमाणत्वात्तेषामेव साक्षाद्विद्यासाधनत्वम् । यज्ञादीनां सत्त्वशुद्ध्याधानेन वा विद्योत्पादकश्रवणादिलक्षणप्रमाणप्रवृत्तिविघ्नोपशमेन वा विद्यासाधनत्वम् । श्रवणादीनां त्वनपेक्षाणामेव विद्योत्पादकत्वम् । नच प्रमाणेषु प्रवर्तमानाः प्रमातार ऐहिकमपि चिरभाविनं प्रमोत्पादं कामयन्ते किन्तु तादात्विकमेव प्रागेव तु पारलौकिकम् । नहि कुम्भलादिदृक्षुश्चक्षुषी समुन्मीलयति कालान्तरीयाय कुम्भदर्शनाय किन्तु तादात्विकाय । तस्मादैहिक एव विद्योत्पादो नानियतकालः । श्रुतिस्मृती च पारलौकिकं विद्योत्पादं स्तुत्या ब्रूतः । इत्थम्भूतानि नाम श्रवणादीन्यावश्यकफलानि यत्कालान्तरेऽपि विद्यामुत्पादयन्तीति । एवं प्राप्त उच्यते - यत एवात्र विद्योत्पादे श्रवणादिभिः कर्तव्ये यज्ञादीनां सत्त्वशुद्धिद्वारेण वा विघ्नोपशमद्वारा वोपयोगोऽत एव तेषां यज्ञादीनां कर्मान्तरप्रतिबन्धाप्रतिबन्धाभ्यामनियतफलत्वेन तदपेक्षाणां श्रवणादीनामप्यनियतफलत्वं न्याय्यमनपहतविघ्नानां श्रवणादीनामनुत्पादकत्वादविशुद्धसत्त्वाद्वा पुंसः प्रत्यनुत्पादकत्वात् । तथाच तेषां यज्ञाद्यपेक्षाणां तेषां चानियतफलत्वेन श्रवणादीनामप्यनियतफलत्वं युक्तमेवं श्रुतिस्मृतिप्रतिबन्धो न स्तुतिमात्रत्वेन व्याख्येयो भविष्यति ।

पुरुषाश्च विद्यार्थिनः साधनसामर्थ्यानुसारेण तदनुरूपमेव कामयिष्यन्ते तदिदमुक्तम् –

अभिसन्धेर्निरङ्कुशत्वादिति ॥ ५१ ॥ इति षोडशमैहिकाधिकरणम्‌ ॥

ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥५१॥

संशयं प्रदर्श्य पूर्वपक्षाभावमाशङ्कते –

यद्यपीति ।

विघ्नोपशमेनेति ।

श्रवणादौ पुरुषप्रवृत्तौ पापरूपो यो विघ्नस्तदुपशमेनेत्यर्थः । यज्ञादीनां श्रवणादिघटकत्वाद् घटितेषु श्रवणादिषु विद्ययाऽवश्यं भवितव्यमित्यैहिकत्वनियम इति भावः । तदात्वे तत्काले साधनानुष्ठानानन्तरक्षणे भवं तादात्विकम् । श्रवणादिस्वरूपनिष्पत्तये यथा सत्त्वशुद्धिविघ्ननिरासौ कर्तव्यौ, एवं श्रवणादिभिर्विद्योत्पत्तये च तैस्तौ कर्तव्यौ, तत्र यज्ञादिभिः सत्त्वशुध्द्याद्युत्पत्तावपि विरोधिकर्मान्तरैः प्रारब्धफलैः प्रतिबन्धाप्रतिबन्धौ संभाव्येते; ‘‘श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्यु’’रिति श्रुतेः । न चैवं प्रतिबन्धकनिवर्तकस्यापि प्रतिबन्धकान्तराभ्युपगमे तन्निवृत्त्यर्थमपि कर्मान्तरमनुष्ठेयमित्यनवस्था; यज्ञादिप्रतिबन्धकस्य पाप्मनो भोगद्वारेण प्रतिबन्धकत्वाद्भोगनिवृत्तौ तत्क्षये यज्ञादिभिः सत्त्वशुध्द्याद्यारम्भसंभवात् ।

अतश्चानियतफलयज्ञादिसापेक्षत्वाच्छ्रवणादेरविधेयस्याप्यनियतफलत्वमिति सिद्धान्तयति –

यत एवेति ।

एवं - विधिसामर्थ्यमाश्रित्य ब्रुवन्नामुत्रिकं फलम् । श्रवणादेः कथंकारं वाचस्पतिर्न त्रेपे इति कैश्चित्कृत उपालम्भ एतद्ग्रन्थार्थालोचनेऽनवकाशः परावृत्त्य तत्रैव धावति ।

न च - दृष्टफलस्यामुष्मिकफलत्वमदृष्टापेक्षत्वं चानुपपन्नमिति – सांप्रतम्; प्राग्भवीयगान्धर्वादिशास्त्राभ्यासस्येह षड्जादिवैशद्यहेतुभावस्य देवताप्रणिधानाद्यपेक्षितायाश्चोपलम्भादिति ।

‘‘शृण्वन्तोऽपि बहवो यं न विद्युरि’’त्यत्र हेतुरित्युच्यते –

आश्चर्य इति ।

यथावदस्मात्मनो वक्ताऽऽश्चर्यः अद्भुतवत्कश्चिदेव भवति, सम्यगाचार्यस्य सम्पत्तावपि तस्माच्छ्रुत्वा लब्धा साक्षात्कर्ताऽऽश्चर्यः । आस्तां साक्षात्कारः कुशलेनाचार्येणानुशिष्टोऽपि शास्त्रतः परोक्षवृत्त्या ज्ञाताऽप्याश्चर्य एवेत्यर्थः ॥४१॥

इति षोडशमैहिकाधिकरणम् ॥