एवं मुक्तिफलानियमस्तदवस्थावधरतेस्तदवस्थावधृतेः ॥ ५२ ॥ यज्ञाद्युपकृत-विद्यासाधनश्रवणादिवीर्यविशेषात् किल तत्फले विद्यायाम् ऐहिकामुष्मिकत्वलक्षण उत्कर्षो दर्शितः। तथा च - यथा साधनोत्कर्षनिकर्षाभ्यां तत्फलस्य विद्यायाः उत्कर्षनिकर्षौ, एवं विद्याफलस्यापि मुक्तेः उत्कर्षनिकर्षौ संभाव्येते। न च मुक्तौ ऐहिकामुष्मिकत्वलक्षणो विशेषः उपपद्यते; ब्रह्मोपासनापरिपाकलब्धजन्मनि विद्यायां जीवतो मुक्तेः अवश्यंभावनियमात् सत्यपि आरब्धविपाककर्माप्रक्षये। तस्मात् मुक्तावेव रूपतो उत्कर्षनिकर्षौ स्याताम्।। अपि च सगुणानां विद्यानाम् उत्कर्षनिकर्षाभ्यां तत्फलानाम् उत्कर्षनिकर्षौ दृष्टाविति मुक्तेरपि विद्याफलत्वात् रूपतो उत्कर्षनिकर्षौ स्यातामिति प्राप्ते उच्यते – न मुक्तेः, तत्र तत्र ऐकरूप्यश्रुतेः, उपपत्तेश्च। साध्यं हि साधनविशेषात् विशेषवद्भवति। न च मुक्तिः ब्रह्मणो नित्यस्वरूपावस्थानलक्षणा नित्या सती साध्या भवितुमर्हति । न च सवासननिःशेषक्लेशकर्माशयप्रक्षयो विद्याजन्मविशेषवान्, येन तद्विशेषान्मोक्षो विशेषवान्भवेत् । न च सावशेषः क्लेशादिप्रक्षयो मोक्षाय कल्पते। न च चिराचिरोत्पादानुत्पादावन्तरेण विद्यायामपि रूपतो भेदः कश्चिदुपलक्ष्यते, तस्या अपि एकरूपत्वेन श्रुतेः। सगुणायास्तु विद्यायाः तत्तद्गुणावापोद्वापाभ्यां तत्कार्यस्य फलस्य उत्कर्षनिकर्षो युज्येते। न चात्र विद्यात्वं सामान्यतो दृष्टं भवति। आगमतत्प्रभवयुक्तिबाधितत्वेन कालात्ययापदिष्टत्वात्। तस्मात्तस्याः मुक्त्यवस्थायाः ऐकरूप्यावधृतेः मुक्तिलक्षणस्य फलस्य अविशेषो युक्त इति॥ ५२॥ इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां तृतीयाध्यायस्य चतुर्थः पादः॥
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥४२॥
ब्रह्मोपासनापरिपाकलब्धजन्मनीति ।
परिपाकेन लब्धं जन्म यस्याः सा विद्या ब्रह्मोपासनापरिपाकलब्धजन्मा तस्यामित्यर्थः ।
ननु विद्यावतोऽपि शरीरस्य धारणात्कथं मुक्तिः? तत्राह –
सत्यप्यारब्धेति ।
रूपतः स्वरूपतो निकर्षोत्कर्षौ स्यातामिति । तथा च सातिशयत्वात्कर्मसाध्यत्वमिति पुरुषार्थोऽत इत्यस्याक्षेप इत्यर्थः । मोक्षः, सातिशयः, विलम्बिताऽविलम्बित साधनसाध्यत्वात्, कर्मफलवदित्यनुमानम् ।
अनुमानान्तरमाह –
अपि चेति ।
तत्र तत्र साधकेष्वैकरूप्यं स्यान्न कर्मणा वर्धते नो कनीयानित्यादिश्रुतेरित्यर्थः ।
उपपत्तेश्चेत्युक्तं, तामेवाह –
साध्यं हीति ।
मा भूत्स्वरूपावस्थानलक्षणायां मुक्तौ सातिशयत्वमनर्थनिवृत्तिलक्षणायां तु स्याद्, नेत्याह –
न च सवासनेति ।
विरोधिकार्योदय एव पूर्वप्रध्वंस इति मतमाश्रित्य । क्लेशादिक्षयो विद्याजन्मेति सामानाधिकरण्यम् । विद्याजन्मरूपोऽविद्याध्वंस एकरूपः । निवर्त्यविशेषोपाधिकस्तु तस्यापि विशेष इत्यर्थः ।
तर्हि स एवास्तु, तत्राह –
न च सावशेष इति ।
यदुक्तं साधनविशेषान्मोक्षे विशेष इति, तत्राह –
न च चिराचिरोत्पादेति ।
साधनविद्याचिराचिरत्वाभ्यां मोक्षे न विशेषानुमानम्; एतज्जन्मजन्मान्तरानुष्ठितयागसाध्यस्वर्गवदविशेषसंभवात्, स्वाभाविकस्तु विद्यायामपि नास्ति विशेषः । अतोऽस्मिन्पक्षे हेतोरसिद्धिः, वेद्यब्रह्मण एकरूपत्वश्रुत्या विद्याया अप्येकरूपत्वेन श्रुतेरित्यर्थः ।
द्वितीयेऽनुमाने सगुणविषयत्वमुपाधिमाह –
सगुणविद्यायास्त्विति ।
तत्कार्यस्येति ।
विद्याकार्यस्येत्यर्थः ।
कालातीतत्वं चाह –
न चात्रेति ।
मोक्षेऽप्युपेयविशेषणं भेदाभेदविकल्पासहत्वं युक्तिः ॥५२॥