भामतीव्याख्या
वेदान्तकल्पतरुः
 

अथ चतुर्थोऽध्यायः

नाभ्यर्थ्या इह सन्तः स्वयं प्रवृत्ता न चेतरे शक्याः ।
मत्सरपित्तनिबन्धनमचिकित्स्यमरोचकं येषाम् ॥ १ ॥

शङ्के सम्प्रति निर्विशङ्कमधुना स्वराज्यसौख्यं वहन्नेन्द्रः सान्द्रतपःस्थितेषु कथमप्युद्वेगमभ्येष्यति ।
यद्वाचस्पतिमिश्रनिर्मितमितव्याख्यानमात्रस्फुटद्वेदान्तार्थविवेकवञ्चितभवाः स्वर्गेऽप्यमी निःस्पृहाः ॥ २ ॥

आवृत्तिरसकृदुपदेशात् ।

साधनानुष्ठानपूर्वकत्वात्फलसिद्धेर्विषयक्रमेण विषयिणोरपि तद्विचारयोः क्रममाह –

तृतीयेऽध्याय इति ।

मुक्तिलक्षणस्य फलस्यात्यन्तपरोक्षत्वात्तदर्थानि दर्शनश्रवणमनननिदिध्यासनानि चोद्यमानान्यदृष्टार्थानीति यावद्विधानमनुष्ठेयानि न तु ततोऽधिकमावर्तनीयानि प्रमाणाभावात् । यत्र पुनः सकृदुपदेश उपासीतेत्यादिषु तत्र सकृदेव प्रयोगः प्रयाजादिवदिति प्राप्त उच्यते । यद्यपि मुक्तिरदृष्टचरी तथापि सवासनाविद्योच्छेदेनात्मनः स्वरूपावस्थानलक्षणायास्तस्याः श्रुतिसिद्धत्वादविद्यायाश्च विद्योत्पादविरोधितया विद्योत्पादेन समुच्छेदस्याहिविभ्रमस्येव रज्जुतत्त्वसाक्षात्कारेण समुच्छेदस्योपपत्तिसिद्धत्वादन्वयव्यतिरेकाभ्यां च श्रवणमनननिदिध्यासनाभ्यासस्यैव स्वगोचरसाक्षात्कारफलत्वेन लोकसिद्धत्वात्सकलदुःखविनिर्मुक्तैकचैतन्यात्मकोऽहमित्यपरोक्षरूपानुभवस्यापि श्रवणाद्यभ्याससाधनत्वेनानुमानात्तदर्थानि श्रवणादीनि दृष्टार्थानि भवन्ति । न च दृष्टार्थत्वे सत्यदृष्टार्थत्वं युक्तम् । न चैतान्यनावृत्तानि सत्कारदीर्घकालनैरन्तर्येण साक्षात्कारवते तादृशानुभवाय कल्पन्ते । न चात्रासाक्षात्कारवद्विज्ञानं साक्षात्कारवतीमविद्यामुच्छेत्तुमर्हति । न खलु पित्तोपहृतेन्द्रियस्य गुडे तिक्ततासाक्षात्कारोऽन्तरेणमाधुर्यसाक्षात्कारं सहस्रेणाप्युपपत्तिभिर्निवर्तितुमर्हति । अतद्वतो नरान्तरवचांसि वोपपत्तिसहस्राणि वा परामृशतोऽपि थूत्कृत्य गुडत्यागात् । तदेवं दृष्टार्थत्वाद्ध्यानोपासनयोश्चान्तर्नीतावृत्तिकत्वेन लोकतः प्रतीतेरावृत्तिरेवेति सिद्धम् ॥ १ ॥

लिङ्गाच्च ।

अधिकरणार्थमुक्त्वा निरुपाधिब्रह्मविषयत्वमस्याक्षिपति –

अत्राह भवतु नामेति ।

साध्ये ह्यनुभवे प्रत्ययावृत्तिरर्थवती नासाध्ये ।

नहि ब्रह्मानुभवो ब्रह्मसाक्षात्कारो नित्यशुद्धस्वभावाद्ब्रह्मणोऽतिरिच्यते । तथाच नित्यस्य ब्रह्मणः स्वभावो नित्य एवेति कृतमत्र प्रत्ययावृत्या । तदिदमुक्तम् –

आत्मभूतमिति ।

आक्षेप्तारं प्रतिशङ्कते –

सकृच्छ्रुताविति ।

अयमभिसन्धिः न च ब्रह्मात्मभूतस्तत्साक्षात्कारोऽविद्यामुच्छिनत्ति तया सहानुवृत्तेरविरोधात् । विरोधे वा तस्य नित्यत्वान्नाविद्योदीयेत कुत एव तु तेन सहानुवर्तेत । तस्मात्तन्निवृत्तये आगन्तुकस्तत्साक्षात्कार एषितव्यः । तथाच प्रत्ययानुवृत्तिरर्थवती ।

आक्षेप्ता सर्वपूर्वोक्ताक्षेपेण प्रत्यवतिष्ठते –

न आवृत्तावपीति ।

न खलु ज्योतिष्टोमवाक्यार्थप्रत्ययः शतशोऽप्यावर्तमानः साक्षात्कारप्रमाणं स्वविषये जनयति । उत्पन्नस्यापि तादृशो दृष्टव्यभिचारत्वेन प्रातिभत्वात् । ब्रह्मात्मत्वप्रतीतिं ब्रह्मात्मसाक्षात्कारम् ।

पुनः शङ्कते –

न केवलं वाक्यमिति ।

आक्षेप्ता दूषयति –

तथाप्यावृत्त्यानर्थक्यमिति ।

वाक्यं चेद्युक्त्यपेक्षं साक्षात्काराय प्रभवति तथा सति कृतमावृत्या । सकृत्प्रवृत्तस्यैव तस्य सोपपत्तिकस्य यावत्कर्तव्यकरणादिति ।

पुनः शङ्कते –

अथापि स्यादिति ।

न युक्तिवाक्ये साक्षात्कारफले प्रत्यक्षस्यैव प्रमाणस्य तत्फलत्वात् । ते तु परोक्षार्थावगाहिनी सामान्यमात्रमभिनिविशेते नतु विशेषं साक्षात्कुरुत इति तद्विशेषसाक्षात्कारायावृत्तिरुपास्यते । सा हि सत्कारदीर्घकालनैरन्तर्यसेविता सती दृढभूमिर्विशेषसाक्षात्काराय प्रभवति कामिनीभावनेव स्त्रैणस्य पुंस इति ।

आक्षेप्ताह –

न । असकृदपीति ।

स खल्वयं साक्षात्कारः शास्त्रयुक्तियोनिर्वा स्याद्भावनामात्रयोनिर्वा । न तावत्परोक्षाभासविज्ञानफले शास्त्रयुक्ती साक्षात्कारलक्षणं प्रत्यक्षप्रमाणफलं प्रसोतुमर्हतः । न खलु कुटजबीजाद्वटाङ्कुरो जायते । नच भावनाप्रकर्षपर्यन्तजमपरोक्षावभासमपि ज्ञानं प्रमाणं व्यभिचारादित्युक्तम् ।

आक्षेप्ता स्वपक्षमुपसंहरति –

तस्माद्यदीति ।

आक्षेप्ताक्षेपान्तरमाह –

नच सकृत्प्रवृत्ते इति ।

कश्चित्खलु शुद्धसत्त्वोगर्भस्थ इव वामदेवः श्रुत्वा च मत्वा च क्षणमवधाय जीवात्मनो ब्रह्मात्मतामनुभवति । ततोऽप्यावृत्तिरनर्थिकेति ।

अतश्चावृत्तिरनर्थिका यन्निरंशस्य ग्रहणमद्ग्रहणं वा न तु व्यक्ताव्यक्तत्वे सामान्यवशेषवत्पद्मरागादिवदित्यत आह –

अपि चानेकांशेति ।

समाधत्ते –

अत्रोच्यते भवेदावृत्त्यानर्थक्यमिति ।

अयमभिसन्धिः सत्यं न ब्रह्मसाक्षात्कारः साक्षादागमयुक्तिफलमपि तु युक्त्यागमार्थज्ञानाहितसंस्कारसचिवं चित्तमेव ब्रह्मणि साक्षात्कारवतीं बुद्धिवृत्तिं समाधत्ते । सा च नानुमानितवह्निसाक्षात्कारवत्प्रातिभत्वेनाप्रमाणं तदानीं वह्निस्वलक्षणस्य परोक्षत्वात्सदातनं तु ब्रह्मस्वरूपस्योपाधिरूषितस्य जीवस्यापरोक्षत्वम् । नहि शुद्धबुद्धत्वादयो वस्तुतस्ततोऽतिरिच्यन्ते । जीव एव तु तत्तदुपाधिरहितः शुद्धादिस्वभावो ब्रह्मेति गम्यते । नच तत्तदुपाधिविरहोऽपि ततोऽतिरिच्यते । तस्माद्यथा गान्धर्वशास्त्रार्थज्ञानाभ्यासाहितसंस्कारः सचिवेन श्रोत्रेण षड्जादिस्वरग्राममूर्च्छनामेदमध्यक्षेणेक्षते एवं वेदान्तार्थज्ञानाहितसंस्कारो जीवस्य ब्रह्मस्वभावमन्तःकरणेनेति ।

यस्तत्त्वमसीति सकृदुक्तमेवेति ।

श्रुत्वा मत्वा क्षणमवधाय प्राग्भवीयाभ्यासजातसंस्कारादित्यर्थः ।

यस्तु न शक्नोतीति ।

प्राग्भवीयब्रह्माभ्यासरहित इत्यर्थः ।

नहि दृष्टेऽनुपपन्नं नामेति ।

यत्र परोक्षप्रतिभासिनि वाक्यार्थेऽपि व्यक्ताव्यक्तत्वतारतम्यं तत्र मननोत्तरकालमाध्यासनाभ्यासनिकर्षप्रकर्षक्रमजन्मनि प्रत्ययप्रवाहे साक्षात्कारावधौ व्यक्तितारतम्यं प्रति कैव कथेति भावः । तदेवं वाक्यमात्रस्यार्थेऽपि न द्रागित्येव प्रत्यय इत्युक्तम् । तत्त्वमसीति तु वाक्यमत्यन्तदुर्ग्रहपदार्थं न पदार्थज्ञानपूर्वके स्वार्थे ज्ञाने द्रागित्येव प्रवर्तते ।

किन्तु विलम्बिततमपदार्थज्ञानमतिविलम्बेनेत्याह –

अपिच तत्त्वमसीत्येतद्वाक्यं त्वम्पदार्थस्येति ।

स्यादेतत्पदार्थसंसर्गात्मा वाक्यार्थः पदार्थज्ञानक्रमेण तदधीननिरूपणीयतया क्रमवत्प्रतीतिर्युज्यते । ब्रह्म तु निरंशत्वेनाससृष्टनानात्वपदार्थकमिति कस्यानुक्रमेम क्रमवती प्रतीतिरिति सकृदेव तद्गृह्येत न वा गृह्यतेत्युक्तमित्यत आह –

यद्यपि च प्रतिपत्तव्य आत्मा निरंश इति ।

निरंशोऽप्यहमपरोक्षोऽप्यात्मा तत्तद्देहाद्यारोपव्युदासाभ्यामंशवानिवात्यन्तपरोक्ष इव । ततश्च वाक्यार्थतया क्रमवत्प्रत्यय उपपद्यते ।

तत्किंमियमेव वाक्यजनिता प्रतीतिरात्मनि तथाच न साक्षात्प्रतीतिरात्मन्यनागतफलत्वादस्य इत्यत आह –

तत्तु पूर्वरूपमेवात्मप्रतिपत्तेः

साक्षात्कारवत्याः । एतदुक्तं भवति वाक्यार्थश्रवणमननोत्तरकाला विशेषणत्रयवती भावना ब्रह्म साक्षात्काराय कल्पत इति वाक्यार्थप्रतीतिः साक्षात्कारस्य पूर्वरूपमिति ।

शङ्कते –

सत्यमेवमिति ।

समारोपो हि तत्त्वप्रत्ययेनापोद्यते न तत्त्वप्रत्ययः । दुःखित्वादिप्रत्ययश्चात्मनि सर्वेषां सर्वदोत्पद्यत इत्यबाधितत्वात्समीचीन इति बलवान्न शक्योऽपनेतुमित्यर्थः ।

निराकरोति –

न । देहाद्यभिमानवदिति ।

नहि सर्वेषां सर्वदोत्पद्यत इत्येतावता तात्त्विकत्वम् । देहात्माभिमानस्यापि सत्यत्वप्रसङ्गात्सोऽपि सर्वेषां सर्वदोत्पद्यते । उक्तं चास्य तत्र तत्रोपपत्त्या बाधनमेवं दुःखित्वाद्यभिमानोऽपि तथा । नहि नित्यशुद्धबुद्धस्वभावस्यात्मना उपजनापायधर्माणो दुःखशोकादय आत्मानो भवितुमर्हन्ति । नापि धर्माः तेषां ततोत्यन्तभिन्नानां तद्धर्मत्वानुपपत्तेः, नहि गौरश्वस्य धर्मः सम्बन्धस्यापि व्यतिरेकाव्यतिरेकाभ्यां सम्बन्धासम्बन्धाभ्यां च विचारासहत्वात् । भेदाभेदयोश्च परस्परविरोधेनैकत्रासम्भवात् । इति सर्वमेतदुपपादितं द्वितीयाध्याये ।

तदिदमुक्तम् –

देहादिवदेव चैतन्याद्बहिरुपलभ्यमानत्वादिति ।

इतश्च दुःखित्वादीनां न तादात्म्यमित्याह –

सुषुप्तादिषु चेति ।

स्यादेतत् । कस्मादनुभवार्थ एवावृत्त्यभ्युपगमो यावता द्रष्टव्यः श्रोतव्य इत्यादिभिस्तत्वमसिवाक्यविषयादन्यविषयैवावृत्तिर्विधास्यत इत्यत आह –

तत्रापि न तत्त्वमसिवाक्यार्थादिति ।

आत्मा वा अरे द्रष्टव्य इत्याद्यात्मविषयं दर्शनं विधीयते । न च तत्त्वमसीवाक्यविषयादन्यदात्मदर्शनमाम्नातं येनोपक्रम्यते येन चोपसंह्रियते स वाक्यार्थः । सदेव सोम्येदमिति चोपक्रम्य तत्त्वमसीत्युपसंहृत इति स एव वाक्यार्थः । तदितः प्राच्याव्यावृत्तिमन्यत्र विदधानः प्रधानमङ्गेन विहन्ति । वरो हि कर्मणाभिप्रेयमाणत्वात्सम्प्रदानं प्रधानम् । तमुद्वाहेन कर्मणाङ्गेन न विघ्नन्तीति ।

ननु विधिप्रधानत्वाद्वाक्यस्य न भूतार्थप्रधानत्वं भूतस्त्वर्थस्तदङ्गतया प्रत्याय्यते । यथाहुः “चोदना हि भूतं भवन्तम्” इत्यादि शाबरं वाक्यं व्याचक्षाणाः “कार्यमर्थमवगमयन्ती चोदना तच्छेषतया भूतादिकमवगमयति” इत्याशङ्क्याह –

नियुक्तस्य चास्मिन्नधिकृतोऽहमिति ।

यथा तावद्भूतार्थपर्यवसिता वेदान्ता न कार्यविधिनिष्ठास्तथोपपादितं “तत्तु समन्वयात्”(ब्र. सू. १ । १ । ४) इत्यत्र । प्रत्युत विधिनिष्ठत्वे मुक्तिविरुद्धप्रत्ययोत्पादान्मुक्तिविहन्तृत्वमेवास्येत्यभ्युच्चयमात्रमत्रोक्तमिति ॥ २ ॥

नाभ्यर्थ्या इति ; स्वयमिति ; मत्सरेति ; शङ्के इति ; यदिति ; विषयक्रमेणेति ; मुक्तिलक्षणस्येति ; यत्र पुनरिति ; यद्यपीति ; विद्योत्पादविरोधितयेति ; अन्वयव्यतिरेकाभ्यां चेति ; न चेति ; न चैतानीति ; न चात्रासाक्षात्कारेति ; ध्यानोपासनयोश्चेति॥१॥२॥ ; साध्ये हीति ; आक्षेप्तारमिति ; न च ब्रह्मात्मभूत इति ; पूर्वोक्ताक्षेपेणेति ; न खल्विति ; साक्षात्कारमिति ; न केवलमिति ; आक्षेप्तेति ; पुनः शङ्कत इति ; स खल्वयमित्यादिना ; आक्षेपान्तरमिति ; आतश्चेति ; सत्यमित्यादिना ; सा चेत्यादिना ; तदानीमिति ; न हीति ; न चेति ; तस्मादिति ; प्राग्भवीयेति ; यत्र परोक्षेत्यादिना ; वाक्यमात्रस्येति ; अत्यन्तदुर्ग्रहेति ; साक्षात्कारेति ; एतदुक्तमिति ; विशेषणत्रयवतीति ; अत्यन्तभिन्नानामिति ; संबन्धस्यापीति ; भेदाभेदयोश्चेति ; चैतन्याद्बहिरिति ; इतश्चेति ; अन्यविषयैवेति ; आत्मविषयं दर्शनं विधीयत इति ; यस्त्वात्मरतिरिति ;

आवृत्तिरसकृदुपदेशात्॥१॥
तृतीये चिन्तितं सर्वं साक्षाच्छ्रुत्युक्तसाधनम् ।
फलार्थापत्तिसंसिद्धमावृत्त्याद्यत्र चिन्त्यते॥
आत्मेति तु विरोधपरिहारफलं, तस्य चात्र प्रस्तावे कारणं वक्ष्यते । न प्रतीक इत्यादि त्वधिकरणत्रयमत्र प्रासङ्गिकम्, तस्माद्भवत्येवायमभिप्रायश्चतुर्थे तृतीयशेषानुवर्तनस्येति । फलाध्यायं व्याख्यास्यन् फलावसरे श्रोतॄणामुत्साहजननाय स्वकृतेरकलङ्कतां ब्रुवन् दुर्जनान् शिक्षयति, सत्पुरुषांश्चाभिनन्दति –

नाभ्यर्थ्या इति ।

इह ग्रन्थे श्रवणार्थममत्सरिणः सज्जना नाभ्यर्थनीयाः ।

अत्र हेतुमाह –

स्वयमिति ।

ते हि ग्रन्थगुणान्दृष्ट्वा स्वयमेव प्रवृत्ता भवन्ति , इतरे तु मत्सरिणः श्रवणाय प्रवर्तयितुं न शक्याः ।

अशक्यत्वे हेतुमाह –

मत्सरेति ।

मत्सर एव पित्तं हृदयतापकत्वात् तन्निमित्तमचिकित्स्यं चिकित्साऽनर्हमरोचकं सत्कविभणितिष्वरुच्यापादकं धातुवैषम्यं येषां ते न शक्या इत्यर्थः । केषांचिद्विरलपापानां मात्सर्यं विवेकोपदेशेन शक्यं चिकित्सितुम्, इदं तु न तथेत्युक्तम् अचिकित्स्यमिति ।

आचार्यस्य शिष्यः सनातननामा तत्कृतां स्तुतिं तत्प्रीत्यर्थं प्रबन्धमधिरोपयति –

शङ्के इति ।

संप्रति सान्द्रतपःस्थितेषु निरन्तरतपोनिष्ठेषु निमित्तेष्वधुना स्वाराज्यसौख्यं वहन्निन्द्रो मम राज्यं तपसा हरिष्यतीति य उद्वेगस्तं निर्विशङ्कं निर्विशङ्को यथा भवति तथा कथमपि नाभ्येष्यतीति शङ्के मन्ये ।

उद्वेगाप्राप्तौ हेतुमाह –

यदिति ।

यस्माद्वाचस्पतिमिश्रनिर्मितं संक्षिप्तं बह्वर्थं यद्व्याख्यानं तन्मात्रेण स्फुटन्प्रकटीभवन् यो वेदान्तार्थस्तद्विषयविवेकेन साक्षात्कारेण वञ्चितोऽपहृतो भवः स्वर्गादिसंसारो येषां ते तथोक्ताः । तेऽमी तपस्विनः स्वर्गेऽपि निःस्पृहा इति यद्यस्मात्तस्माच्छङ्क इत्यन्वयः ।

विषयक्रमेणेति ।

अध्यायविषययोः साधनफलयोः क्रमेणेत्यर्थः ।

ननु ज्ञानार्थत्वाद् दृष्टफलेषु गान्धर्वशास्त्रश्रवणादिवदविधेयेषु श्रवणादिषु यावत्फलमावृत्तिसिद्धौ कथं सकृत्प्रयोगशङ्का? अत आह –

मुक्तिलक्षणस्येति ।

पूर्ववादी मुक्त्यर्थत्वात् श्रवणादीनामदृष्टार्थत्वं विधेयत्वं च मन्यते, विधिषु चाऽऽवृत्त्यश्रवणात्सकृत्प्रयोगशङ्केत्यर्थः । श्रवणादयोऽहंग्रहोपास्तयश्च निर्विशेषसविशेषब्रह्मसाक्षात्कारफला इहोदाहरणम् ।

तत्र श्रवणादिषु सकृत्प्रयोगमुक्त्वाऽहंग्रहोपास्तिष्वप्याह –

यत्र पुनरिति ।

अत्र किं विद्याया मुक्तिसाधनत्वमदृष्टमित्युच्यते, श्रवणादेर्वा विद्यासाधनत्वम् ।

नाद्य इत्याह –

यद्यपीति ।

जीवन्मुक्तेर्दृष्टत्वाद्यद्यपिकारः । अहिविभ्रमस्य रज्जुतत्त्वसाक्षात्कारेण समुच्छेदस्येवाविद्याया विद्योत्पादेन समुच्छेदस्योपपत्तिसिद्धत्वादिति योजना ।

तत्र हेतुः –

विद्योत्पादविरोधितयेति ।

अविद्या विद्यानिवर्त्या अनिर्वाच्यत्वादहिविभ्रमवदित्यनुमानम् ।

न द्वितीय इत्याह –

अन्वयव्यतिरेकाभ्यां चेति ।

इवकारो लोकसिद्धत्वादित्यत उपरि नेतव्यः । गान्धर्वशास्त्रादौ श्रवणाद्यभ्यासस्य साक्षात्कारजनकत्वेनन्वयव्यतिरेकाभ्यां लोकसिद्धत्वात्तद्वदुक्तविशेषणचैतन्यात्मकाहमित्यपरोक्षानुभवस्यापि श्रवणाद्यभ्याससाधनत्वेनानुमानादित्यर्थः । ब्रह्मसाक्षात्कारः, श्रवणाद्यभ्याससाध्य शास्त्रार्थसाक्षात्कारत्वात्, षड्जादिसाक्षात्कारवदित्यनुमानम् ।

ननु विधिप्रत्ययदर्शनाद् अदृष्टार्थत्वमस्तु, तत्राह –

न चेति ।

प्राप्तार्थत्वात् ‘‘विष्णुरुपांशु यष्टव्य’’ इत्यादाविवानुवादकत्वमित्यर्थः ।

ननु दृष्टफलान्यपि श्रवणादीनि अक्षसन्निकर्षादिवदनावृत्तान्येन साक्षात्कारं जनयन्तु, तत्राह –

न चैतानीति ।

सकृच्छ्रवणादिफलादर्शनादित्यर्थः ।

ननु साक्षात्कार एव किमर्थं, धर्मादाविव परोक्षज्ञानमेवास्तु, तत्राह –

न चात्रासाक्षात्कारेति ।

एवं दृष्टफलभूतब्रह्मसाक्षात्कारोपदेशेन श्रवणाद्यनेकोपायोपदेशलिङ्गात् फलसिद्ध्यर्थं प्रत्येकमपि श्रवणादि अभ्यसनीयमिति प्रतिपादितम् ।

अथ यदुक्तमुपासीतेत्यादिषु सकृदुपदेशादनावृत्तिरिति, तत्राह –

ध्यानोपासनयोश्चेति॥१॥२॥

अहंग्रहोपास्तिषु यस्य स्यादद्धेति वचनादुपासनसाध्य उपास्यसाक्षात्कारः प्रतीयतेऽतस्तत्रावृत्तिरर्थवती, न निर्गुणब्रह्मसाक्षात्कारे इत्याह –

साध्ये हीति ।

भाष्ये - आत्मभूतमिति प्रत्ययस्यात्मभूतमित्यर्थः । स्वप्रकाशत्वाद् ब्रह्मणो ब्रह्मविषय इति तु ब्रह्मविषयव्यवहारजनक इत्यर्थो न तु तत्कर्मक इति; तथा सत्यात्मभूतत्वविरोधात् ।

न च जीवस्यात्मभूतमिति व्याख्यानमुचितम् ; अध्याहारप्रसङ्गात् प्रत्ययस्यात्मभूतमिति व्याख्यायां त्वनुषङ्ग एव स्यात्स चाध्याहाराद्वर इति ब्रह्मसाक्षात्कारो ब्रह्मस्वरूपमित्यङ्गीकृत्यावृत्तौ दूषितायां सिद्धान्ती वृत्तिरूपसाक्षात्कारमादाय शङ्कते इत्याह –

आक्षेप्तारमिति ।

ननु स्वरूपप्रकाशेन ब्रह्मप्रथनसिद्धौ किमावृत्त्या? अत आह –

न च ब्रह्मात्मभूत इति ।

नाविद्योदीयेतेति भ्रान्त्यभिप्रायम् ।

पूर्वोक्ताक्षेपेणेति ।

वृत्तिरूपसाक्षात्कारं प्रमामुपेत्य तस्यामप्यावृत्त्याक्षेपेणेत्यर्थः ।

तमेवाह –

न खल्विति ।

तादृश इति तादृक् शब्दात् षष्ठी ।

यदि वाक्यं सकृच्छ्रूयमाणं ब्रह्मात्मत्वप्रतीति नोत्पादयेदिति भाष्ये ब्रह्मात्मत्वप्रतीतिः साक्षात्कारः, परोक्षप्रतीत्युत्पत्तेरेव तदभावाभिधानानुपपत्तेरित्याह –

साक्षात्कारमिति ।

केवलवाक्यमावर्त्यमानमपि न साक्षात्कारं जनयतीत्युक्ते युक्तिसहकृतं जनयिष्यति संस्कार इवाक्षसहितः प्रत्यभिज्ञाम्, अतो वाक्येनैकवारं प्रत्यये कृते युक्त्याऽपि तत्करणादावृत्तिसिद्धिरिति शङ्कते इत्याह –

न केवलमिति ।

एवमपि वाक्ययुक्त्योः प्रत्येकमावृत्तिः सिद्धान्तिसंमता न सिध्यतीति दूषयतीत्याह –

आक्षेप्तेति ।

इदानीं मा भूद्वाक्यमावृत्तिसहकृतं साक्षात्कारस्य कारणम्, मा च युक्तिसहकृतं वाक्यम्, युक्तिवाक्ये त्वावृत्तिसहिते साक्षात्कारकारणे इति शङ्कत इत्याह –

पुनः शङ्कत इति ।

दृढभूमिर्दृढ आश्रयः फलं साधयितुमित्यर्थः । यद्यप्यभ्यासमिति शास्त्रयुक्ती साक्षात्कारं कुरुत इति शङ्कितं, तथाप्यन्यतरोपकृतावन्यतरत्करणमिति वक्तव्यं, करणप्रयुक्तं च प्रतीतेरापरोक्ष्यं यथा प्रत्यभिज्ञायाम् ।

तत्र किं शास्त्रयुक्त्योः करणत्वं भावनाया वेति विकल्प्य दूषयति –

स खल्वयमित्यादिना ।

भावनाप्रकर्षस्य पर्यन्तोऽवधिः काष्ठा तज्जमित्यर्थः ।

पूर्ववादिना शास्त्रयुक्त्योः परोक्षज्ञानजनकत्वादावृत्तयोरनावृत्तयोर्वा न साक्षात्कारहेतुतेति उक्तं, सांप्रतमुपेत्यापि तयोरपरोक्षप्रमाकरणभावमभ्यासवैफल्यमभिधीयत इत्याहाऽऽक्षेप्ता –

आक्षेपान्तरमिति ।

आतश्चेति ।

अवश्यं चेत्यर्थः । अपरोक्षप्रमोत्पत्त्यर्थं आवृत्त्याक्षेपः किमावृत्त्युपकार्यभूतप्रमाणाभावादुत साक्षात्कारयोग्य प्रमेयाभावात् ।

न प्रथम; मनस एव सोपाधिकात्मन्यहंप्रत्ययरूपसाक्षात्कारणतया क्लृप्तशक्तेः शास्त्रयुत्तयभ्यासवासितस्य जीवयाथात्म्यब्रह्मसाक्षात्कारकरणत्वसंभवादित्याह –

सत्यमित्यादिना ।

भावनाभावसाक्षात्कारस्यान्यत्रेव भ्रमत्वमाशङ्क्य प्रमेयस्यापरोक्ष्याद् विसंवादाभावेन वैषम्यं वदन्परिहरति –

सा चेत्यादिना ।

एतेन - द्वितीयो विकल्पः परास्तः ।

तदानीमिति ।

अनुमितिभावनाकाले इत्यर्थः ।

ननु जीवस्वरूपस्य सदातनम् आपरोक्ष्यं भवतु, तद्याथात्म्यस्य तु ब्रह्मस्वभावस्य नित्यशुद्धत्वादेः परोक्षत्वात्तद्भावनाभिः साक्षात्कृतिर्भ्रमः स्यादत आह –

न हीति ।

तर्ह्युपाधिविरहो जीवादन्य इति परोक्षः स्यादतो निरुपाधिब्रह्मापरोक्षप्रतीतिर्भ्रमः स्यान्नेत्याह –

न चेति ।

परमार्थप्रतियोगिको ह्यभावः परमार्थः स नाधिकरणाद्भिद्यते ; कुम्भाभाव इव भूतलात्, अत एव प्रतियोगिप्रमाणमेवाभावेऽपि प्रमाणमिति केचिद् मन्वते । इह चोपाधीनां मिथ्यात्वात्तत्प्रतियोगिकोऽभावोऽपि नास्ति वास्तवः । न चैवमभावानवस्था ; यथा हि भवतां घटो न भवति घटान्योन्याभाव इत्यत्र नान्योन्याभावान्तरमस्ति, न च भावाभावयोरैक्यम्, एवमस्माकमुपाध्यभावो ब्रह्मणि निषिध्यते, न च भावान्तरप्रसङ्ग इति ।
एवं हृदि निधायार्थमिष्टसिद्धिकृतो जगुः ।
आत्मैवाज्ञानहानिर्वा तदाऽप्यात्मैव शिष्यते॥
इति॥

नन्वेवमपि यथा संसारदशायां जीवरूपं चकास्ति, तथैव यदि मोक्षेऽपि तर्हि शास्त्रीयज्ञानवैयर्थ्यं स्यादिति, नेत्याह –

तस्मादिति ।

षड्जादयो हि गान्धर्वशास्त्रश्रवणात्प्रागप्यविकलानधिकाः श्रोत्रेणापरोक्षमीक्ष्यन्ते, ते त्वितरेतरविवेकेनानवधारिता ऐक्येन च समारोप्यमाणा न तथा हर्षविशेषमुपजनयन्त्यविवेकिनां यथा शास्त्रीयलक्षणैर्विविञ्चताम् । तस्माद्यथा तत्र प्रकाशमानेष्विव षड्जादिषु समारोपितमविवेकं निषेधतः शास्त्रस्योपयोगः, एवमत्रापि समारोपितोपाधिकृतस्वप्रकाशानुभवगतमभिभवं व्युदस्यतां वेदान्तानामित्यर्थः । एतदुक्तं भवति - अविकलानधिकेऽवभासमानेऽपि वस्तुनि येन क्रमेणारोपः प्रवृत्तस्तद्विपरीताकारप्रमाणवृत्त्युदयव्यतिरेकेण न भ्रमो निवर्तते, यथा देवदत्ते तदैक्ये चाभिज्ञासिद्धेऽप्यन्योऽयमन्यः स इत्यारोपः सोऽयमित्याकारप्रत्यभिज्ञया विना न निवर्तत इति॥
षड्जमध्यमगान्धारनिषादर्षभधैवताः ।
पञ्चमश्चेति सप्तैते तन्त्रीकण्ठोद्भवाः स्वराः॥
ग्रामः स्वराणां समूहः । मूर्च्छना तु तेषामारोहावरोहौ ।

भाष्ये – सर्वथैवानर्थक्यं कंचित्प्रति नोच्यते ; सम्यग् ज्ञानोपायस्य नियतत्वात्, कित्विह जन्मन्यावृत्त्यनुष्ठानवैयर्थ्यमित्याह –

प्राग्भवीयेति ।

पूर्वपक्षावसरे हि वाक्यमावर्त्यमानमपि नापरोक्षज्ञानं जनयतीत्युक्तं, नावृत्तावपि तदनुपपत्तेरित्यादिभाष्येण, तदेवानूद्य न हि दृष्ट इत्यादिभाष्येण परोक्षार्थवाक्यदृष्टान्तेन परिह्रियते । तदसङ्गतमिव प्रतिभाति ; तत्र वाक्यात्साक्षात्कारोत्पत्तिप्रकारस्य स्वेनैवोपपादितत्वादेतावानाक्षेपः परिशिष्यते, यः प्रथमश्रवणे प्रमित्यतिशयो न भवति, स आवृत्तावपि न स्यादिति ।

तस्य कैमुतिकन्यायेन परिहारभाष्यार्थमाह –

यत्र परोक्षेत्यादिना ।

वाक्याभ्यासानभ्यासाभ्यामेकजातीयपरोक्षज्ञाने जन्यमानेऽप्यावृत्तेरतिशयकरत्वे दृष्टे सत्यपरोक्षज्ञानातिशयाऽऽवृत्तिरिति नानुपपन्नम्, अपि तु सुतरामुपपन्नमिति भाष्यार्थः ।

वाक्यमात्रस्येति ।

परोक्षार्थस्येत्यर्थः ।वाक्यार्थसाक्षात्कारार्थमावृत्त्युपयोगमुक्त्वा तत्त्वंपदार्थविवेकद्वारेण वाक्यमात्रात् परोक्षज्ञानोत्पादनेऽप्यावृत्त्युपयोग उच्यत इत्याह –

अत्यन्तदुर्ग्रहेति ।

क्रमवती प्रतीतिर्यस्य स वाक्यार्थस्तथोक्तः । संसृष्टत्वं नानात्वं च ययोर्न स्तस्तौ पदार्थावसंसृष्टनानात्वौ तौ च यस्य तद्द्ब्रह्मासंसृष्टनानात्वपदार्थकमिति । तत्किमिति । येयं पदार्थविवेकपूर्वकं वाक्यजन्यताप्रतीतिरियमेव स्यात्, किमात्मनि नान्या, तथा सतीयं साक्षात्प्रतीतिरात्मनि न स्यात् । कुतः? अस्याः साक्षात्प्रतितेरिन्द्रियजत्वेनानागमकफलत्वादित्यर्थः ।

ननु शाब्दप्रतीतेरप्यात्मप्रतिपत्तित्वात्किं तस्या एव तत्पूर्वत्वं, नेत्याह –

साक्षात्कारेति ।

शाब्दधियोऽनिन्द्रियजन्यत्वाद् ध्यानादिसहकृतचेतोऽर्पणद्वारा साक्षात्कारहेतुत्वमित्याह –

एतदुक्तमिति ।

विशेषणत्रयवतीति ।

दीर्घकालनैरन्तर्यसत्कारवतीत्यर्थः ।

अत्यन्तभिन्नानामिति ।

अभिन्नानामित्यपि द्रष्टव्यम् । कल्पितत्वं हि सिद्धान्तः ।

नन्वश्वस्य गां प्रत्यधर्मत्वं नान्यत्वात् किं तु गव्यसमवेतत्वात् दुःखादयस्तु भिन्ना अप्यात्मसमवेतत्वाद्धर्मा इत्याशङ्क्य तर्हि संबन्ध एव नास्ति वास्तव इत्याह –

संबन्धस्यापीति ।

ननु दुःखादय आत्मनो नात्यन्तभिन्नाः किं तु भिन्नाभिन्ना इति नेत्याह –

भेदाभेदयोश्चेति ।

चैतन्याद्बहिरिति ।

वास्तवं हि चैतन्यं तस्माद्बहिष्ट्वमवास्तवमिति ।

इतश्चेति ।

कल्पितत्वेन हि दुःखित्वादीनामात्मतादात्म्यं धर्मधर्मित्वोपयोगि निरस्तमिदानीं सुषुप्तावात्मनि दुःखित्वाद्यभावाच्च नात्मतादात्म्यमित्युच्यते । तादात्म्यं ह्यैक्यं नान्यन्निरूपयितुं शक्यम् । न चानुवृत्तव्यावृत्तयोरैक्यमित्यर्थः ।

अन्यविषयैवेति ।

संपदादिप्रत्ययविषयेत्यर्थः ।

आत्मविषयं दर्शनं विधीयत इति ।

आत्मस्तुतिद्वारेण दर्शनं पुरुषप्रवृत्त्यतिशयविषयत्वमापद्यत इत्यर्थः । सिद्धरूपब्रह्मप्रत्ययविपरीतप्रत्ययोत्पत्तेः कार्यवादिभिरिष्यमाणत्वात्तदापत्ताविष्टप्रसङ्गतामाशङ्क्याह – अभ्युच्चयमात्रमिति ।समन्वयसूत्रोक्तन्यायेन वेदान्तानां सिद्धब्रह्मपरत्वे सिद्धे तादृशब्रह्मज्ञानादेव मुक्तिरिति सिद्ध्यति तथाभ्युपगमे मुक्तिविरोध उक्त इत्यर्थः । शास्त्रतो विज्ञायापरोक्षप्रज्ञां कुर्वीत यत्स रैक्वो वेद तत्प्राणतत्त्वं सर्वधर्मफलमभिसंगच्छत इत्यर्थः । एवं रैक्कादन्योऽसि यस्तद्रैक्व  वेद्यं वेद तस्यापि सर्वसाधुफलप्राप्तिर्भवति स एवंभूतो रैक्वो मया एतदिति । क्रियाविशेषणमित्थमुक्तः । रैक्वमिव जानश्रुतिमल्पकं कर्मात्थेति हंसान्तरं प्रति हंसो वक्ति । हे रेक्व यां देवतामुपास्ते एता माम् अनुशाधि शिक्षय ज्ञापय इति जानश्रुतिवाक्यम् । हे पुत्र त्वं रश्मीनादित्यं च भेदेन पर्यावर्तयात् तकार एको लुप्तो द्रष्टव्यः । पर्यावर्तयतादिति मध्यमैकवचनमेतत् । त्वं योगात् पर्यावर्तय उपास्वेत्यर्थः । एवं सति बहवस्ते  पुत्रा भविष्यन्ति न केवलादित्योपास्ताविवैकपुत्रतेत्यर्थः । एषां नोऽस्माकमपरोक्ष आत्मैवायं लोकः पृथिवीलोकः प्रजया हि पृथिवीलोकः साध्यः स आत्मैवास्माकम् आत्मनः सर्वात्मत्वादतः प्रजया किं करिष्याम इत्यर्थः ।

x

यस्त्वात्मरतिरिति ।

रतिरासक्तिपूर्विका निष्ठा । तत आत्मसुखानुभवस्तृप्तिः तस्याः काष्ठा संतुष्ठिः॥२॥

इति प्रथममावृत्त्यधिकरणम्॥