भामतीव्याख्या
वेदान्तकल्पतरुः
 

आदित्यादिमतयश्चाङ्ग उपपत्तेः ।

अथवा नियमेनोद्गीथादिमतय आदित्यादिष्वध्यस्येरन्निति ।

सत्स्वपि आदित्यादिषु फलानुत्पादादुत्पत्तिमतः कर्मण एव फलदर्शनात्कर्मैव फलवत् । तथा चादित्यादिमतिभिर्यद्युद्गीथादिकर्माणि विषयीक्रियेरंस्तत आदित्यादिदृष्टिभिः कर्मरूपाण्यभिभूयेरन् ॥ एवंच कर्मरूपेष्वसत्कल्पेषु कुतः फलमुत्पद्येत । आदित्यादिषु पुनरुद्गीथादिदृष्टावुद्गीथादिबुद्ध्योपास्यमाना आदित्यादयः कर्मात्मकाः सन्तः फलाय कल्पिष्यन्त इति । अत एव च पृथिव्यग्न्योरृक्सामशब्दप्रयोग उपपन्नो यतः पृथिव्यामृग्दृष्टिरध्यस्ताग्नौ च सामदृष्टिः ।

साम्नि पुनरग्निदृष्टौ ऋचि च पृथिवीदृष्टौ विपरीतं भवेत् । तस्मादप्येतदेव युक्तमित्याह –

तथाचेयमेवेति ।

उपपत्त्यन्तरमाह –

अपिच लोकेष्विति ।

एवं खल्वधिकरणनिर्देशो विषयत्वप्रतिपादनपर उपपद्यते यदि लोकेषु सामदृष्टिरध्यस्येत नान्यथेति ।

पूर्वाधिकरणराद्धान्तोपपत्तिमत्रैवार्थे ब्रूते –

प्रथमनिर्दिष्टेषु चेति ।

सिद्धान्तमत्र प्रक्रमते –

आदित्यादिमतय एवेति ।

यद्युद्गीथादिमतय आदित्यादिषु क्षिप्येरंस्तत आदित्यादीनां स्वयमकार्यत्वादुद्गीथादिमतेस्तत्र वैयर्थ्यं प्रसज्येत । नह्यादित्यादिभिः किञ्चित्क्रियते यद्विद्यया वीर्यवत्तरं भवेदादित्यादिमत्या विद्ययोद्गीथादिकर्मसु कार्येषु यदेव विद्यया करोति तदेव वीर्यवत्तरं भवतीत्यादित्यमतीनामुपपद्यते उद्गीथादिषु संस्कारकत्वेनोपयोगः ।

चोदयति –

भवतु कर्मसमृद्धिफलेष्वेवमिति ।

यत्र हि कर्मणः फलं तत्रैवं भवतु यत्र तु गुणात्फलं तत्र गुणस्य सिद्धत्वेनाकार्यत्वात्करोतीत्येव नास्तीत्यत्र विद्यायाः क्व उपयोग इत्यर्थः ।

परिहरति –

तेष्वपीति ।

न तावद्गुणः सिद्धस्वभावः कार्याय फलाय पर्याप्तः, मा भूत्प्रकृतकर्मानिवेशिनो यत्किञ्चित्फलोत्पादः, तस्मात्प्रकृतापूर्वसंनिवेशिनः फलोत्पाद इति तस्य क्रियमाणत्वेन विद्यया वीर्यवत्तरत्वोपपत्तिरिति ।

फलात्मकत्वाच्चादित्यादीनामिति ।

यद्यपि ब्रह्मविकारत्वेनादित्योद्गीथयोरविशेषस्तथापि फलात्मकत्वेनादित्यादीनामस्त्युद्गीथादिभ्यो विशेष इत्यर्थः ।

द्वितीयानिर्देशादप्युद्गीथादीनां प्राधान्यमित्याह –

अपि चोमितीति ।

स्वयमेवोपासनस्य कर्मत्वात्फलवत्त्वोपपत्तेः ।

ननूक्तं सिद्धरूपैरादित्यादिभिरध्यस्तैः साध्यभूतत्वमभिभूतङ्कर्मणामित्यत आह –

आदित्यादिभावेनापि च दृश्यमानानामिति ।

भवेदेतदेवं यद्यध्यासेन कर्मरूपमभिभूयेत । अपि तु माणवक इवाग्निदृष्टिः केनचित्तीव्रत्वादिना गुणेन गौण्यनभिभूतमाणवकत्वात्तथेहापि । नहीयं शुक्तिकायां रजतधीरिव वह्निधीर्येन माणवकत्वमभिभवेत् । किन्तु गौणी । तथेयमप्युद्गीथादावादित्यदृष्टिर्गौणीति भावः ।

तदेतस्यामृच्यध्यूढंसामेति त्विति ।

अन्यथापि लक्षणोपपत्तौ न ऋक्सामेत्यध्यासकल्पना पृथिव्यग्न्योरित्यर्थः ।

अक्षरन्यासालोचनया तु विपरीतमेवेत्याह –

इयमेवर्गिति ।

“लोकेषु पञ्चविधं सामोपासीत”(छा. उ. २ । २ । ३) इति द्वितीयानिर्देशात्साम्नामुपास्यत्वमवगम्यते । तत्र यदि सामधीरध्यस्येत ततो न सामान्युपास्येरनपि तु लोकाः पृथिव्यादयः । तथा च द्वितीयार्थं परित्यज्य तृतीयार्थः परिकल्प्येत साम्नेति । लोकेष्विति सप्तमी द्वितीयार्थे कथञ्चिन्नीयते । अगारे गावो वास्यन्तां प्रावारे कुसुमानीतिवत् । तेनोक्तन्यायानुरोधेन सप्तम्याश्चोभयथाप्यवश्यं कल्पनीयार्थत्वाद्वरं यथाश्रुतद्वितीयार्थानुरोधाय तृतीयार्थे सप्तमी व्याख्यातव्या ।

लोकपृथिव्यादिबुद्ध्या पञ्चविधं हिङ्कारप्रस्तावोङ्कारोद्गीथप्रतिहारोपद्रवनिधनप्रकारं सामोपासीतेति, तत्र को विनिगमनायां हेतुरित्यत आह –

तत्रापीति ।

तत्रापि समस्तस्य सप्तविधस्य साम्न उपासनमिति साम्न उपास्यत्वश्रुतेः साध्विति पञ्चविधस्य । साधुत्वं चास्य धर्मत्वम् । तथाच श्रुतिः “साधुकारी साधुर्भवति”(बृ. उ. ४ । ४ । ५) इति । हिङ्कारानुवादेन पृथिवीदृष्टिविधाने हिङ्कारः पृथिवीति प्राप्ते विपरीतनिर्देशः पृथिवी हिङ्कारः ॥ ६ ॥

आदित्यादिमतयश्चाङ्ग उपपत्तेः॥६॥ पूर्ववदुत्कर्षरूपविशेषानवधारणादनियमः । अथवा गीत्यात्मकेन क्रियात्मकानामुद्गीथादीनां फलसन्निकर्षेणोत्कर्षादादित्यादिषु तद्दृष्टिः कर्तव्या, प्रथमनिर्दिष्टनामादिषु ब्रह्मदृष्टिवच्च प्रथमनिर्दिष्टादित्यादिषु उद्गीथादिदृष्टिः कार्येति तिस्रः संगतयो भाष्य एव विशदाः । भाष्यमुपादत्ते –

अथवेति ।

भाष्ये क्रियात्मकत्वादित्यसाधकम् ; सिद्धरूपादित्यादिदृष्ट्यध्यासेऽप्युद्गीथादिगतक्रियास्वभावस्यानपायात् तत्फलसिध्द्युपपत्तेरित्याशङ्क्याह –

तथाचादित्यादिमतिभिरिति ।

शुक्त्यादौ रजतबुध्द्युत्पत्तौ तत्प्रयुक्तव्यवहारप्रतिबन्धवत् सिद्धरूपादित्यादिदृष्टावुद्गीथादिगतक्रियात्वमभिभूयेतेत्यर्थः ।

आदित्यादिषूद्गीथादिदृष्टौ तद्गतसिद्धरूपत्वमभिभूयते, क्रियात्वं चाविर्भवति, ततश्च फलसिद्धिरित्यर्थपरत्वेनोद्गीथादिमतिभिरित्यादिभाष्यं व्याचष्टे –

आदित्यादिषु पुनरिति ।

कल्पिष्यन्ते समर्था भविष्यन्ति । इयमेवर्गग्निः सामेत्युक्त्वा श्रुत्या तत्र हेतुरुच्यते ‘‘तदेतदेतस्यामृच्यध्यूढं सामे’’ति । ॠक्सामशब्दाभ्यामिह पृथिव्यग्नी निर्दिश्येते । अस्यां पृथिव्यामृचि सामाग्निरारूढ आश्रितस्ततः प्रसिद्धयोरपि पृथिव्यग्न्योराश्रयाश्रयित्वात्तत्साम्येन पूर्ववाक्ये सामाधारभूता ऋक् पृथिव्युक्ता ऋगाश्रितं च सामाग्निरित्युक्तमित्यर्थः । अत्र हेतुवाक्ये पृथिव्यग्न्यो ऋक्सामशब्दप्रयोगः पृथिव्यग्न्यो क्सामदृष्टिः पूर्ववाक्येऽभिहितेति ज्ञापयति ।

आरोप्यवाचकशब्दस्यैव वह्न्यादेर्माणवकादावुपचारदर्शनादित्याह –

अत एवेति ।

भूतभाव्युपयोगं हि वस्तु संस्कारमर्हति ।

उद्गीथादीनां च क्रियात्वात् प्रकृतज्योतिष्टोमाद्युपकारस्य तैः करिष्यमाणत्वाच्च तान्येवादित्यादिमतिभिरतिशयाय संस्क्रियेरन्नित्याह –

यद्युद्गीथादिमतय इत्यादिना ।

आदित्यादिमत्या विद्ययेति समानाधिकरणे तृतीये ।

ननु ‘‘लोकेषु पञ्चविधं सामोपासीते’’त्यादावपि सामकर्मैव क्रतुं साधयद् वीर्यवत्तरत्वाय लोकदृष्ठ्या संस्क्रियतां, न च ‘‘कल्पन्ते हास्मै लोका’’ इत्यादिफलश्रवणात्स्वातन्त्र्यम्; अङ्गावबुद्धत्वादासामुपास्तीनां कर्मसमृद्धिफलेऽवगते सति परार्थे फलश्रवणस्यार्थवादत्वसंभवात्, अतो भाष्योक्तस्वतन्त्रफलत्वानुपपत्तिरित्याशङ्क्याह –

यत्र हीति ।

यत्र ह्युद्गीथादिकर्मणः सकाशात्फलं, तत्रैवं भवदित्यर्थः ।

प्रस्तुते वैषम्यमाह –

यत्र त्विति ।

इह तावत्समस्तस्य खलु साम्न उपासनं साध्यति पाञ्चभक्तिकसाप्तभक्तिकसकलसामोपासनस्य वाक्यान्तरेण विहितत्वात्पञ्चविधत्वमात्रं गुण उपासनयोपाधीयते, एवं सति यत्र गुणात्फलं लोकादि भवति, तत्र गुणस्याक्रियात्वेन लोकादिभिः समत्वात् तं पुरुषः करोतीत्येव नास्ति । कुत इमं लोकं विद्यया संस्कृत्य वीर्यवत्तरं कुर्याद् ? अतो लोकादिष्वपि सामाध्याससम्भव इत्यर्थः । गुणात् फलसिद्धिः केवलाद्वा यत्किञ्चित्क्रियासंबन्धाद्वा प्रकृतकर्मसंबन्धाद्वा । आद्यद्वितीयावतिप्रसक्तौ ।

तृतीये तु प्रकृतक्रियावैशिष्ठ्यादस्ति गुणस्यापि कार्यत्वमित्याह –

न तावदित्यादिना ।

भवन्तूत्कृष्टा आदित्यादयः, तेभ्यस्त्वक्रियारूपेभ्यः कथं फलसिद्धिरित्याशङ्क्य तद्दृष्टिः फलं भवेदित्याह –

स्वयमेवेति ।

यथा माणवकेऽग्निदृष्टिः केनचित्तीव्रत्त्वादिगुणयोगेन गौणी ।

तत्र हेतुः –

अनभिभूतमाणवकत्वादिति ।

नाभिभूतो माणवको यया सा गौणी दृष्टिरनभिभूतमाणवका तस्या भावोऽनभिभूतमाणवकत्वं तत इत्यर्थः ।

दार्ष्टान्तिकमाह –

तथेहापीति ।

दृष्टान्तं प्रपञ्चयति –

न हीति ।

दार्ष्टान्तिकं विशदयति –

तथेयमपीति ।

अन्यथापीति ।

सत्यां लक्षणायां न गौणी वृत्तिर्दौर्बल्यात् । तथा च ऋक्सामसंबन्धमात्रं पृथिव्यग्न्यो ऋक्सामशब्दप्रयोगे कारणम्॥ सबन्धश्च ऋक्सामाध्यस्तत्वमपि सम्भवतीत्यर्थः ।

एवम् अन्यथाऽप्युपपत्तिमुक्त्वाऽन्यथैवोपपत्तिमाह –

अक्षरन्यासेति ।

इयमेवर्गिति चेत्यादेरक्षरन्यासः स्यादित्यन्तस्य भाष्यस्य तात्पर्यमुक्त्वा सिद्धान्तेऽक्षराञ्जस्यमपरमपि दर्शयंस्तथा च लोकेषु पञ्चविधमित्यादिभाष्यस्य तात्पर्यमाह –

लोकेष्वित्यादिना ।

सामधीर्यदि लोकेष्वध्यस्येत, तदा सामानि नोपस्येरन् ।

ततः किं जातमत आह –

तथा चेति ।

परिकल्पनामेवाभिनयेन दर्शयति –

साम्नेतीति ।

सामसु लोकानामुपास्यत्वे श्रुत्यन्तरभङ्गश्च स्यादित्याह –

लोकेष्वितीति ।

सप्तमीभङ्गे लोकसिद्धमुदाहरणमाह –

अगार इति ।

अगारे गृहे गावो वास्यन्तामिति प्रयोगे अगारं गवां सञ्चरणेन पवित्रीक्रियतामिति सप्तमीं भङ्क्त्वा कर्मत्वं लक्ष्यते । एवं प्रावारे प्रावरणवस्त्रे कुसुमानि वास्यन्तामित्यत्रापि प्रावरणस्य कुसुमैर्वास्यत्वं कर्मत्वं लक्ष्यते इति । उक्तन्यायानुरोधेनेति । ‘‘सामोपासीते’’ति द्वितीयाभङ्गप्रसङ्गानुरोधेन वरं सप्तमी तृतीयार्थे व्याख्यातेत्युपर्यन्वयः । लोकेष्विति सप्तमी पूर्वपक्षे द्वितीयार्था सिद्धान्ते तृतीयार्थेत्युभयथा भञ्जनीया, पूर्वपक्षे तु सामगतद्वितीयाभङ्गोऽधिक इत्यर्थः ।

यत्र द्वितीयासप्तम्यौ भवतः, तत्र भवतु श्रुतिद्वयभङ्गगौरवपरिहारार्थमङ्गेष्वनङ्गदृष्टिर्यत्र तूभयत्र द्वितीया निर्दिश्यते, तत्रान्यतरश्रुतिमात्रभङ्गस्य पूर्वपक्षसिद्धान्तयोरविशेषात् कथं नियमः? इत्याशङ्क्याह –

ननु यत्रेत्यादिना ।

सप्तविधसामान्येव दर्शयति –

हिङ्कारेति ।

ओङ्कारोऽपि साम्न्यादिसंज्ञको भक्तिविशेषः ।

भाष्यं व्याचष्टे –

सप्तविधस्येत्यादिना ।

श्रुतिगतसमस्तपदस्य स्वेन व्याख्या कृता –

सप्तविधस्येति ।

छान्दोग्ये हि समस्तस्य खलु साम्न उपासनं साध्वित्युपक्रम्य ‘‘लोकेषु पञ्चविधं सामोपासीत पृथिवी हिङ्कारोऽग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधन’’मित्यादिना पञ्चविधस्य साम्न उपासनमुक्त्वा ‘‘इति तु पञ्चविधस्ये’’त्युपसंहृत्या ‘‘ थ तु सप्तविधस्ये’’त्युपक्रम्य ‘‘वाचि सप्तविधं सामोपासीत यत्किञ्च वाचो हुं इति स हिङ्कारो यत्प्रैति स प्रस्तावो यदैति स आदिर्यदुदेति स उद्गीथो यत्प्रतीति स प्रतिहारो यदुपेति स उपद्रवो यन्नेति तन्निधन’’मित्यादिना सप्तविधस्याप्युपासनमुक्तम् । एवंच सति समस्तस्य सप्तविधस्य साम्न उपासनं साध्विति साम्न उपास्यत्वश्रुतेरिति तु पञ्चविधस्य साम्न उपासनं साध्विति च पञ्चविधस्यापि साम्न उपास्यत्वश्रुतेः साम्न्येवादित्याध्यास इति ग्रन्थयोजना ।

श्रुत्योक्तं साम्नः साधुत्वं व्याचष्टे –

साधुत्वं चेति ।

निर्देशविरोधमाशङ्क्य परिहरति –

हिङ्कारानुवादेनेति ।

हिङ्कारादिसामोद्देशेन साम्नि पृथिव्यादिदृष्टिविधो हिङ्कारादेः प्रथमनिर्देशः स्याद्, यद्वृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम्, इति भट्टाचार्यैरुक्तत्वात्स एव चेह साम्न उपास्यत्वश्रुतेः प्रमाणत्वात्प्राप्तस्तस्मिन्प्राप्ते यो विपरीतनिर्देशः स भञ्जनीय इत्यर्थः॥६॥

इति पञ्चममादित्यादिमत्यधिकरणम्॥