यत्रैकाग्रता तत्राविशेषात् ।
समे शुचौ शर्करावह्निवालुकाविवर्जित इत्यादिवचनान्नियमे सिद्धे दिग्देशादिनियममवाचनिकमपि प्राचीनप्रवणे वैश्वदेवेन यजेतेतिवद्वैदिकारम्भसामान्यात्क्वचित्कश्चिदाशङ्कते । तमनुग्रहीतुमाचार्यः सुहृद्भावेनैव तदाह स्म । यत्रैकाग्रता मनस्तत्रैव भावनां प्रयोजयेत् । ओविशेषात् । नह्यत्रास्ति वैश्वदेवादिवद्वचनं विशेषेकं तस्मादिति ॥ ११ ॥
यत्रैकाग्रता तत्राविशेषात्॥११॥ अङ्गानाश्रितोपासनेष्वासननियम उक्ते तद्वद्दिगादिनियमशङ्कोत्थानात्सङ्गतिः । ननु समे शुचाविति देशनियमस्य श्रुतत्वात् कथं विचारावसरः? तत्राह –
सम इति ।
श्रुतौ शर्कराः सूक्ष्मपाषाणाः जलाश्रयवर्जनं शीतनिवृत्त्यर्थम् । चक्षुःपीडनो मशकः । प्राचीनप्रवणे प्राग्देशनिम्ने देशे । वैश्वदेवेन यागविशेषेण । ऐकग्र्यं हि ध्यानं प्रत्यन्तरङ्गसाधनम् ।
तस्मिन्मध्याह्नादौ संभवत्यपि यदि प्रदोषकालः प्राच्यादिदिक्तीर्थादिदेशः प्रतीक्ष्येरन्स्तर्हि शेषिध्यानबाधः स्यात्तस्मादनियम इति सिद्धान्तमाह –
यत्रैकाग्रता मनस इति ।
यदुक्तमङ्गोपास्तस्त्यतिरिक्तोपास्तिर्दिगादिनियममपेक्षते वैदिकानुष्ठानत्वाद्वैश्वदेववदिति, तत्र श्रुतदेशादिमत्त्वमुपाधिरिति वदन् अविशेषादिति सौत्रं हेतुं व्याचष्टे –
न ह्यत्रेति ।
श्रुतविशेषणेन च वृथाचेष्टाया विपक्षस्य व्यावर्तनान्न पक्षेतरता । तस्मात्तत्रैव भावनामुपासनां प्रयोजयेदित्यन्वयः॥११॥