भामतीव्याख्या
वेदान्तकल्पतरुः
 

आ प्रायणात्तत्रापि हि दृष्टम् ।

अधिकरणविषयं विवेचयति –

तत्र यानि तावदिति ।

अविद्यमाननियोज्या या ब्रह्मात्मत्वप्रतिपत्तिस्तस्याः । शास्त्रं हि नियोज्यस्य कार्यरूपनियोगसम्बन्धमवबोधयति तस्यैव कर्मण्यैश्वर्यलक्षणमधिकारं तच्चैतदुभयमतीन्द्रियत्वाद्भवति शास्त्रलक्षणं प्रमाणान्तराप्राप्ये शास्त्रस्यार्थवत्त्वाद्ब्रह्मात्वप्रतीतेस्तु जीवन्मुक्तेन दृष्टत्वान्नास्तीह तिरोहितमिव किञ्चनेति किमत्र शास्त्रं करिष्यति । नन्वेवमप्यभ्युदयफलान्युपासनानि तत्र नियोज्यनियोगलक्षणस्य च कर्मणि स्वामितालक्षणस्य च सम्बन्धस्यातीन्द्रियत्वात्तत्र सकृत्करणादेव शास्त्रार्थसमाप्तौ प्राप्तायामुपासनपदवेदनीयावृत्तिमात्रमेव कृतवत उपरमः प्राप्तस्तावतैव कृतशास्त्रार्थत्वादिति प्राप्तेऽभिधीयते - सविज्ञानो भवतीत्यादिश्रुतेर्यत्र स्वर्गादिफलानामपि कर्मणां प्रायणकाले स्वर्गादिविज्ञानापेक्षकत्वं तत्र कैव कथातीन्द्रियफलानामुपासनानाम् । तानि खलु आप्रायणं तत्तदुपास्यगोचरबुद्धिप्रवाहवाहितया दृष्टेनैव रूपेण प्रायणसमये तद्बुद्दिं भावयिष्यन्ति । किमत्र फलवत्प्रायणसमये बुद्ध्याक्षेपेण नहि दृष्टे सम्भवत्यदृष्टकल्पना युक्ता । तस्मादाप्रायणं प्रवृत्ता वृत्तिरिति ।

तदिदमुक्तम् –

प्रत्ययास्त्वेत इति ।

तथा च श्रुतिः सर्वातीन्द्रियविषया “स यथाक्रतुरस्माल्लोकात्प्रैति तात्क्रतुर्हामुं लोकं प्रेत्याभिसम्भवति” इति । क्रतुः सङ्कल्पविशेषः । स्मृतयश्चोदाहृता इति ॥ १२ ॥

आ प्रायणात्तत्रापि हि दृष्टम्॥१२॥ पूर्वत्र दिगाद्यविधेः तदनपेक्षावदहंग्रहोपास्तिष्वादेहपातादावृत्तेरविधानात्तदनपेक्षेति सङ्गतिः । भाष्यं व्याचष्टे –

अविद्यमानेति ।

तस्या इति ।

शास्त्राविषयत्वादिति शेषः ।

ब्रह्मात्मत्वप्रतिपत्तेर्नियोज्यरहितत्वं विध्यविषयत्वं च दृष्टफलत्वेनोपपादयति –

शास्त्रं हीत्यादिना ।

नियोगसंबधमवबोधयतीति ।

अन्यत्र ज्योतिष्टोमादाविति शेषः ।

अहंग्रहोपास्तीनामदृष्टार्थत्वेन सम्यग्ज्ञानाद्वैषम्यतश्च ज्योतिष्टोमादिवत्करणमित्याह –

नन्वेवमित्यादिना ।

ननु सकृत्करणे कथमुपासनसिद्धिरसकृत्करणे च सकृदनुष्ठानव्याहतिस्तत्राह –

उपासनेति ।

उपास्तिः सकृत्कार्येति शास्त्रार्थे जाते उपासनशब्दस्याऽऽवृत्त्यर्थत्वादेकवारमावृत्तिर्लभ्यत इति भावः ।

कृतशास्त्रार्थत्वादिति ।

कृतशास्त्रार्थत्वात्पुंस इत्यर्थः । ननु तर्हि कर्मवदेवोपासनान्येव विहितत्वसामर्थ्यात्स्वफलं यथा कालान्तर आक्षिपन्ति –

एवमन्त्यकालिकं स्वफलसाक्षात्कारमप्याक्षिपन्तु, किं प्रायणपर्यन्तावृत्त्येति, तत्राह –

तानि खल्विति ।

दृष्टद्वारेण च प्रत्ययावृत्त्योपास्यसाक्षात्कारजन्मन्यन्तकाले तदवश्यम्भावाद्विरोधिकर्मान्तरानुद्भावाच्च साधकदेहपातानन्तरमुपास्तिफलप्राप्तिनियमः प्रयोजनमिति । किमत्र फलवदित्युपासनं फलवत्प्रायणसमये बुध्द्याक्षेपेणोपास्यसाक्षात्काराक्षेपेण किं कार्यं दृष्टद्वारैव तत्सिद्धेरित्यर्थः । सविज्ञानं विज्ञानसहितं फलम् । यस्मिन्विषये चित्तमस्य स यच्चित्तः । तेन विषयेण हृद्यभिव्यक्तेन सह तेजसा उदानेन उदानस्य तेजोदेवताकत्वात् । आत्मना भोक्त्रा स उपासकोऽक्षितमस्यच्युतमसि प्राणसंशितमसीति मन्त्रत्रयं जपेत् ।
अन्तकाले न कर्तव्यमुपास्ताविव किंचन ।
ब्रह्मबुद्धावशेषाघनाशादिति जगौ मुनिः॥१२॥

इत्यष्टममाप्रायणाधिकरणम्॥