अनारब्धकार्य एव तु पूर्वे तदवधेः ।
यद्यद्वैतज्ञानस्वभावालोचनयोत्तरपूर्वसुकृतदुष्कृतयोरश्लेषविनाशौ हन्त आरब्धानारब्धकार्ययोश्चाविशेषेणैव विनाशः स्यात् । कर्तृकर्मादिप्रविलयस्योभयत्राविशेषात् । तन्निबन्धनत्वाच्च विनाशस्य । नच संस्कारशेषात्कुलालचक्रभ्रमणवदनुवृत्तिः । वस्तुनः खल्वनुवृत्तिः । मायावादिनश्च पुण्यपापयोश्च मायामात्रविनिर्मितत्वेन मायानिवृत्तौ न पुण्यापुण्ये न तत्संस्कारो वस्तुसन्तीति कस्यानुवृत्तिः । नच रज्जौ सर्पादिविभ्रमजनिता भयकम्पादयो निवृत्तेऽपि विभ्रमे यथानुवर्तन्ते तथेहापीति युक्तम् । तत्रापि सर्पासत्त्वेऽपि तज्ज्ञानस्य सत्त्वे तज्जनितभयकम्पादीनां तत्संस्काराणां च वस्तुसत्त्वेन निवृत्तेऽपि विभ्रमेऽनिवृत्तेः । अत्र तु न माया न तज्जः संस्कारो न तद्गोचर इति तुच्छत्वात्किमनुवर्तेत । न संस्कारशेषो न कर्मेत्यविशेषेणारब्धकार्याणामनारब्धकार्याणां च निवृत्तिः । नच तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति श्रुतेर्देहपातप्रतीक्षारब्धकार्याणां युक्ता । नह्येषा श्रुतिरवधिभेदविधायिन्यपि तु क्षिप्रतापरा । यथा लोक एतावन्मे चिरं यत्स्नातो भुञ्जानश्चेति । नहि तत्र स्नानभोजने अवधित्वेन विधीयेते किं तु क्षेपीयस्ता प्रतिपाद्यते । उभयविधाने हि वाक्यं भिद्येतावधिभेदः चिरता चेति प्राप्तेऽभिधीयते यद्यप्यद्वैतब्रह्मतत्त्वसाक्षात्कारोऽनाद्यविद्योपदर्शितप्रपञ्चमात्रविरोधितया तन्मध्यपतितसकलकर्मविरोधी । तथाप्यनारब्धविपाकं कर्मजातं द्रागित्येव समुच्छिनत्ति न त्वारब्धविपाकं सम्पादितजात्यायुर्विततपूर्वापरीभूतसुखदुःखोपभोगप्रवाहं कर्मजातम् । तद्धि समुदाचरद्वृत्तितयेतरेभ्यःप्रसुप्तवृत्तिभ्यो बलवत् । अन्यथा देवर्षीणां हिरण्यगर्भमनूद्दालकप्रभृतीनां विगलितनिखिलक्लेशजालावरणतया परितः प्रद्योतमानबुद्धिसत्त्वानां न ज्योग्जीविता भवेत् । श्रूयते चैषां श्रुतिस्मृतीतिहासपुराणेषु तत्त्वज्ञता च महाकल्पकल्पमन्वन्तरादिजीविता च । न चैते महाधियो न ब्रह्मविदो ब्रह्मविदश्चाल्पपुण्यमेधसो मनुष्या इति श्रद्धेयम् । तस्मादागमानुसारतोऽस्ति प्रारब्धविपाकानां कर्मणां प्रक्षयाय तदीयसमस्तफलोपभोगप्रतीक्षा सत्यपि तत्त्वसाक्षात्कारे ।
तावदेव चिरमिति न चिरता विधीयते । अपि तु श्रुत्यन्तरसिद्धां चिरतामनूद्य देहपातावधिमात्रविधानं तदेतदभिसन्धायौचित्यमात्रतयाह स्म भगवान् भाष्यकारः –
न तावदनाश्रित्यारब्धकार्यं कर्माशयमिति ।
न चेदं न जातु दृष्टं यद्विरोधिसमवाये विरोद्ध्यन्तरमनुवर्तत इत्याह –
अकर्त्रात्मबोधोऽपीति ।
यदा लोकेऽपि विरोधिनोः किञ्चित्कालं सहानुवृत्तिरुपलब्धा तदेहागमबलाद्दीर्घकालमपि भवतीति न शक्या निवारयितुम् । प्रमाणसिद्धस्य नियोगपर्यनुयोगानुपपत्तेः । तदेवं मध्यस्थान्प्रतिपाद्य ये भाष्यकारमाप्तं मन्यन्ते तान् प्रत्याह
अपिच नैवात्र विवदितव्यमिति ।
स्थितप्रज्ञश्च न साधकस्तस्योत्तरोत्तरध्यानोत्कर्षेण पूर्वप्रत्ययानवस्थितत्वात् । निरतिशयस्तु स्थितप्रज्ञः । स च सिद्ध एव । नच ज्ञानकार्या भयकम्पादयः, ज्ञानमात्रादनुत्पादात् । सर्पावच्छेदो हि तस्य भयकम्पादिहेतुः । स चासन्न निर्वचनीय इति कुतो वस्तुसतः कर्योत्पादः । नच कार्यमपि भयकम्पादि वस्तुसत् । तस्यापि विचारासहत्वेनानिर्वाच्यत्वात् । अनिर्वाच्याच्चानिर्वाच्योत्पत्तौ नानुपपत्तिः । यादृशो हि यक्षस्तादृशो बलिरिति सर्वमवदातम् ॥ १५ ॥
अनारब्धकार्ये एव तु पूर्वे तदवधेः॥१५॥ उत्सृष्टस्तत्त्वबोधेन विलयः सर्वकर्मसु । कर्मस्वारब्धकार्येषु स इदानीमपोद्यते ॥ इमामापवादिकीं सङ्गतिमभिसंधाय पूर्वपक्षयति –
यदीत्यादिना ।
ननु निवृत्तेऽपि सर्वकर्मणि कर्मसंस्कारात्कर्मानुवर्तताम्, अथवा - निवृत्तमायासंस्काराद् मायान्तरोत्पत्तौ तेनाभिनवकर्माणि विरच्यन्तामत आह –
न च संस्कारशेषादिति ।
संस्कार एव शिष्यत इति शेषः ।
यथा कुलालकराभिघातनिमित्तनिवृत्त्या निवृत्तेऽपि चक्रभ्रमणे भ्रमणसंस्काराद् भ्रमणानुवृत्तिरेवमत्रानिवृत्तायामपि मायायामुक्तमार्गेण कर्मानुवृत्तिरित्येतन्न, तत्र हेतुमाह –
वस्तुत इति ।
तत्संस्कारस्तयोः पुण्यापुण्ययोः संस्कारः, पुण्यापुण्यसंस्काराणां त्रित्वात्सन्तीति बहुवचनम् ।
वस्त्वेव संस्कारद्वारेणानुवर्तत इति व्याप्तेर्व्यभिचारमाशङ्क्याह –
न चेति ।
रज्जुसर्पविषयज्ञानस्यास्माकं सत्यत्वात्तज्जन्मभयादीनां संस्कारवशादनुवृत्तिर्युक्ता ।
प्रस्तुते वैषम्यमाह –
न त्विति ।
न मायेति भ्रमनिषेधः ।
अर्थात्तदुपादानं माया निषिद्धा भवति ।
तज्जन्यसंस्कार इत्यनेन मायासंस्कारजन्यमायान्तरात् कर्मान्तरोत्पत्तिरिति पक्षं प्रतिक्षिपति ।
न तद्गोचर इति ।
मायात्मकभ्रमगोचरो ज्ञानादूर्ध्वं निषिध्यते किमनुवर्तते इत्युक्त्वा न किमपीत्याह –
नेति । न संस्कारशेषोऽत एव न कर्मेत्यर्थः ।
आरब्धकार्याणां कर्मणां देहपातप्रतीक्षा तत्पर्यन्तमवस्थितिर्न युक्तेत्यर्थः । स्नात इति षष्ठ्येकवचनं स्नानादि कुर्वतो यच्चिरं विलम्बनं तावदेव न ततोऽधिकमित्यर्थः । क्षेपीयस्ता क्षिप्रतरत्वम् । यथा खलु स्वयंप्रकाशप्रत्यगात्मभूतब्रह्मसाक्षात्कारे नित्यमेव भवितुं युक्तेऽपि नास्ति ब्रह्म न प्रकाशते चेति भ्रमान्यथानुपपत्त्याऽऽच्छादिकाऽविद्या कल्प्यते, एवमत्रभवतां हिरण्यगर्भादीनां तत्त्वसाक्षात्कारवतामपि श्रुतिस्मृतिप्रतीतदेहधारणान्यथानुपपत्त्या तत्त्वसाक्षात्कारस्य प्रारब्धफलकर्मप्रतिबन्धात्तत्स्वरूपतत्कार्यभोगसंपादकाविद्यालेशं प्रत्यनिवर्तकत्वं भोगसमाप्तौ कर्मक्षये च प्रतिबन्धनिवृत्तौ सततमनुवर्तमानसाक्षात्कारेण तस्याप्यविद्यालेशस्य निवृत्तिरिति कल्प्यते ।
न चैकदेशेन निवृत्ताया अविद्याया अनुवृत्त्यसंभवः; शाब्दबोधेन निवृत्तायामप्यविद्यायां साक्षात्कारनिरस्यैकदेशान्तरस्य दर्शनात्, तदिदमभिप्रेत्य सिद्धान्तयति –
यद्यपीत्यादिना ।
द्रागित्येवेति ।
तत्राप्रतिबन्धादित्यर्थः । न त्वारब्धविपाकम् शीघ्रं निवर्तयति, प्रतिबन्धक्षये तु निवर्तयतीत्यर्थः ।
आरब्धविपाकत्वस्य व्याख्यानं –
संपादितेति ।
संपादिता जातिः जन्मायुर्जीवनं संपादितम् । विततो विस्तीर्णः पूर्वापरीभूतो वर्तमानः सुखदुःखोपभोगश्च संपादितो येन तत्कर्मजातं तथोक्तं तद् द्रागित्येव न निवर्तयतीत्यर्थः । समुदाचरन्ती उद्भूता, वृत्तिः फलारम्भाय यस्य तत्तथा । परितः समन्तात्प्रद्योतमानं बुद्धिसत्त्वं बुद्धिगतसत्त्वगुणो ब्रह्मज्ञानाकारेण परिणतो येषां ते तथोक्ताः । ज्योग्जीविता उज्ज्वलजीविता । कल्पोऽवान्तरकल्पः ।
यदुक्तमुभयविधाने वाक्यं भिद्येतेति, तत्राह –
तावदेव चिरमितीति ।
श्रुत्यन्तरेति ।
उद्दालकादीनां देहधारणविषयं श्रुत्यन्तरम् ।
उपजीव्याया अपि अविद्याया ज्ञानेन बाधात्प्रारब्धकर्माण्याश्रित्य ज्ञानोदयस्तदनिवर्तकत्वे स्वतन्त्रयुक्तिर्न भवति, किं त्वन्यतः सिद्धेऽर्थेऽभ्युच्चयार्थेत्याह –
तदेतदभिसंधायेति ।
अभ्युपेत्यान्यत्र वस्तुतत्त्वसाक्षात्काराविद्ययोः सहानवस्थानमिहाविद्यैकदेशब्रह्मात्मभावसाक्षात्कारयोरविरोध उक्तः, इदानीमन्यत्रापि न विरोधनियम इत्याह –
न चेदमिति ।
समवाये सन्निधाने । यथा प्रतिबिम्बद्विचन्द्रभ्रमस्यौपाधिकत्वाच्चन्द्रैकत्वसाक्षात्कारेण सहानुवृत्तिरुपाधिनिवृत्तौ निवृत्तिः प्रमाणसिद्धा, एवं निरुपाधिकभ्रमस्यापि सान्तःकरणस्य तत्कर्तृत्वादेस्तदुपादानाविद्यालेशस्य च ब्रह्मसाक्षात्कारेण सहानुवृत्तिः प्रारब्धकर्मोपरमे च निवृत्तिरुद्दालकादिदेहधारणविषयश्रुत्यादिप्रमाणसिद्धा स्वीकर्तव्येत्यर्थः ।
ननु द्विचन्द्रादिभ्रमा अल्पकालं तत्त्वज्ञानेन सहानुवर्तन्ते, कर्तृत्वादेस्तु कथं बहुकालं विरोधिना सहानुवृत्तिरित्यत आह –
यदा लोकेऽपीति ।
नियोगस्तथास्त्विति विधिरनुयोगः कथमेतदिति चोद्यम् । भाष्ये स्थितप्रज्ञलक्षणनिर्देशो जीवन्मुक्तिसाधक उक्तः ।
तत्र स्थितप्रज्ञः साधको न साक्षात्कारवानिति मण्डनमिश्रैरुक्त दूषणमुद्धरति –
स्थितप्रज्ञश्चेति ।
भाष्ये संस्कारवशादिति संस्कारशब्दः परिशिष्टाविद्यालेशवाची ।
संस्कारात्कर्मानुवृत्तिं दूषयता पूर्ववादिना यदुक्तं नावस्तु संस्कारद्वाराऽनुवर्तते भयकम्पादेरपि सत्यज्ञानजन्यत्वेन सत्यत्वादिति , तत्राह –
न च ज्ञानेति ।
मिथ्यात्वेनाविशेषितज्ञानमात्रजन्या न भवन्तीत्यर्थः ।
यदि भवेयुस्तत्राह –
ज्ञानमात्रादिति ।
उत्पादे वा रज्जुज्ञानादपि तदापत्तेरित्यर्थः ।
हेतुद्वारा भयादेः सत्यत्वं निषिध्य स्वरूपेणापि निषेधति –
न च कार्यमपीति ।
आरम्भणाधिकरणे (ब्र.अ .२ पा.१ सू.१४) कार्यमात्रस्य मिथ्यात्वसमर्थनादित्यर्थः ।
ननु रज्जुसर्पज्ञानस्य भयादेश्च मिथ्यात्वे कथं कार्यकारणभावस्तत्राह –
अनिर्वाच्याच्चेति ।
कार्यकारणभावोऽपि न वास्तवः, स्वप्ने हस्तितद्धावनवदित्यर्थः । एवं च कम्पादेर्यथा संस्कारद्वाराऽनुवृत्तिरेवं कर्मणामपीति संस्कारपक्षोऽपि समर्थितः । न विमोक्ष्ये न विमोक्ष्यते । संपत्स्ये संपत्स्यते । तकारलोकश्छान्दसः॥१५॥