भामतीव्याख्या
वेदान्तकल्पतरुः
 

अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ।

यदि पुण्यस्याप्यश्लेषविनाशौ हन्त नित्यमप्यग्निहोत्रादि न कर्तव्यं योगमारूरुक्षुणा । तस्यापीतरपुण्यवद्विद्यया विनाशात् । “प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरमि” ति न्यायात् । नच विविदिषन्ति यज्ञेन दानेनेति मोक्षलक्षणैककार्यतया विद्याकर्मणोरविरोधः । सहासम्भवेनैककार्यत्वासम्भवात् । नह्येतमात्मानं विदुषो विगलिताखिलकर्तृभोक्तृत्वादिप्रपञ्चविभ्रमस्य पूर्वोत्तरे नित्ये क्रियाजन्ये पुण्ये सम्भवतः । तस्माद्विविदिषन्ति यज्ञेनेति वर्तमानापदेशो ब्रह्मज्ञानस्य यज्ञादीनां वा स्तुतिमात्रं न तु मोक्षमाणस्य मुक्तिसाधनं यज्ञादिविधिरिति प्राप्त उच्यते - सत्यं न विद्ययैककार्यत्वं कर्मणां परस्परविरोधेन सहासम्भवात् । विद्योत्पादकतया तु कर्मणामारादुपकारकाणामस्तु मोक्षोपयोगः । नच कर्मणां विद्यया विरुध्यमानानां न विद्याकारणत्वं, स्वकारणविरोधिनां कार्याणां बहुलमुपलब्धेः । तथाच विद्यालक्षणकार्योपायतया कार्यविनाश्यानामपि कर्मणामुपादानमर्थवत् । तदभावे तत्कार्यस्यानुत्पादेन मोक्षस्यासम्भवात् । एवंच विविदिषन्ति यज्ञेनेति यज्ञसाधनत्वं विद्याया अपूर्वमर्थं प्रापयतः पञ्चमलकारस्य नात्यन्तपरोक्षवृत्तितया ज्ञानस्तुत्यर्थतया कथञ्चिद्व्याख्यानं भविष्यति ।

तदनेनाभिसंधिनोक्तम् –

ज्ञानस्यैव हि प्रापकं सत्कर्म प्रणाड्या मोक्षकारणमित्युपचर्यते ।

यत एव न विद्योदयसमये कर्मास्ति नापि परस्तादपि तु प्रागेव विद्यायाः, अत एव चातिक्रान्तविषयमेतत्कार्यैकत्वाभिधानम् ।

एतदेव स्फोरयति –

नहि ब्रह्मविद इति ॥ १६ ॥

सूत्रान्तरमवतारयितुं पृच्छति –

किंविषयं पुनरिदमिति ।

अस्योत्तरं सूत्रम् –

अतोऽन्यापि ह्येकेषामुभयोः ।

काम्यकर्मविषयमश्लेषविनाशवचनं शाखान्तरीयवचनं च तस्य पुत्रा दायमुपयन्तीति ॥ १७ ॥

अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्॥१६॥ उत्पन्नविद्याजन्यकर्मक्षयस्य प्रारब्धफलकर्मस्वपवाद उक्तः ,इदानीमप्रारब्धफलेष्वपि केषुचित्तस्यापवादोऽभिधीयत इति संगतिमभिप्रेत्य पूर्वपक्षमाह –

यदेत्यादिना ।

ननु विद्यार्थमेवाग्निहोत्रादि योगमारुरुक्षुणाऽनुष्ठीयताम्, विद्योदयाच्च तन्निवर्तताम्, फलविनाश्यत्वात्कर्मणः; तत्र कथमनुष्ठेयत्वमिति - तदुच्यते; यदि विद्या पुण्यस्य कस्यचिन्निवर्तिका, तर्हि पुण्यान्तरादपि नोदेतुमर्हति, न हि तमोनिवर्तकः प्रदीपस्तमोन्तरादुदेति ; विरोधस्य जात्युपाधिकत्वादिति तस्यापीतरपुण्यवद्विद्यया नाशादिति विनंष्टुं योग्यत्वादित्यर्थः ।

ननु विरुध्यन्तामन्यानि कर्माणि विद्यया, यज्ञादीनि तु न विरुद्धानि; यज्ञेनेत्यादिशास्त्रप्रामाण्यात्तेषां विद्यया सह मोक्षलक्षणैककार्यकरत्वावगमादिति, तत्राह –

न च विविदिषन्तीति ।

पूर्वोत्तरे इति ।

विद्याजन्मन इति शेषः । पूर्वस्य क्षयादुत्तरस्याश्लेषादित्यर्थः ।

प्रमाणस्यान्यथासिद्धिमाह –

तस्मादिति ।

यज्ञादिति ।

यज्ञादेर्मोक्षसाधनत्वगन्धोऽपि वाक्ये न श्रूयते, किं तु ब्रह्मज्ञानस्य यज्ञादिविशिष्टसाधनसाध्यत्वात्स्तुतिः, यज्ञादीनां च ज्ञानलक्षणविशिष्टसाध्यं प्रति साधनत्वनिर्देशमात्राच्च स्तुतिः, न तु साध्यसाधनत्वमस्ति; विरोधस्योक्तत्वादित्यर्थः । अर्थवादत्वस्फुटीकरणाय योग्यानुपलब्धिसूचनार्थं वर्तमानापदेशग्रहणम् ।

न मुक्तिसाधनयज्ञादिविधिरिति ।

न विज्ञानसाधनविधिरिति हृदयम् ।

पूर्वपक्षनिदानमुच्छिनत्ति –

न च कर्मणामिति ।

स्वकरणविरोधिनां वेणुज्वलनादीनां बहुलमुपलम्भादित्यर्थः । अनेन तद्दर्शनादिति सूत्रावयवो भाष्यनैरपेक्ष्येण व्याख्यातः ।

अत्र च विरोधिनोऽग्निहोत्रादेर्ज्ञानोपयोगे प्रकृते कार्यस्य कारणनिवर्तकत्वमर्थात्प्रकृते तच्छब्देन परामृष्टम्, इदानीं तत्कार्यायेत्यपरमवयवं व्याचष्टे –

विद्यालक्षणेति ।

तदेव ज्ञानं कार्यमिति कर्मधारय इत्यर्थः । तस्या इत्येतावति वक्तव्ये कार्यग्रहणं विरुद्धमपि विरुद्धेन कर्तुं योग्यमिति न्यायसूचनार्थम् ।

प्रमाणदूषणमुद्धरति –

एवं चेति ।

अनेनाभिसन्धिनेति ।

तस्य कार्यमित्यपि भाष्यीयव्याख्यायां पारम्पर्याश्रयणाच्चार्थभेद इत्यर्थः ।

एवं निर्गुणविद्यापरत्वेनाधिकरणं व्यावर्ण्य सगुणपरत्वेनापि वर्णयति –

यत एवेति ।

अत्र च वर्णके तत्सुकृतदुष्कृते विधूनुत इत्यविशेषश्रवणादग्निहोत्रादिलय इति पूर्वः पक्षः । सगुणविद्याफलस्य कर्मसाध्यत्वयोग्यत्वात् ‘यक्ष्यमाणो ह वै भगवन्तोऽहमस्मी’त्यादिसमुच्चयलिङ्गात् सुकृतशब्दस्य च काम्यविषयत्वात् नित्यकर्मसगुणविद्यासमुच्चयः इति सिद्धान्तः । तस्य कर्मसाध्यत्वयोग्यफलस्य दर्शनादिति च सौत्रहेत्वर्थः॥१६॥१७॥

इति द्वादशमग्निहोत्राद्यधिकरणम्॥