भामतीव्याख्या
वेदान्तकल्पतरुः
 

प्रतिषेधादिति चेन्न शारीरात् ।

अधिकरणतात्पर्यमाह –

अमृतत्वं चानुपोष्येत्यतो विशेषणादिति ।

विषयमाह –

अथाकामयमान इति ।

सिद्धान्तिमतमाशङ्क्य तन्निराकरणेन पूर्वपक्षी स्वमतमवस्थापयति –

अतः परविद्याविषयात्प्रतिषेधादिति ।

यदि हि प्राणोपलक्षितस्य सूक्ष्मशरीरस्य जीवात्मनः स्थूलशरीरादुत्क्रान्तिं प्रतिषेधेच्छ्रुतिः तत एतदुपपद्यते । न त्वेतदस्ति । न तस्मात्प्राणा उत्क्रामन्तीति हि तदा सर्वनाम्ना प्रधानावमर्शिनाभ्युदयनिःश्रेयसाधिकृतो देही प्रधानं परामृश्यते । तथा च तस्माद्देहिनो न प्राणाः सूक्ष्मं शरीरमुत्क्रामन्त्यपि तु तत्सहितः क्षेत्रज्ञ एवोत्क्रामतीति गम्यते । स पुनरतिक्रम्य ब्रह्मनाड्या संसारमण्डलं हिरण्यगर्भपर्यन्तं सलिङ्गो जीवः परस्मिन्ब्रह्मणि लीयते तस्मात्परामपि देवतां विदुष उत्क्रान्तिरत एव मार्गश्रुतयः, स्मृतिश्च मुमुक्षोः शुकस्यादित्यमण्डलप्रस्थानं दर्शयतीति प्राप्तम् ॥ १२ ॥

एवं प्राप्ते प्रत्युच्यते –

स्पष्टो ह्येकेषाम् ।

नायं देह्यपादानस्य प्रतिषेधः । अपि तु देहापादानस्य । तथा हि आर्तभागप्रश्नोत्तरे ह्येकस्मिन्पक्षे संसारिण एव जीवात्मनोऽनुत्क्रान्तिं परिगृह्य न तर्ह्येष मृतः प्राणानामनुत्क्रान्तेरिति स्वयमाशङ्क्य प्राणानां प्रविलयं प्रतिज्ञाय तत्सिद्ध्यर्थमुत्क्रान्त्यवधेरुच्छ्वयनाध्माने ब्रुवन्यस्योच्छ्वयनाध्माने तस्य तदवधित्वमाह । शरीरस्य च ते इति शरीरमेव तदपादानं गम्यते ।

नन्वेवमप्यस्त्वविदुषः संसारिणो विदुषस्तु किमायातमित्यत आह –

तत्सामान्यादिति ।

ननु तदा सर्वनाम्ना प्रधानतया देही परामृष्टः तत्कथमत्र देहावगतिरित्यत आह –

अभेदोपचारेण ।

देहदेहिनोर्देहिपरामर्शिना सर्वनाम्ना देह एव परामृष्ट इति पञ्चमीपाठे व्याख्येयम् । षष्ठीपाठे तु नोपचार इत्याह –

येषां तु षष्ठीति ।

अपि च प्राप्तिपूर्वः प्रतिषेधो भवति नाप्राप्ते । अविदुषो हि देहादुत्क्रामणं दृष्टमिति विदुषोऽपि तत्सामान्याद्देहादुत्क्रमणे प्राप्ते प्रतिषेध उपपद्यते न तु प्राणानां जीवावधिकं क्वचिदुत्क्रमणं दृष्टं येन तन्निषिध्यते । अपिचाद्वैतपरिभावनाभुवा प्रसङ्ख्यानेन निर्मृष्टनिखिलप्रपञ्चावभासजातस्य गन्तव्याभावादेव नास्ति गतिरित्याह –

नच ब्रह्मविद इति ।

अपदस्य हि ब्रह्मविदो मार्गे पदैषिणोऽपि देवा इति योजना ।

चोदयति –

ननु गतिरपीति ।

परिहरति –

सशरीरस्यैवायं योगबलेन ।

अपरविद्याबलेनेति ॥ १३ ॥

स्मर्यते च ॥ १४ ॥

प्रतिषेधादिति चेन्न शारीरात्॥१२॥ व्यवहितसंगतिर्भाष्य एवोक्ता । सूक्ष्मं शरीरं यस्य स जीवात्मा तथोक्तः । ननु विद्वानपि चेदुत्क्रामेत्कथं तस्य मोक्षसिद्धिरत आह –

स पुनरिति ।

एकस्मिन्पक्ष इति ।

सिद्धान्ते इत्यर्थः॥१२॥

यदुक्तं हिरण्यगर्भपर्यन्तम् उत्क्रान्तस्य जीवस्य लिङ्गशरीरात् प्रलय इति, तत्राह –

संसारिण एवेति ।

यत्रायं पुरुषो म्रियत इति निर्देशात्संसारमण्डले वर्तमानस्येत्यर्थः ।

मध्ये कश्चिच्छङ्कते –

नन्विति ।

बृहदारण्यके हि पञ्चमाध्याये आर्तभागप्रश्नगतः शरीरापादानकोत्क्रान्तिप्रतिषेधोऽस्त्वविदुषो यत्रायं पुरुष इति पुरुषमात्रोपादानात्, षष्ठाध्यायगतस्तु, ‘‘न तस्मात्प्राणा उत्क्रामन्ती”ति जीवापादानकोत्क्रान्तिप्रतिषेधो भवतु विदुषः, तथा च ब्रह्मविद उत्क्रान्तिसिद्धेः, त्वत्पक्षासिद्धिरित्यर्थः ।

आर्तभागप्रश्नेऽपि ‘‘यदिदं किं च मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्न’’मिति मृत्युमृत्योःपरदेवतायाः प्रस्तुतत्वात्, तदभिज्ञस्य विदुष एवोत्क्रान्तिनिषेध इति साम्यं वाक्यद्वयस्येत्याह –

तत्सामान्यादिति ।

अभेदोपचारेणेति ।

उत्क्रान्त्यवधेरुच्छ्वयनादिभिर्निर्देशस्यान्यथा नेतुमशक्यत्वात्तद्वशेनात्रोपचार इत्यर्थः ।

पञ्चमीपाठे उपचाराश्रयणे न्यायद्वयमाह –

अपि चाद्वैतेति ।

भाष्योदाहृतस्मृतिं व्याचष्टे –

अपदस्य हीति ।

पद्यत इति पदं गन्तव्यम्, अन्यद्यस्य नास्ति स ब्रह्मविद् अपदः ब्रह्मविदो मार्गे ब्रह्मप्राप्तिसाधने ज्ञाने ये पदैषिणः निष्ठेच्छवः तेऽपि देवा उत्कृष्टाः, किमु तन्निष्ठाः, किंतु परं मुह्यत्यत्र मन्दभाग्या इत्यर्थे स्मृतिं योजयति - पदैषिणोऽपीति॥१३॥१४॥

इति षष्ठं प्रतिषेधाधिकरणम्॥