तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ।
अपरविद्याविदोऽविदुषश्चोत्क्रान्तिरुक्ता । तत्र किं विद्वानविद्वांश्चाविशेषेण मूर्धादिभ्य उत्क्रामत्याहो विद्वान्मूर्धस्थानादेव, अपरे तु स्थानान्तरेभ्य इति । अत्र विद्यासामर्थ्यमपश्यतः पूर्वपक्षः । तस्योपसंहृतवागादिकलापस्योच्चिक्रमिषतो विज्ञानात्मन ओक आयतनं हृदयं तस्याग्रं तस्य ज्वलनं यत्तत्प्रकाशितद्वारो विनिष्क्रमद्वारो विद्वान्मूर्धस्थानादेव निष्क्रामति नान्येभ्यश्चक्षुरादिस्थानेभ्यः । कुतः विद्यासामर्थ्यात् हार्दविद्यासामर्थ्यात् । उत्कृष्टस्थानप्रतिलम्भाय हि हार्दविद्योपदेशः । मूर्धस्थानादनिष्क्रमणे च नोत्कृष्टदेशप्राप्तिः ।
अथ स्थानान्तरेभ्योऽप्युत्क्रामन्कस्माल्लोकमुत्कृष्टं न प्राप्नोतीत्यत आह –
तच्छेषगत्यनुस्मृतियोगाच्च ।
हार्दविद्याशेषभूता हि मूर्धन्या नाडी गत्यै उपदिष्टा । तदनुशीलनेन खल्वयं जीवो हार्देन सूपासितेन ब्रह्मणानुगृहीतस्तस्यानुस्मरंस्तद्भावमापन्नो मूर्धन्ययैव शताधिकया नाड्या निष्क्रामति । हृदयादुद्गता हि ब्रह्मनाडी भास्वरा तालुमूलं भित्त्वा मूर्धानमेत्य रश्मिभिरेकीभूता आदित्यमण्डलमनुप्रविष्टा तामनुशीलयतस्तयैवान्तकाले निर्गमनं भवतीति ॥ १७ ॥
तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॥१७॥ प्रज्वलनं कर्मवशाद् भविष्यत्फलप्रकाशः । तस्यानुस्मरन्निति कर्मणि षष्ठी । ननु मूर्धन्य नाड्या देहमात्रव्यापित्वात्कथं तया ब्रह्मलोकप्राप्तिस्तत्राह –
हृदयान्निर्गता हीति ।
ता आसु नाडीषु सृप्ता इति श्रुतिसिद्धत्वादित्यर्थः । विष्वङ् नानागतयः॥१७॥